________________ संसारपडिवण्ण 254 - अभिधानराजेन्द्रः - भाग 7 संसारमोयग संसारपडिवण्ण पुं०(संसारप्रतिपन्न) संसार चतुर्गतिलक्षणं प्रतिपन्ने, आचा०१ श्रु०४अ०२ उ०। संसारपयणुकरण त्रि० (संसारप्रतनुकरण) संसार-भवं प्रतनुअल्प करोति इति संसारप्रतनुकरणः / पञ्चा०६ विव० / संसारक्षयकारणे, “संसारपयणुकरणो, विरयाविरयाण एस खलु जोगा।” प्रति० / संसारपवड्डग पुं० (संसारप्रवर्धक) दीर्घसंसारिणि, पं०व०१द्वार। संसारपारकंखि (ण) त्रि० (संसारपारकाशिन) मोक्षाभिलाषुके, सूत्र० 1 श्रु०१ अ० 3 उ०। संसारपारगामि (ण) त्रि० (संसारपारगामिन्) भवतारके, ध०३ अधि० 1 पा०। संसारभावणा स्त्री० (संसारभावना) संसारतत्त्वपर्यालोचने, प्रव०७१ द्वार। ('भावणा' शब्दे पञ्चमभागे 1507 पृष्ठे गतैषा भावना।) संसारमंडल न० (संसारमण्डल) संसारिजीवचक्रवाले, संसार मण्डलशब्देन परिभाषितसंज्ञेह सूचिता / भ० 5 105 उ० / संसारमोयग पुं० (संसारमोचक) व्यापाद्योपकृतये दुःखित-सत्वव्यापादनमुपदिशति वादिनि, श्रा० / संसारमोचकानां व्यापाद्योपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशलमार्गप्रवृत्तत्वमावेदितं द्रष्टव्यम्, यतस्ते एवमाहुःयत् परिणामसुन्दरं तदापातकटुकमपि परेषामाधेयम्, यथा रोगोपशमनमौषधम्, परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादनमिति, तथाहि-कृमिकीटप-तङ्गमशकलावकचटककु-टिकमहादरिद्रान्धपड़ ग्वादयो दुःखितजन्तवः पापकर्मोदय-वशात्संसारसागरमभिप्लवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकरणकरसिकमानसेन व्यापादनीयाः तेषा हि घ्यापदने महादुःखमतीवोपजायते, तीव्रदुःखवेदनाभि-भववशाच्च प्राग् बद्धं पापकर्मोदीयोंदीर्यानुभवन्तः प्रतिक्षिपन्ति। स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापादयमानाः तीव्रवेदनाऽनुभवतः प्राग्बद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरातरौद्रध्यानोप-गमतः प्रभूततर पापमावर्जयन्तीति? उच्यते-युष्मत्सिद्धान्तानुगतमेव नारकस्वरूपोपदर्शकं वचः, तथाहि-नारका निरन्तरं परमाधार्मिकसुरैः ताडनभेदनोत्कर्तन-शूल्यारोपणाद्यनेकप्रकार-मुपहन्यमानाः परमाधार्मिकसुराभावेपरस्परोदीरिततीव्र वेदना रौद्रध्यानोपगता अपि प्राग्बद्धमेव कर्म क्षपयन्ति, नापूर्व पापमधिकतरमुपार्जयन्ति, नारकायुर्बधासम्भवात्, तदसंभवश्वानन्तरं भूयः तत्रैवोत्पादाभावाद् / अपि चयत एव रौद्रध्यानोपगता अत एव तेषां प्रभूततरप्राग्बद्धपापकर्मपरिक्षयः, तीव्रसवलशा भावात्, न खलु तीव्रसंक्लेशाभावे परमाधार्मिकसुरा अपि तेषां कर्म क्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापादका ध्यापाद्यानामुपकारका एव / इत्थं च व्यापादनतः तेषामुपकारसम्भवे ये तदव्यापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः सुखासिका-मनुभवन्तोऽव-तिष्ठन्ते न ते | व्यापादनीयाः, तेषां व्यापादने सुखानुभवनियोगभावतोऽपकारसम्भ वात् / न च परहितनिरताः परापकृतये संरम्भमातन्वन्ते तदेतदयुक्तम्, परोपकारो हि स एव सुधिया विधेयो य आत्मन उपकारकः / न च परेषां व्यापादनेनोपकृतिकरणे भवतः कमप्युपकारमीक्षामहेयथाहि-परेषा व्यापादने को भवतः उप-कारः? किं पुण्यबन्ध उत कर्मक्षयः? तत्र न तावत्पुण्यबन्धः? परेषामन्तरायकरणात्, ते हि परे यदि भवता न व्यापाद्येरंस्ततस्ते परान सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जनान्तरायकरणम्, न च पुण्योपार्जनान्तरायकृत पुण्यनुपार्जयति विरोधात सर्वस्य पुण्यबन्धप्रसक्तेश्च / एतेन यदुक्तम्- 'परिणामसुन्दरं च दुःखितसत्त्वाना व्यापादनमिति' तदसिद्धं द्रष्टव्यम्, पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्यायोगात् / अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकम् ? सहेतुकमपि किमज्ञान-हेतुकमुताहिंसाजन्यमुताहो वधजन्यम् ? तत्र न तावदज्ञानहेतुकम्, अज्ञानहेतुकतायां हिंसातो निवृत्त्यसंभावात. यो हि यन्निमित्तो दोषः स तत्प्रतिपक्षस्य॑वासेवायां निवर्त्तते, यथा हिमजनितं शीतमन-लासेवनेन, न चाज्ञानस्य हिंसा प्रतिपक्षभूता, किं तु सम्यग्ज्ञानम्, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्तत ? अथाहिंसाजन्य-मिति वदेत्, तदपि न युक्तम्, एवं सति मुक्तानामपि कर्मबन्ध-प्रसक्तेः, तेषामहिंसकत्वात्। अथ हिंसाजन्यम्, यद्येवं तर्हि कथं हिंसात एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्ति वितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात् निवर्तते, ततः प्राणिहिंसोत्पादितकर्मनिवृत्त्यथमवश्यमहिंसाऽऽसेवनीया, उक्ते च- "तम्हा पाणिवहो वज्जियस्स कम्मरस खवणहेऊओ। वहविरई कायव्वा. संवररूवत्ति नियमेणं / / 1 / / " अथाहेतुकं न तर्हि तदस्ति, खरविषाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः? अथाहेतुकमप्यस्ति यथाऽऽकाशं. ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्य-फलत्वात्न कार्यः प्राणिबधः / यदप्युक्तम्- 'ये तु प्रागुपात्तपुण्यकर्मवशतः सुखासिकामनुभवन्तोऽवतिष्ठन्ते न ते व्यापादनीयाः, इत्यादि, तदप्ययुक्तं, यतः पुण्यपापक्षयान्मुक्तिः, ततो यथा परेषां पापक्षपणाय व्यापादने भवतः प्रवृत्तिः तथा पुण्यक्षपणा-यापि भवति / अथ पापं दुःखानुभवफलं ततो व्यापादनेन दुःखो-त्पादनतः पापं क्षपयितु शक्य, पुण्यं तु सातानुभवफलं तत्कथं दुःखोत्पादनेन क्षपयितुं शक्यम्? शातानुभवफलं हि कर्म सातानुभवोत्पादनेनैव क्षपयितुशक्यम्, नान्यथा, तदपि न समीचीन, यतो यत्पुण्य विशिष्ट वेदभवे वेदनीय तन्मनुष्यादिभवव्यापाद-नेन प्रत्यासमीक्रियते, प्रत्यासमीकृतं च प्रायः स्वल्पकालवेद्यं भवति, तत एवं पुण्यक्षपणस्यापि सम्भवात् कथं न व्यापादनेन पुण्यपरिक्षयः ? अथ व्यापादनानन्तरं विशिष्टदेवभववेदनीयः पुण्योदयः संदिग्धः कस्यचित्पापोदयस्या