________________ संसत्त 246 - अमिधानराजेन्द्रः - भाग 7 संसत्त कुजाण वा वि पेहं, सुज्झइ अतिसंभमा सो उ॥२०॥ यद्यनन्तरोक्तकारणैः प्रत्युपेक्षणं न भवति तत उपयोगं कुर्यात् / कृते वोपयोगे यदि प्राणिनः पश्यति ततस्तान् दृष्ट्वा भक्तपानं परिहरेत् / अथवा-अत्यातुरं प्रेक्ष्य उपयोगमपि कुर्याद्वा, न वा / अनु-पयुञ्जानोऽपीति संभ्रमादसौ साधुः शुद्ध्यति / यद्वाऽधस्तादुक्त-स्तत्रोक्तः शुष्कौदनः पृथक् गृह्यतेतत्राप्येतेष्वेवग्लानाध्वावशेषेषु कारणेषु द्वितीयपदं मन्तव्यम्। तथा चाऽऽहवीसुंघेप्पइ अतरं-तगस्स बितियं दवं तु सोहेति। तेण उ असुक्खगहणं,तं पिय उण्हेतरो पेहे॥२०६।। अतरन्तगस्य ग्लानस्य योग्यं विष्वगेकस्मिन् मात्रके गृह्यते, द्वितीये च मात्रके गृह्यते द्रवं शोधयति / ततो यत्र शुष्कौ दनं पृथक् गृह्यते ततः तृतीयमात्रकं नास्तीति कृत्वा शुष्कद्रवं तत्रैव प्रतिग्रहे गृह्णीयात् / ग्लानस्यापि यदोदनं द्वितीयाङ्गादिकमेकस्मिन् मात्रके गृह्णाति तदप्युष्णं ग्रहीतव्यम्, इतरत्तु शीतलं प्रत्युपेक्षितं यद्यसंसक्तं ततो गृह्णीयादन्यथा तु नेति भावः। अद्धाणे ओमेवा, तहेव बेलातिवातियं णातुं। दुलभदवे व भा सिं, धोवणपियणेण होहिंति॥२१०।। अध्वनि वा अवमौदर्य वा वेलाया अतिपातमपि अतिक्रमज्ञात्वा तथैव शुष्कं विष्वग् न गृह्णीयात्। दुर्लभं वा तत्र ग्रामे द्रवं पानक ततो मा 'सिं' एषां साधूनां भाजनधावनपानेन भविष्यत इति कृत्वा पूर्वमात्रकेद्रवं ग्रहीतं ततो नास्ति भाजनं यत्र शुष्कं पृथक् गृह्यते, अत एकत्रैव गृह्णीयात् / उक्तमोदनविषयं द्वितीयपदम्।। अथ पानकविषयमाहआउट्टिएँ संसत्ते, (देसे) गेलण्णद्धाण कक्खडे खिप्पं / इयराणिय अद्धाणे, कारणगहिते यजयणाए।।२११॥ यथा कारणे आकुट्टिकया जनितेऽपि संसक्ते देशे गच्छन्ति तथा तत्र गताः सन्तः संसक्तमपि पानके गृह्णन्ति, गृहीत्वा ग्लानत्वे अध्वनि कर्कशे वा अवमे क्षिप्रं न परित्यजेयुरपि / तथाहि-ग्लानत्वे यावत्ससक्तं परिष्ठापयन्ति तावत् ग्लानस्य वेलातिक्रमो-भवति, अध्वनि सार्थातपरिभ्रस्यन्ति, अवमोदर्ये भिक्षाकालः स्फिटति, ततो न क्षिप्रं परित्यजेयुः / इतराणि च सागारिकस्य पश्यतः परिष्ठापनं संसृत्यादीनि यानि पूर्वप्रतिषिद्धानि तान्यप्यध्वनि वर्त्तमानः कुर्यात्, एषकारणे यतनया गृहीतस्यसंसक्तस्य विवेचने विधिरवगन्तव्य इति संग्रहगाथा-समासार्थः / अथैनामेव विवृणोतिआउट्टिगमणसंस-त गिण्हणं न य विगिंचए खिप्पं / ओमगिलाणे वेला-विहम्मि सत्थो वइक्कमइ।।२१२|| यथा आकुट्टिकया संसक्ते देशे गमन तथा तत्र गतः संसक्तमपि गृह्णीयात् न च क्षिप्रं विविच्यात्, परिष्ठापयेत् / कुत इत्याह-अथ में भिक्षाकालः स्फिटति ग्लान्ये वा ग्लानस्य वेला अतिक्रामेत् / विहेअध्वनि सार्थोऽतिक्रामति ततः क्षिप्रं न परित्यजेत्।। अविवादिहि संसत्ते, संकप्पादी पदा तु जह सुज्झे। संसट्ठसत्तुचाउल-संसत्त सतीतहा गहणं // 213|| अशिवादिभिः करणेर्यथा संसक्ते देशे संकल्पादीनि पदानि कुर्वाणोऽपि शुद्ध्यति, तथा तत्र गतो यद्यसंसक्तं पानकं लभते ततः संसृष्टपानक तन्दुलोदकं वा संसक्तं तथैव गृह्णीयात्।। तेषां पुनर्गृहीतानामयं विधिःओवग्गहियं चीरं, गालणहेउं घणं तु गेण्हंति। तह विय असुज्झमाणे, असती अद्धाण जयणा उ॥२१४॥ औपग्रहिक घनं-निच्छिद्रं चीवरं तेषां संसक्तपानकानां गालनाहेतोर्गृहन्ति। तथापि गाल्यमानं यदि न शुद्ध्यति न वा तन्दुल-धावनादिकमपिलभ्यते ततो वा प्रथमोद्देशके अध्वनि गच्छतांतु 'वारफलयरक्खें' इत्यादिना पानकयतना भणिता सा कर्त्तव्या। अथ दधिविषयं विधिमाहसंसत्त गोरसाणं, ण गालणं णेव होइ परिभोगो। कोडिदुगलिंगमादी, तहि जयणा णो य संसत्तं / / 215 / / यदि क्वापि संसक्तो गोरसो लभ्यते ततस्तस्य न गालनं नवा परिभोगः कर्त्तव्यः, किंतु-'कोडिदुगलिंगमाईत्ति-कोटिद्वयेन विशोधिकोट्या च अविशोधिकोट्या भक्तपानग्रहणे यतितव्यं यावदाधाकर्मापि गृह्यते, अन्यलिङ्गमपि कृत्वा भक्तपानमुत्पाद्यते न पुनः संसक्तो गोरसो ग्रहीतव्यः। अथ 'इयरणि' इत्यादि पश्चार्द्ध व्याचष्टसागारियसव्वत्तो, णऽस्थिय छाया विहम्मि दूरे वा। वेला सत्थो व चले, ण णिसीयपमजणे कुजा // 216 // अध्वनि गच्छता सर्वतोऽपि सागारिक छाया च तत्र नास्ति, अस्ति वा परं दूरे। तत्र च गच्छता वेलाऽतिक्रामति, सार्थो वा चलति,तत्र उष्णेऽपि भूभागे परिष्ठापयेत् / यत्र चोपविशतः सागारिक वा शङ्कादयो दोषाः अशुचिरं वा स्थानं तत्र निषदनप्रमार्जने अपि न कुर्यात् / बृ० 5 उ० / (संसक्तनिर्युक्त्युक्तानि संसक्तद्रव्याणि 'भुजाभुज' शब्देऽस्माभिर्दर्शितानि) कदाचित्संविग्नगुणानां कदाचित्पार्श्वस्थादिदोषाणां संबन्धात् गौरवत्रयसंसज्जनाच संसक्तम् / ज्ञा० 1 श्रु० 5 अ० / गुणैश्च दोषैश्च संसजते मिश्रीभवतीति संसक्तः / प्रव०२ द्वार। संसक्त इव संसक्तः। पार्श्वस्थादिकं तपस्विनं वा आसाद्य संनिहितदोषगुणे, व्य० 10 / संसक्तलक्षणम्संसत्तो य इआणिं, सो पुण गोभत्तलंदए चेव / उचिट्ठमणुचिटुं, जं किंची छुब्भई सध्वं / / 1 / / एमेव य मूलुत्तर, दोसा य गुणा य जत्तिया केइ। ते तम्मि वि सन्निहिआ, संसत्तो भन्नई तम्हा ||2|| रायविदूसगमाई, अहवाऽवि नडो जहा उ बहुरूवो। अहवाऽवि मेलगो जो, हलिद्दरागाइबहुवन्नो // 3 // एमेव जारिसेणं, सुद्धमसुद्धेण वाऽवि संमिलइ। तारिसओ चिअ होही, संसत्तो भण्णई तम्हा।।४।। आव०३ अ०।