________________ संसत्त 248 - अभिधानराजेन्द्रः - भाग 7 संसत्त इदमेव व्याचष्टेजावइकाले वसहिं उवेति जति तावते ण चिटुंती। तं पियमणुण्हमदवं, तो गंतुमवस्सए पट्ठो।।१६८।। यावता कालेन वसतिमुपैति तावता कालेन यदि ते प्राणिनो नदिशन्ति / न विपश्यन्ति तदसतिं नीयते तदनुष्णमद्रवं चयदिभवति ततः प्रतिश्रयं नेतव्यम्। किमुक्तं भवति-यद्युष्णः कूरो द्रव वा संसक्तं ततः प्रतिश्रय न नीयते / मा यावत्प्रतिश्रयं नीयते तावत्प्राणजातीया उष्णे द्रवे वा मरिष्यन्तीति कृत्वा / अथानुष्णमद्रवं वा तत उपाश्रये गत्वाऽपद्रवेतपरिष्ठापयेत / यत्पुनरुष्णं द्रवे वा तत्तत्रैव शून्यगृहादौ परिष्ठापनीयम्। अथ दूरे वसतिस्ततोऽनुष्णमपि शून्यगृहादिषु परिष्ठापयितव्यम्। सुण्णघरादीण सती,दूरे को णयति अंतरीभूते। उकुडुपमज्जछाया, वतिकोणादीसु विकिरणं // 16 // अथ शून्यगृहादीनि न सन्ति ततो दूरे एकान्तं गत्वा यत्र कोणस्थितो वृत्त्या अन्तरितीभूतो वा सागारिको न पश्यति तत्रोत्कुटुको भूत्वा प्रमृज्य छायायां वृत्तः, कोणके प्रक्षिपति, आदिग्रहणेन वृत्तेमध्येऽपि विकिरति- / परिष्ठापयतीत्यर्थः / एवमोदनस्य सत्कानां द्रवस्य वा परिठापनं कर्त्तव्यम् / सागारिएँ उण्हठिए, अपमजंते यमासियं लहुगं। वोच्छेदुडाहादी, सागारियसेसए काया // 200 / / अथ सागारिके च पश्यति उष्णे वा प्रदेशे भूत्वा स्थितो वा ऊर्द्ध भूमेरप्रमाणं वा परिष्ठापयति ततश्चतुर्ध्वपि लघुमासिकम्। सागारिके च पश्यति यदि भक्तं परिष्ठाप्यते तदा स भक्तपानेन व्यवच्छेदमुड्डाहादिकं वा कुर्यात, शेषेषु उष्णादित्रये परिष्ठापयतः पृथिव्यादिकाया विराध्यन्ते। इइओअणसत्तविही, सत्तूतदिणकतादिजा तिपिण। वीसुंदीसुंगहणं,चतुरादिदिणादिएगत्थ॥२०१॥ इत्येवमोदनस्य संसक्तस्य विधिरुक्तः / सक्तुसक्तानां विधिरुच्यते यत्र सक्तवः संसक्ताःलभ्यन्तेतत्र नैव गृह्यन्ते। अथ न संस्तरति ततस्तदिवसकृतान् सक्तुकान् गृह्णन्तीति। आदिशब्दात्तैरप्यसंस्तरतो द्वितीयतृतीयदिनकृतानपि सक्तून गृह्णन्ति, ते पुनः पृथग 2 गृह्यन्ते। चतुर्थदिवसकृतादयस्तु सर्वेऽप्येकत्र गृह्यन्ते, तेषामयं प्रत्युपेक्षणाविधिः / रजस्त्राणमधः-प्रस्तीर्य तस्योपरि पात्रकम्बलं कृत्वा तत्र सक्तवः प्रकीर्यन्ते, तत ऊर्ध्वमुखं पात्रकबन्धंकृत्वा एकस्मिन्याचे नीत्या यास्तत्र | कणिका लग्रास्ता उद्धृत्य कपरे प्रक्षिप्यन्ते / एवं प्रत्युपेक्ष्य भूयोऽपि तथैव प्रत्युपेक्षन्तेततः। नव पेहातो अदिटे, दिढे अण्णा उ होंति णव चेव। एवं नवगा तिण्णी, तेण परं संथरे उज्झे / / 202 / / नव वाराः प्रत्युपेक्षणाः कृत्वा यदि प्राणजातीया न दृष्टास्ततो भोक्तव्यास्ते सक्तवः, अथ दृष्टास्ततो भूयोऽप्यन्या नववारा: प्रत्युपेक्षणा भवन्ति / तथापि यदि दृष्टास्ततः पुनरपि नव वाराः प्रत्युपेक्षन्ते / ततो यद्येवं विभिनवकैः शुद्धास्ततो भुजताम् / अथ न शुद्धास्तदा तान् ततः परं परिष्ठापयेत् / अथासंस्तरणं ततस्तावत्प्रत्युपेक्षन्ते यावत् शुद्धीभवन्ति। प्राणजातीयानां च परिष्ठापने विधिरयम्आगरमादी असती, कप्परमादीसु सत्तुए उरणी। पिंडमलेवकडाणय, काऊण दवं तुतत्थेव / / 203 / / या ऊरणिकाः प्रत्युपेक्षमाणेन दृष्टास्ता आकरादिषु परिष्ठापनीयाः, इह घरट्टादिसमीपे प्रभूता यत्र तुषा भवन्ति स आकर उच्यते। तस्याभावे कर्परादिषु स्तोकान् सक्तून् प्रक्षिप्य तत्रोरणिकाः स्थापयित्वा बहिरनाबाधे प्रदेशे स्थाप्यन्ते, यदिच द्रवभाजनं नास्ति ततो ये सक्तवः शुद्धा अलेपकृताश्च ते पिण्डं कृत्वा भाजनस्यैकपार्श्वे स्थापयित्वा तत्रैव च द्रवं कृत्वा गृहीत्वा भुञ्जते। यत्र च काञ्जिकं संसज्जते तत्रायं विधिःआयामसंसठुसिणोदगंवा, गिण्हंति वा णिव्वतचाउलोदं। गिहत्थभाणेसु वि पेहिताणं, मत्तेव सोहेतुवरि छुभंति॥१०४|| आयाम संसृष्टपात्रकमुष्णोदकं वा त्रिवृत्तं वा प्राशुकीकृतं वा उष्णोदकं तन्दुलधावनं गृह्णन्ति / एतेषामभावेतदेव काजिकं गृहस्थभाजनेषु प्रत्युपेक्ष्य मात्रके वा शोधयित्वा यद्यसंसक्तं तदा गृहोपरि प्रेक्षिपन्ति। द्वितीयपदमाहबिइयपदऽपेक्खणं तु, गेलण्णद्धाणओगमादीसुं। तंचेव सुक्खगहणे, दुल्लभदव्येसु वी जयणा / / 205 / / द्वितीयपदे ग्लानाध्वावमादिषु कारणेष्वपेक्षणं-पिण्डस्याप्रत्यु-- पेक्षणमपि कुर्यात्। तदेव ग्लानत्वादिकं द्वितीयपदं शुष्कस्यौदनस्य ग्रहणे मन्तव्यम्। दुर्लभं वा द्रव्यं पश्चात् लभ्यते, ततः पूर्वं तद् गृहीतमिति कृत्वा नास्ति तद्राजनं यत्र पृथक् शुष्कं गृह्यते 'दोसु विजयण' त्ति द्वयोरप्युपेक्षणं शुष्कग्रहणयोरेषा यतना कर्तव्या। एष संग्रहगाथा-समासार्थः। साम्प्रतमेनामेव विवृणोतिअचाउरसंमूढो, वेलातिक्कमति सीयलं होई। असढो गेण्हणगहिते, सुज्झेइ अपेक्खमाणो वि॥२०६|| कश्चिदतीवातुरत्वेन ग्लानत्वेन संमूढः संमोहसमुद्धातमुपगतस्ततो यावत्प्रत्युपेक्षति तावद्वेला अतिक्रामति / शीतलं वा तावता कालेन भवति, तदप्यशठो-विशुद्धभावो गृह्णानो वा, गृहीते वा पिण्डे प्रत्युपेक्षणामकुर्वाणोऽपि शुध्यति तत्प्रायश्चित्तभाग्न भवति। ओमाणपेल्लितो वे-लतिक्कमे चलितुमिच्छति भयं वा। एवंविहे अपेहा, ओमो सति कालवेला वा / / 207 / / अध्वनि वा गच्छसार्थाऽवमानप्रेरिते प्रभूतभिक्षाचराकीणों यावच प्रत्युपेक्षतेतावद्वेलातिक्रमो भवति, सर्वः सार्थश्वलितुमिच्छति, पृष्टा भो गच्छतां च भयं, तत एवं विधे कारणे अपेक्षा प्रत्युपेक्षामन्तरेणापि पिण्ड गृह्णीयादित्यर्थः / अयमेव प्रत्युपेक्षमाणानां सत्कालो भिक्षाया देशः कालः स्फिटति। सूर्य चास्तमिते अथ स्थानं वा भिक्षाचराकीर्ण ततोऽप्रत्युपेक्षितमपि गृह्णीयात्। तो कुज्जा उवओगं, पाणे दळूण तं परिहरेज्जा।