________________ संसत्त 247 - अभिधानराजेन्द्रः - भाग 7 संसत्त तुर्गुरु संसक्तदेशस्य पन्थानं गच्छतः षड्लघु, तं देशं प्राप्तस्य षड्गुरु, तथैव द्वीन्द्रियादेः संघट्टनादिकमापन्नस्य स्वस्थानप्रायश्चित्तम्, तद्यथाद्वीन्द्रिय संघट्टयति चतुर्लघु, परितापयति चतुर्गुरु, अपद्रावयति षड्लधु, द्वीन्द्रियाणा संघटनादिषु पदेषु चतुर्गुरुकादरब्ध षड्गुरुके तिष्ठति / चतुरिन्द्रियाणां संघट्टनादिषु षड्लघुकादिकं छेदान्तमिति। (अ) सिवादिएहिं तु तर्हि पविट्ठा, संसज्जिमाइं परिवञ्जयंति। भूइट्ठसंसज्जिमदव्वलंभे, गेहतुवारण इमेण जुत्ता।।१८८|| अशिवादिभिः कारणस्तत्र संसक्तदेशे प्रविष्टास्ततः संसज्जिमानि सक्तुदधिप्रभृतीनि द्रव्याणि परिवर्जयन्ति। अथ भूयिष्ठानि-प्रभूततराणि संसजिमद्रव्याणि लभ्यन्ते ततोऽमुनोपायेन युक्ताः प्रयत्नपरा गृह्णन्ति / गमणागमणे गहणे, पत्ते पडिए य होति पडिलेहा। अगहियदिट्ठविवज्जण, अह गिण्हइ तमाभजे / / 186 / / भक्तार्थ दायकमध्ये गमन 'कुर्वन् कीटिकामण्डूकीप्रभृतिजन्तु-- संसक्तायां भूमौ मा विराधनां कुर्यादिति सम्यग निरीक्षणीयः, एवमागमने भिक्षाया हर तेन ग्रहणमवविलोकनीयम्। प्राप्ते च दायके तदीयहस्तगतः पिण्डः प्रत्यपेक्षणीयः / पात्रे च पतितः प्रत्युपेक्षितव्यः / ततो गृहीते त्रसादिकं प्राणजातं पश्यति ततस्तस्मिन् दृष्टे वर्जयति न गृह्णातीत्यर्थः / अथ गृह्णानि ततो येन द्वीन्द्रियादिना संसक्तं गृह्णाति तन्निष्पन्न प्रायश्चित्तमापद्यते। ___ अथ पुनरेवं न प्रत्युपेक्षते तत इम दोषाःपाणाइसंजमम्मि, आता मयमच्छिकंटकविसंवा। मुइंगमच्छिविच्छुग, गोवालियमाझ्या उभए।।१६।। संयमे त्रसप्राणपनकादयो विराध्यन्ते / आत्मविराधनाया घृतं मक्षिकासंमिश्र भुड्यते वल्गुलीव्याधिस्ततश्चक्रमेन मरणं भवेत, कण्टको वा विष व समागच्छत् / उभय विराधनायां मुइङ्गा-पियीलिका मक्षिकावृश्चिकगोपालिकादयों वा भवन्ति ! गोपालिका अहिलोहिकाख्यो जीबविशेषः / एते हि मक्षिका जीवा भक्तेन सह भुक्ताः संयमोपघातमात्मनश्चमधाधुपघातं कुर्वन्ति। पवयणघातं च सिया, तं वियर्ड पिसियमट्ठजातं वा। आदाणकिलेसऽजसे, दिटुंतो सेट्ठिकप्पट्ठो।।१६१।। प्रवचनोपजाति वा स्यात्तद्विकट पिशितं वा ततस्याद्-भवेत, अर्थजातं वा सुवर्ण संकलिकामुद्रिकादिक कश्चिदनुकम्पया प्रत्यनीकतया तावद्दद्यात्,ततः पतितं पिण्ड प्रत्युपेक्षेत तचाप्रत्युपेक्ष्य गृहीतं मन्दधर्मणः कस्याप्युत्प्रवजितुकामस्यादानमाजीविकाकारणं भवति, तदादायोत्प्रव्रजतीत्यर्थः / अर्थजाते च गृहीते साधूनां रक्षणादिके महान् परिक्लेशोऽयशो वा भवेत् / तथा चात्र सिद्धित्रिराज्यपदोपविष्ट -- कल्पस्थकोपलक्षितस्य काष्ठश्रेष्ठिनो दृष्टान्तः / स चावश्यकटीकातोऽवगन्तव्यः। तम्हा खलु दट्ठव्वो, सुक्खग्गहणं अगेण्हणे लहुगा। आणादिणो य दोसा, विराहणा जा भणियपुट्विं / / 12 / / यत एते दोषास्तस्मात खलु-नियमात् पात्रकपतितः पिण्डो द्रष्टव्यः / ससक्ते च देश शुष्कस्य कूरस्य पृथक् मात्रके ग्रहण कार्यम्। अथ पृथक्न गृह्णाति ततश्चतुर्लधु आज्ञादयश्च दोषाः, विराधना च द्विधा संयमात्मविषया पूर्वमनन्तरमेव भणिता। इदमेव भावयतिसंसज्जिमम्मि देसे, मत्तगसक्खपडिलेहणा उवरि। एवं ताव अणुण्हे, उण्हे कुसणं च उवरि तु ||163 / / संसजिमे देशे यः शुष्कपौगलिकोऽनुष्णो लभ्यते स मात्रके गृहीत्वा प्रत्युपेक्ष्य यद्यसंसक्तस्तदा प्रतिग्रहोपरि क्षिप्यते, एवं तावदनुष्णे विधिरुवतः। यः पुनरुष्णः कूरः कुसणं वा तन्नियमादसंसक्तमिति कृत्वा प्रतिग्रहस्थवोपरि गृह्यते। गुरुमादीण व जोग्गं, एगम्मितरम्मि पेहिउँ उवरि। दोसु वि संसत्तेसुं, दुल्लहपुवेतरं पुच्छा / / 164|| गुरुालानादीनां च योग्यमेकरिमन् मात्रके गृह्यते, इतररिमन्-द्वितीये मात्र संसक्तं प्रत्युपेक्ष्य प्रतिग्रहोपरि प्रक्षिप्यते, एवं तावद्यत्रक भक्तं पानकं वा संसक्त तत्र विधिरुक्तः / यत्र तुद्वे अपि भक्तपानके संसक्ते तत्र यद्भक्तं पानकं वा दुर्लभं तत्पूर्व गृह्णन्ति, इतरत्-सुलभं पश्चाद गृह्णन्ति। एसा विही तु दिखे, आउट्टियगेण्हणे तु जं जत्थ / अणॉभोगगहे विगिंचणे, खिप्पमवि चिंतियं जत्थ // 165 / / एष विधिदृष्ट गृह्यमाणे भणितः। अथाकुट्टिकया संसक्तं गृह्णन्ति ततो यद्यत्र द्वीन्द्रियपरितापनादिकं करोति तत्तत्र प्राप्रोति / यथा-ऽनाभोगेन संसक्त गृहीतं ततःक्षिप्रमेव विवेचनम् / अथ क्षिप्रं न विनक्ति ततो यावः परिष्ठापयति तावत् यत्र यद्विनाशमश्नुते तन्निष्पन्नं प्रायश्चित्तम्। कः पुनः क्षिप्रकाल इत्याहसत्त पदा गम्मते, जावति कालेण तं भवे खिप्पं / कीरति वा तालाओ अडुयमविलंबिता सत्तं / / 166 / / यावता कालेन सप्त पदानि गम्यन्ते तत् क्षिप्रं मन्तव्यम् / यावता वा कालेनाहृतमविलम्बितं सप्त तालाः क्रियन्ते तावान् कालविशेषः क्षिप्रम् / तम्हा विविंचितव्वं, आसपणे वसहिदूरजयणाए। सागारिय उण्हविए, पमज्जणा सत्तुगदवे य / / 167 / / तस्मात्तजन्तुसंसक्तमनन्तरोक्तक्षिप्रकालमध्य एव विवेचनीयम्। यदि च वसतिरासन्ना ततस्तत्र गत्वा परित्यक्तव्यम्, अथ दूरे वसतिस्तदा शून्यगृहादिषु यतनया परिष्ठापयति / अथ सागारिके पश्यति उष्णे वा भूभागे स्थितो वा ऊर्द्ध स्थितः परिष्ठापयति ततो वक्ष्यमाणं प्रायश्चितम् / यत्र च परिष्ठाप्यते तत्र प्रर्माजना कर्त्तव्या। एवमोदनस्य विधिः / सक्तुद्रवस्य तत्रैवमेवाल्पसागारिके प्रमृज्य छयायां परिष्ठापन विधेयम्।