________________ संसत्त 246 - अभिधानराजेन्द्रः - भाग 7 संसत्त या) 'अहे झामथडिलंसि, वे' त्ति-अथानन्तर्यार्थः, वाशब्द उत्तरापे-क्षया विकल्पार्थः, 'झामे' त्ति-दग्धं तस्मिन् वा स्थण्डिले अ-स्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुषराशौ वा गोम-यराशी वा किया वक्ष्यते इत्युपसहरति-अन्यतरराशौ वा तथा प्रकारे-पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत्प्रत्युपेक्ष्य 2 अक्ष्णा प्रसृज्य 2 रजोहरणादिना अत्रापि द्विर्वचनमादरख्यापनार्थमिति प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्तभड़का भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् 1, प्रत्युपेक्षितं प्रमार्जितम् 2 प्रत्युपेक्षितमप्रमार्जितम् 3 तत्राप्रत्युपेक्ष्य प्रमृजन् स्थानात् स्थानसंक्रमणेन सान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथिवीकायादीन् विराधयतीति, चतुर्थभङ्ग के तु चत्वारोऽमी, तद्यथा-- दुष्प्रत्युपे-क्षितं दुष्प्रमार्जितम् 4, दुष्प्रत्युपेक्षित सुप्रमार्जितम् 5 सुप्रत्युपेक्षितं दुष्प्रमार्जितम् 6 सुप्रत्युपेक्षितं सुप्रमार्जितमिति स्थापना। तत्रैवं भूते सप्तमभङ्गायाते स्थण्डिले संयत एव सम्यगुपयुक्त एव शुद्धा-- शुद्धपुञ्जभागपरिकल्पनया परिष्ठापयेत्-त्यजेदिति। आचा०२ श्रु०१ चू०१ अ० 1 उ०। (औषधविधिवक्तव्यता 'गोयरचरिया' शब्दे तृतीयभागे 664 पृष्ट द्रष्टव्या।) भिक्षां गृह्णतः साधोः पात्रे प्राणादि पतेयुःनिग्गंथस्सय गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स अंतो पडिग्गहंसि पाणे वा वीये वा रए वा परियावज्जेज्जा। तं च संचाएइ विर्गिचित्तए वा विसोहित्तए वा ततो संजतामेव भुजेज वा पिवेजातं चनो संचाएइ विर्गिचित्तएवा विसोहित्तएवा, तं नो अप्पणा मुंजेज्जा नो अन्नेसिं अणुप्पदेज्जा, एगते बहुफासुए थंडिले पडिलेहित्ता पमज्जित्ता परिट्टवेयव्वे सिया॥११॥ अस्य संबन्धमाहवंतादियाण रत्तिं, णिवारितं दिवसतो वि अत्थेणं। वंतमणे सियगहणं, सियापडिपक्खओ सुत्तं / / 181 / / रात्रौ वान्तादिपानं पूर्वसूत्रे निवारितं दिवसतोऽप्यर्थेन वारितम् / अनेषणीयग्रहणमपि साधुभिर्वर्जितमेव अतस्तदिहप्रतिषिध्यते, 'सिया उपडिवक्खओ सुत्त'ति-स्याद्यतनया प्रतिपक्षतो वा एतत् सूत्रं भवति अप्रतिपक्षतो वा / तत्र प्रतिपक्षतो यथा पूर्वसूत्रे रात्री वान्ताऽऽपानं निवारितम्, इदं तु दिवा अनेषणीयं वान्तं निवार्यत / अथ प्रतिपक्षतो यथा पूर्वसूत्रे वान्तं न वर्तत, प्रत्यापा-तुमित्युक्तम्, इहाप्यनेषणीयं वान्तं न वर्तते ग्रहीतुमित्युच्यते / अनेन संबन्धेनायातस्यास्य (११सू०) व्याख्या-निर्गन्थस्य गृहपतिकुल पिण्डपातप्रतिज्ञया तु प्रविष्टस्यान्तः प्रतिगृहे प्राणा वा बीजानि वा रजो वा परि समन्तादापतेयुः, तच प्राणादिक यदि शक्नोति विवेक्तु वा विशोधयितुं वा ततस्तत्प्राणजातादिकं लात्वा हस्तेन गृहीत्वा विशोध्य 2 सर्वथैवापनीय ततः संयत एव प्रयत्नपर एव भुजीत वा पिवेद्वा, तच्च न शक्नोति विवेक्तुं वा विशोधयितुं वा तन्नात्मना भुञ्जीत, न वा अन्येषां दद्यात् / एकान्ते बहुप्रासुके प्रदेशे प्रत्युपेक्ष्य प्रमृज्य परिष्ठापयितव्यं स्यादिति सूत्रार्थः। अथ भाष्यकृद्विषमपदानि विवृणोतिपाणग्गहणेण तसा, गहिया वीएहिं सव्ववणकाओ। रयगहणा होति मही, तेऊ वण संपरट्ठाई॥१८२|| प्राणग्रहणेन त्रसा गृहीताः, बीजग्रहणेन तु सर्वोऽपि वनस्पतिकायः सूचितः, रजोग्रहणेन च मही–पृथिवीकायो गृहीतः, तेजस्कायो वा परस्थो न भवतीति कृत्वा विवेचनादिकं तत्र न घटते। ते पुण आणिजंते, पडेज्ज पुट्विं वसंसिया दव्ये। आगंतुगतब्भवावा, आगंतूहि तिमं सुत्तं // 183|| ते पुनस्त्रसादय आनीयमाने वा भक्ते पतेयुः पूर्वे वा। तत्र द्रव्ये भक्तपाने संश्रितास्ते च द्विविधाः, आगन्तुकास्तदुद्भवा वा / तत्रागन्तुकत्रसादिविषयमिदं प्रस्तुतसूत्रं मन्तव्यम्। अथ के तदुद्भवाः के वा आगन्तुका भवेयुरित्याहरसया पणतो वसिया, होज्ज अणागंतुगाण पुण सेसा। एमेव य आगंतुय, पणगविवज्जा भवे दुविहा।।१८४|| ये रसजाः-तक्रदधितीमनादिरसोत्पन्नाः कृम्यादयवसादयश्च पनकः स्यात् एते अनागन्तुकास्तदुद्भवा भवन्ति, न पुनः शेषाः पृथिवीकायादयः। एवमेव च ये पनकवा द्विविधाः साः स्थावराश्च जीवास्ते सर्वेऽप्यागन्तुकाः संभवन्ति। सुत्तम्मि कड्डियम्मि, जयणा गहणंतु पडितों दट्टव्वो। लहुगो अपिक्खणम्मि, आणादिविराहणा दुविहा / / 18 / / एवं सूत्रमुचार्य पदच्छेदं कृत्वा य एष सूत्रार्थो भणितः एतत्सूत्रमाकर्षितमिति भण्यते / एवं सूत्रे आकर्षिते सति नियुक्तिविस्तर उच्यतेतेन साधुना यतनया भक्तपानस्य ग्रहणं कर्तव्यम्। का पुनर्यतनेत्याहपूर्व गृहस्थहस्तगतः पिण्डो निरीक्षणीयो यदि शुद्धस्ततो गृह्यते. एवं यतनया गृहीतोऽपि प्रतिग्रहे पतितो द्रष्टव्यः। यदि न प्रेक्षते ततो लघुको मासः, आज्ञादयश्च दोषाः / विराधना च द्विविधा-तत्र संयमे त्रसादय उष्णे वा द्रवे वा पतिता विराध्यन्ते। आत्मविराधना तुमक्षिकादिसन्मिश्रे भुक्ते वल्गुलीव्याधिर्मरणं वा भवेत् / तस्मात् प्रथममेव प्रतिग्रहपतितः पिण्डो द्रष्टव्यः। अहिगारोऽसंसत्ते, संकप्पादीतु देससंसक्तो। संसज्जिमं तुतहियं, ओदणसत्तूदधिदवाई॥१८६|| अत एव यस्मिन् देशे सप्राणादिभिः संसक्तं भक्तपानं न भवति तत्रासंसक्ते अधिकारस्तस्मिन्नेव देशे विहरणीयमिति भावः / यस्तु संसक्ते देशे संकल्पादीनि पदानि करोति तस्य प्रायश्चित्तम, तच्चोत्तरत्र वक्ष्यते। तत्र च संसजिम संसक्तियोग्यमोदनसक्तु-दधिद्रवादिकं द्रव्यं मन्तव्यम्। अथ संसक्तदेशे संकल्पादिषु प्रायश्चित्तमाहसंकप्पे पहमिंदण, पंथेपत्तेतहेव आवण्णे। चत्तारिछच लहुगुरु, सट्ठाणं चेव आवण्णे॥१८७।। यस्मिन् विषये भक्तादिकं प्राणिभिः सं सज्यते तत्र संकल्पंगमनानि प्रायः करोति चतुर्लघु / यदा भेद करोति च