________________ संसट्ठा 245 - अभिधानराजेन्द्रः - भाग 7 संसत्त द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते। शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति। प्रव०६६ द्वार। सूत्र० / आचा० / पशा० / प्रव०। आव०। संसठ्ठ सिणोदग न० (संसृष्टोष्णोदक) लवङ्गादिरसभाजनस्थे उष्णोदके, नि चूका लवङ्गरसभायणणिक्केयणं जंतं संसठ्ठसिणोदगं भण्णति। अहवा-कोसलविसयादिसुसल्लोयणाविणस्सणभया सीतोदगे छुभति तम्मि य ओदणे भुत्ते तं अंबीभूतं जइ अतमागतो घेप्पति एवं वा संसठुसिणोदगं। नि०चू०१ उ०। संसत्त त्रि० (संसक्त) संबद्धे, ज्ञा० १श्रु०८ अ०। संकीर्णे, स०८ सम० सप्रतिबन्धे, उत्त० 25 अ० / श्वापदविशेषे, कल्प०१ अधि०३ क्षण। (निर्ग्रन्थ्याः पात्रे उदकबिन्दुः पर्यापद्येत तत्र ग्रहणविधिः 'पाणग' शब्द पञ्चमभागे 827 पृष्ठे उक्तः।) द्वीन्द्रियादिजन्तुमिश्रे भक्तपाने, बृ०३ उ०। (यत्र देश भक्तपानं संसज्जते तं देशं प्राप्तानां यतना 'पडिसेवणा' शब्दे पञ्चमभागे 364 पृष्ठे उक्ता।) दद्ध्या-दिद्रव्ये, पिं० / “घडिअंलग्गं च संसत्तं" पाइ० ना० 201 गाथा। संसक्तग्रहणम्से भिक्खू वा भिक्खुणी वा गाहावइकुले पिंडवायपडियाए अणुपविठे समाणे से जं पुण जाणेज्ज असणं वा पाणं वा खाइमं वा साइमंवा पाणेहि वा पणएहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं वा तह-प्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुअं अणेसणिजं ति मण्णमाणे लाभे विसंते नो पडिग्गहिज्जा। (सू०-१४) 'से' इति मागधदेशीवचनः प्रथमान्तो निर्देशे वर्तते / यः कश्विद्भिक्षणशीलो भावभिक्षुः मूलोत्तरगुणधारी विविधाभिग्रहरतः भिक्षुणी वा साध्वी सभावाभेक्षुर्वेदनादिभिःकारणैराहारग्रहणं करोति, तानि चामूनि“वेयण वेयावर इरियट्टाए य संजमट्टाए। तह पाण-वत्तियाए छटुं पुण धम्मे चिन्ताए / / 1 / / " इत्याद्यमीषां मध्ये अन्य-तमे नापि कारणेनाहारार्थी-सन गृहपतिर्गृहस्थस्य कुलं-गृहं तद-नुप्रविष्टः , किमर्थ 'पिंडवायवडियाए' त्ति-पिण्डपातो-भिक्षाला-भस्तत्प्रतिज्ञया अहमत्र मिक्षा लप्स्ये इति, स प्रविष्टः सन् यत्पुन-रशनादि जानीयात्, कथमिति दर्शयति-प्राणिभिः रसजादिभिः पनकैरुल्लिजीवैः संसक्तं बीजैर्गोधूमादिभिर्हरितैर्दू डरा दिभिरु-मिश्र शबलीभूत तथा शीतोदकेन वा अवसिक्तमाद्रीकृतं रजसा वा सचित्तेन परिघासियं' ति परिगुण्डित कियद्वा वक्ष्यति ?, तथाप्रकारम्- एवंजातीयकमशुद्धमशनादि चतुर्विधमप्याहारं परहस्ते-दातृहस्ते परपात्रे वा स्थितम् अप्रासुकं सचित्तमनेषणी-यमाधाकादिदोषदुष्टमित्येवं मन्यमानः सभावभिक्षुः सन्यपि लाभे न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि / तत्र द्रव्य-दुर्लभद्रव्यं क्षेत्रं-- साधारणद्रव्यलाभरहितं सरजस्कादिभावित वा कालो-दुर्भिक्षादिः भावोग्लानतादिरित्यादिभिः कारणैरुपस्थितरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति। अथ कथंचिदनाभोगात् संसक्तमागामिसत्त्वोन्मिश्र वा गृहीतं तत्र विधिमाहसे य आहच्च पडिग्गहे सिया से तं आया य एगतमवक्कमिज्जा एगंतमवक्कमित्ता अहे आरामंसिवा अहे उवस्सयंसि वा अप्पंडे अप्पमाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए विगिंचिय विगिंचिय उम्मीसं विसोहियरतओ संजयामेव भुजिज्ज वा पीइज्ज वाजं च णो संजाएज्जा भोत्तएवा पायए वा से तमायाय एगंतमवक्कमेजा। (सू०--१४) 'से आहचे' त्यादि स च भावभिक्षुः 'आहचे' त्ति-सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात् प्रतिगहीयात्, स चानाभोगो दातृप्रतिग्रहीतृपादद्वयाचतुर्दा योजनीय इति, तम्-एवंभूतमशुद्धमाहारमादाय एकान्तम्-अपक्रामेद्गाच्छेत् / तमपक्रम्य गत्वेति यत्र सागारिकाणामनालोकमसंपातश्च भवति तदेकान्त-मनेक धेति दर्शयति- 'अहे आरामंसि यं' ति-अथाराम वा अथो-पाश्रये वा। अथशब्दः अनापातविशिष्टप्रदेशोपसंग्रहार्थः, वाशब्दो विकल्पार्थः शून्य गृहाद्युपसंग्रहार्थो वातद्विशिनष्टि-अल्पाण्डे अल्पशब्दोऽभाववचनः अपगताण्ड इत्यर्थः, एवमल्प-बीजे अल्पहरिते अल्पावश्याये अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा अल्पोत्तिङ्गपनकदग-मृत्तिकामर्कटसन्तानके। तत्रोत्तिङ्गस्तृणाग्र उदकबिन्दुः (भुञ्जीतेत्युत्तर-क्रियया संबन्धः) पनकः-उल्लीविशेषः उदकप्रधाना मृत्तिका उदकमृत्ति-केति, मर्कटकः-सूक्ष्मजीवविशेषस्तेषां संतानः, यदिवामर्कटकस-न्तानः कोलियकस्तदेव मण्डादिदोषरहिते आरामदिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत् संसक्तं तद्विविच्य विविच्य त्यक्त्वा त्यक्त्वा क्रियाभ्यावृत्त्या, अशुद्धस्य परित्यागानिःशेषतामाह-उन्मिभं वा आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणितो विशोध्य विशोध्यअपनीयापनीय ततस्तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिवेद्वा रागद्वेषविप्रमुक्तः सन्निति। उक्तञ्च- "वायालीसे सणसंकडम्मि गहणम्मि जीवणु छलिओ। इण्डिं जहण छलिज्जसि, भुजन्तो रागदोसेहि ||1|| रागेण सइंगाल, दोसेण सधूमग विजाणाहि / रागद्दोसविमुक्को, भुजेज्जा णिज्जरा पेही / / 2 / / " तच्चाहारादिकं पातुं भोक्तुं वा न शक्नुयात्प्राचुर्यादशुद्धपृथक्करणासंभवादा. स भिक्षुस्तदाहारजातमादाय एकान्तमपक्रामेदपक्रम्य च तदाहारजातं परिष्ठापयेत् त्यजेदिति संबन्धः / यत्र च प्रतिष्ठापयेत्तद्दर्शयतिअहे झामथंडिलंसिवअट्ठिरासिंसिवा किट्टरासिंसिवातुसरासिंसि वा गोमयरासिंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिले हिय पमज्जिय पमञ्जिय तओ संजयामेवपरिट्ठवेजा। (सू०-१४)