________________ संवेग 242 - अभिधानराजेन्द्रः - भाग 7 संवेग संवेगफलम्संवेगेणं भंते जीवे किंजणयइ? संवेगेणंअणुत्तरं धम्मसद्धंजणयइ, अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अणन्ताणुबन्धिकोहमाणमालालोभेखदेइ, नवंच कम्मनबंधइ, तप्पच्चइयं चणं मिच्छत्तविसोहि काऊणं दंसणाराइए भवइदिसणविसोहीएण विसुद्धाए अत्थेगइए तेणेव भवग्गहणेण सिज्झइ,सोहिएणं विसुद्धाए तच्चं पुण भवग्गहणं नाइक्कमइ॥१॥ शिष्यः पृच्छति-हे भदन्त ! हे पूज्य ! संवेगेनमोक्षाभिलाषेण कृत्या जीवः किं जनयति-किमुत्पादयति, तदा गुरुराह-हे शिष्य! संवेगेन कृत्या जीवोऽनुत्तरां प्रधानां धर्म श्रद्धां धर्मरुचिं जनयति, तया प्रधानया धर्मस्य श्रद्धया संवेगः मोक्षाभिलाषः 'हव्वं' इति शीघ्रमागच्छति-. प्राप्रोति, ततो नरकानुबन्धिनो नरकगतिदायि-नोऽनन्तानुबन्धिक्रोधमानमायालोभान् चतुरोऽपि कषायान क्षपयति, नवं च कर्मन बध्नाति, तत्प्रत्ययाम- अनन्तानुबन्धिकषायक्षयादत्पन्नां मिथ्यात्वविशुद्धिं सर्वथा मिथ्यातवक्षतिं कृत्वा दर्शनाराधको भवति, ख्यायकशुद्धसम्यक्त्वस्य आराधको-निरति-चारपालको भवति, ततः सम्यक्त्वविशुध्द्या अतिनिर्मलया अस्त्येकः कश्चित् भव्यो यः स तेनैव भवग्रहणेनजन्मोपादानेन सिद्ध्यति-सिद्धि प्राप्नोति / एकः पुनः सम्यक्त्वस्य निर्मलया विशुद्ध्या तृतीयं पुनर्भवग्रहणं नातिक्रामति इत्यनेन शुद्धख्याय-कसम्यक्त्ववानन् भवत्रयमध्ये मोक्ष व्रजत्येव / उत्त० 26 अ० / जिनवचनभावितान्तःकरणतायाम, दर्श० 5 लत्त्व / संवेगोभवविरागः निर्वेदोमोक्षाभिलाष इति / (ध०) संवेगोभयम जिनप्रवचनानुसारिणो नरकेषु शीतोष्णादिसहन सक्लिष्टासुरादिनि-मित परस्परोदीरितं च तिर्यक्षु भारारोपणाद्यनेकविधं मनुजेषु दारिद्रयदौर्भाग्यादि देवेष्वपि ई.विषादपरप्रेष्यत्वादि। ध०२ अधिक। संवेगे कथा। संवेगद्वारमाहचंपाए मित्तपभे, धणमित्ते धणसिरी सुजाए य। पियंगूधम्मघोसे य, रक्खुरी चेव चंदघोसे य॥१३०२।। चंदजसा रायगिहे, वारत्तपुरे अभयसेणवारत्ते। सुसुमारधुंधुमारे, अंगारवई य पजोए।।१३०३।। “मित्र प्रभो नृपश्चम्पापुर्या राज्ञी च धारिणी। धनमित्रः सार्थवाहो, धनश्रीस्तस्य वल्लभा / / 1 / / तस्योपयाचितशतैर्जाते पुत्र जनोऽवदत्। अहो सुजातमस्येति, कुलेऽमुष्मिन् महद्धिक / / 2 / / सुजात इति तस्याथ, द्वादशेऽति कृताऽभिधा। सोऽत्यन्तरूपवांस्तस्य, ललितं शिक्षते जनः ||3|| अमात्यो धर्मघोषाऽभूत, प्रियङ्गुस्तस्य च प्रिया। सा सुजातगुणान् श्रुत्वा,ऽवोचदासी यथाऽमुना // 4|| यदैत्येष तदाऽऽख्येयं,येन प्रेक्षे नवं स्मरम्। तेनाध्वनाऽन्यदाऽऽयात स, प्रियगो: पथितस्तया / / 5 / / दृष्ट्वाऽथ सा सपत्नीक.तं प्रियङ्गुरदोऽवदत्। धन्या साऽसौ प्रियो यस्या, रतेरिव मनोभवः / / 6|| सुजातवेषमाधाय, प्रियङगू रमतेऽन्यदा। तद्विलासाँ स्तदालापान, स्वसपत्नीषु कुर्वती / / 7 / / अमात्यश्च तदाऽऽयातो, ऽन्तःपुरंनिध्वनीति सः। शनैरेत्य द्वारसंधौ, ता विक्रीडा निरक्षत ||8|| सोऽथ दध्यौ विनष्ट मे, ऽन्तः पुरं छन्नमेव तत्। सुजातं कारयामीति, परं विभेति तत्पितुः / / 6 / / मा भूत्ततो विनाशो मे, राजमान्योऽस्ति येन सः। कूट लेखं विधायाथ,राज्ञो राजद्विषस्ततः // 10 // नुपाग्रऽवाचयन् मन्त्री, मित्रप्रभुनरेश्वरः। भोः सुजात ! त्वया घात्यो-ऽर्द्धराज्यं दास्यते तव / / 11 / / कुपितोऽथ नृपो लेख-हरान् वध्यान् समादिशत्। मन्त्रिणा ते धृताच्छन्नाः पृथ्वीनाथोऽथ दध्यिवान् // 12 // लोकज्ञातं तेऽमुष्मिन्, पुरक्षोभो भविष्यति। मम तस्य च भूपस्य, प्रदास्यत्ययशो जनः॥१३॥ ततः प्रत्यन्तनगरे, 'अर (क्खू) री' ति नामनि। अस्ति माण्डलिकस्तत्र, निजश्चन्द्रध्वजाभिधः / / 14 / / सुजातः प्रहितस्तत्र, विशिष्टश्वर्यसंयुतः। राजादेश समर्प्य स्वं,चन्द्रध्वतनपान्तिके||१५|| राजकार्यापदेशेन, कर्तुं प्रेतधिपातिथिम् / सोऽगात्तत्र नृपोऽदर्शि, राजादेशः समर्पितः।।१६।। घात्यस्त्वयैष दृष्ट्वेति, दध्यावस्तुहनिष्यते। सह प्रतिदिनं तेन, खेलति स्म महीपतिः।।१७।। रूपशीलसदाचारान् दृष्ट्वा तस्य व्यचिन्तयत्। नूनमन्तःपुरध्वंस-दोषान्निग्राहितोऽस्न्यसौ।।१५।। ईदगुरूपं कथं हन्मी-त्याख्यत्तस्याखिल रहः / सुजातः स्माह यद्वेत्सि, तत् कुरुष्वाथ सोऽवदत्।।१६।। न त्वां हन्भि रहस्तिष्ठ.दत्ता चन्द्रयशाः स्वसा। अस्तित्वग्दोषिणी साऽथ, तया सार्द्ध समस्ति सः / / 20 / / सुजातस्यापि संक्रान्तो, रोगस्तत्सङ्ग तो मनाक्। सा तु तेनोपदेशोधः, प्रबोध्य श्राविका कृता / / 21 / / सा दध्यौ मम सङ्गेन, सरुग्जातोऽयमप्यतः। संविनाऽनशनं चक्रे. तेनैव निरयाम्यत / / 2 / / देवो जज्ञेऽथ सोऽज्ञासीद, दृष्ट्वा नत्वा वदत्यसौ। किं कुर्मः सोऽपि संविग्नः,स्माह पित्रोविलोकनात् / / 23 / / जिघृक्षामि व्रत देव-स्तमूचे तत्करिष्यते। तदैवोत्पाट्य तं कृष्णो-द्याने मुक्त्वा पुरोपरि।।२४।। शिला स चक्रे महती, लोकोऽभूद् व्याकुलोऽखिलः। धूपहस्तोऽवदद्राजा, योऽस्ति रुष्टःसुरोऽसुरः ||25|| स तु दर्शयतु स्वं मे,येन प्राऽऽसादयामि तम्। देवोऽवदत सुजातोऽयं, श्रावकः परमार्हतः / / 26 / / निर्दोषो मन्त्रिणाऽदूषि, तत्सर्वं चूरयाम्यहम्। तं प्रसाद्यानयध्वं चे-ततो मुञ्चामि नान्यथा // 27 / / राजोगे क्वास्ति देवाऽवग, बाह्योद्याने नृपस्ततः। तत्र गत्वा सपौरोऽपि, क्षमयित्वा तमानयत् // 28|| शिला संहृत्य देवोऽगात्, सुजातः पितरौ पुनः। आपृच्छय व्रतमादत्त, पश्चात्तौ पितरावपि // 26 //