________________ संलेहणा 227 - अभिधानराजेन्द्रः - भाग 7 संलेहणा का क्वचिजातरागा कादा चिरक स्वल्पकालतत्प्राप्त्या दानादिक्रियाप्रवृत्ताऽपि तद्गतचित्ता पापे न युज्यते, स्वल्पं च दानादिक्रियाफलमाप्नोतीत्येवं संविनपाक्षिकोऽपि कायमात्रेणासमञ्जसप्रवृत्तो भावेन धर्मरकतो धार्मिक एव मन्तव्य इतिगाथार्थः / तत्तो चिअभावाओ, णिमित्तभूअम्मिचरमकालम्मि। उक्करिसविसेसेणं, कोई विरईपि पावेइ॥१६८२|| तत एव भावात-धर्मविषयात् निमित्तभूते चरमकाले सति उत्कर्षविशेषेण शुभभावस्य कश्चिद्विरतिमपि प्राप्नोति धन्य इति गाथार्थः / युक्तियुक्तमेतत्जो पुण किलिट्ठचित्तो, णिरवेक्खोऽणत्थदंडपडिबद्धो। लिंगोवधायकारी, ण लहइ सो चरमकाले वि॥१६८३॥ यः पुनः क्लिष्टचित्तः सत्त्वनिरपेक्षः सर्वत्रानर्थदण्डप्रतिबद्धः तथा लिङ्गोपघातकरी तेन तेन प्रकारेण न लभते स विरतिरत्नं चरमकालेऽपीति गाथार्थः। चोएइ कहं समणो, किलिट्ठचित्ताइदोसवं होइ। गुरुकम्मपरिणईओ, पायं तह दव्वसमणो अ॥१६५४।। चोदयति चोदकः, कथं श्रमणः संक्लिष्टचित्तादिदोषवान् भवतीति, उत्तरमत्रगुरुकामपरिणतेर्भवति प्रायस्तथा बाहुल्येन द्रव्यश्रमणश्चेति गाथार्थः। एतदेव समर्थयतेगुरुकम्मओ पमाओ, सो खलु पावोजओतओऽणेगे। चोद्दसपुव्वधरा विहु, अणंतकाए परिवसंति।।१६८५।। गुरुकर्मणः सकाशात्प्रमादो भवति, स खलु पापोऽतिरौद्रः यस्ततः प्रमादादनेके चतुर्दशपूर्वधरा अपि तिष्ठन्त्वन्ये अनन्तकाये परिवसन्ति | वनस्पताविति गाथार्थः। किश्चदुक्खं लब्भइ नाणं, नाणं लभ्रूण भावणा दुक्खं / भाविअमई विजीवो, विसएसु विरजई दुक्खं / / 1686|| दुःख लभ्यते--कृच्छ्रण-प्राप्यते ज्ञानं यथास्थितपदार्थावसायि, तथा ज्ञानं लब्ध्वा--प्राप्य भावना एवमेवैतदित्येवंरूपा दुःखं भवति / भावितमतिरपि जीवः कथंचित् कर्मपरिणतिवशात् विषयेभ्यः शब्दादिभ्यो विरज्यते अपरिवृत्तिरूपेण दुःखं तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः / एवं गुरुकर्मपरिणतेः क्लिष्टचित्तादिभावो विरुद्धः, द्रव्य श्रमणमाह-- अन्ने उपढमगं चिअ, चरित्तमोहक्खओवसमहीणा। पव्वइआ ण लहंती, पच्छा विचरित्तपरिणामं॥१६५७|| अन्ये तु प्रथममेव-आदित आरभ्य चारित्रमोहक्षयोपशमहीनाश्चारित्रमन्तरेणव प्रव्रजिताः द्रव्यत एवंभूताः सन्तोनलभन्ते पश्चादपि तत्रैव तिष्ठन्तश्चारित्रपरिणाम प्रव्रज्यास्तित्वरूपमिति गाथार्थः। एतदेवाहमिच्छादिट्ठीओ वि हु, केई इह होंति दव्वलिंगधरा। ता तेसि कह ण हुंती, किलिट्ठचित्ताइओ दोसा / / 1688|| मिथ्यादृष्टयोऽपि अपिशब्दादभव्या अपि केचनेह लोके शासने वा भवन्ति द्रव्यलिङ्गधारिणो विडम्बकप्रायाः, तत्तस्मात्तेषामेवंभूतानां कथं न भवन्ति ? भवन्त्येव क्लिष्टचित्तादयो दोषाः प्रागुपन्यस्ता इति गाथार्थः। तत्रैव प्रक्रमे विधिशेषमाहएत्थ य आहारो खलु,उवलक्खणमेव होइणायव्यो। वोसिरइतओसव्वं, उवउत्तो भावसल्लं पि॥१६८६।। अत्र चानशनाधिकारे आहारः खलु परित्यागमधिकृत्योपलक्षणमेव भवति ज्ञातव्यः शेषस्यापि वस्तुनः। तथा चाहव्युत्सृजतिपरित्यजत्यसावनशनी सर्वम्, उपयुक्तः सन्भावशल्यमपि सूक्ष्ममिथ्यात्वादीनीति गाथार्थः। किंबहुनाअण्णं पिव अप्पाणं, संबेगाइसयाउचरमकाले। मण्णइ विसुद्धभावो, जो सो आराहओ भणिओ॥१६६०॥ अन्यमिवात्मानं प्राक्तनादात्मनः संवेगातिशयात् संवेगातिशयेन चरमकाले प्राणप्रयाणकाले मन्यते शुद्धभावः सन् सर्वाऽसदाभि-- निवेशत्यागेन यः स आराधको भणितस्तीर्थकरगणधरैरिति गाथार्थः / अयमेव विशिष्यतेसव्वत्थापडिबद्धो, मज्झत्थो जीविए अमरणे अ। चरणपरिणामजुत्तो, जो सो आराहओ भणिओ।।१६६१।। सर्वत्राप्रतिबद्धः इहलोके परलोके च,तथा मध्यस्थो जीविते मरणे च; न मरणमभिलषति नापि जीवितमित्यर्थः, चरणपरिणामयुक्तो न तद्विकलः, य एवंभूतः स आराधको भणितस्तीर्थकरगणधरैरिति गाथार्थः। अस्यैव फलमाहसो तप्पभावओ चिअ, खविउंतं पुव्वदुक्कडं कम्म। जायइ विसुद्धजम्मा, जोग्गो अपुणो विचरणस्स।।१६६२।। स एवंभूतस्तत्प्रभावत एव-चारित्रपरिणामप्रभावादेव क्षपयि-- त्वाऽभावमापाद्य तत्पूर्वदुष्कृतं कर्म शीतलविहारजं जायते वि-- शुद्धजन्मा-जात्यादिदोषरहितः योग्यश्व पुनरपि तज्जन्मापेक्षया चरणस्येति गाथार्थः। त्रिविधको भवतीति तद्विशेषमभिधातुमाहएसोअहोइ तिविहो, उक्कोसो मज्झिमो जहण्णो य। लेसादारेण फुड, वोच्छामि विसेसमेएसिं॥१६६३|| एष चाराधको भवति त्रिविधः / त्रैविध्यमेवाह-उत्कृष्टो, मध्यमो, जघन्यश्च / भावसापेक्ष चोत्कृष्टत्वादि यत एवमतो लेश्याद्वारेणलेश्यागीकरणेन स्फुट-प्रकटं वक्ष्यामि विशेषमेतेषामुत्कृष्टादिभेदानामिति गाथार्थः। सुक्काएलेसाए, उक्कोसगमसंगं परिणमित्ता।