________________ संभोग 214 - अभिधानराजेन्द्रः - भाग 7 संभोग रितमस्ति, इमे च प्राघूर्णकास्तत्रावसरे प्राप्ता भवेयुस्ततो वास्तव्या नैषधिकीशब्दं श्रुत्वा समुत्थाय भणन्ति। भुंजह भुत्ता अम्हे, जे वा इच्छंति भुत्तु सह भोज / सव्वं व तेसि दाउं, अन्नं गेण्हंति वत्थव्वा।।८।। भुड्ध्व यूयं भुक्ता यो वा इच्छति अभुक्तैर्वास्तव्यैः सह भोज्यं स तैः सह भुड़क्त अथ प्राघूर्णकाना न पश्चाद्भागे परिपूर्ण जातंततः सर्व तेषां प्राधूर्णकानां दत्त्वा वास्तव्या अन्यत् गृह्णन्ति। तिण्णि दिणे पाहुण्णे, सव्वेसिं असति बालवुड्डाणं / तरुणा जे सग्गामे, वत्थव्वा वाहि हिंडंति||६|| सर्वेषामागतानां त्रीणि दिनानि यावत्प्राघूर्णकत्वं करणीयम् / अथ सर्वेषां कर्तुं न शक्नुवन्ति ततः सर्वेषामभावे बालवृद्धाना त्रीणि दिनानि, प्राघूर्णकत्वं कर्तव्यमा ये तत्र प्राघूर्णकानां तरुणास्ते स्वग्रामे हिण्डन्ते ये तु वास्तव्यतरुणास्ते उद्घामकभिक्षाचर्यया बहिमि हिण्डन्ते। संघाडगसंजोगो, आगंतुगभद्दएतया हिंडे। आगंतुका व बाहिं, वत्थव्यभद्दए हिंडे॥८७|| यदि ग्रामवास्तव्या जना आगन्तुकभद्रकास्तदा प्राघूर्णकानामेकैको वास्तव्येन समं संधाटकेन हिण्डते / इतरेवास्तव्याना संघाटकसंयोगा उद्वरितास्ते बहिर्गामे उभ्रामकभिक्षाचर्यया व्रजन्ति। अथ ग्रामवास्तव्या जना वास्तव्यभद्रकास्ततो वास्तव्यानामेकैकः प्राघूर्णकन समं हिण्डते। ये तु प्राधूर्णकानां संघाटकसंयोगा अधिकास्ते बहिरुभ्रामकभिक्षाचर्यया व्रजन्ति / उपधिचिन्तायामपि परस्परमालोचनायां दत्ताया यो गीतार्थेन उपधिरुत्पादितः स परिभुज्यते। यस्त्वगीतार्थेनोत्पादितस्तस्य परित्यागः करणीयः। सूत्रम्- "जे निगथा निग्गंथीओ य०" इत्यादि। अस्य संबन्धप्रतिपादनार्थमाहमंडुगगतिसरिसो खलु, अहिगारो होइ विइयसुत्तस्स। संपुडतो वा दोण्हं वि,होइ विसेसोवलंभोवा॥५८|| मण्डूकः-शालूरः स यथा उत्प्लुत्य गच्छति, एवं निर्ग्रन्थसूत्रान्निग्रन्थीसूत्रं विसदृशमिति मण्डूकगतिसदृशं तत उक्तम् / द्वितीयसूत्रस्याधिकारप्रस्तावो मण्डूकगतिसदृशः। तथा 'संपुडतो वा' इत्यादि, यथा द्वे फलक एकसंपुट इत्युच्यते, एवं निर्ग्रन्थसूत्रात् द्वितीय निर्गन्थीसूत्रं संपुटसदृशं भवति। तत उक्तं द्वयोरपि सूत्रयोः संपुटक इति निर्ग्रन्थसूत्रादनन्तर निग्रन्थीसूत्रमुक्तं भवति। विशेषोपलम्भो वा इति। "जे निगंथा निगथीओ यसंभोगिया सिया" इत्यादि। यग्निर्ग्रन्थ सूत्रमस्मात्तदनन्तर निर्ग्रन्थीसूत्रं संपद्यतेततः शिष्याणां विशेषोपलम्भो भवति। दूरव्यवधाने तुन स्यात्ततो भवति विशेषोपलम्भ इति कृत्वा निर्ग्रन्थसूत्रादनन्तर निर्गन्थी-सूत्रमुक्तम् एवमनेन संबन्धेनायातस्यास्य (व्य०) (सूत्रद्वयस्यापि व्याख्या सहैवास्मिन्नेव भागे गता।) संप्रति भाष्यकारः प्राहएसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो। जं एत्थ उ नाणत्तं, तमहं वोच्छं समासेणं ||86 यो निर्ग्रन्थस्य सूत्रस्य व्याख्यागम उक्तः, एष एव गमो निर्गन्थीनामपि सूत्रं भवति-ज्ञातव्यः, केवलं यदत्र नानात्वं तदहं समासेन वक्ष्ये। तदेव विवक्षुः प्रथमतः प्रश्रमुत्थापयतिकिं कारणं परोक्खं, संभोगो तासुकीरई वीसुं। पाएण ताहि तुच्छा, पञ्चक्खं भंडणं कुजा॥६०|| किं कारणं केन कारणेन तासु संयतीसु परोक्षं संभोगो विष्वक् क्रियते? आचार्य आह--हि यस्मात्प्रायेण ताःसंयत्यस्तुच्छाः, ततः प्रत्यक्ष विसभोगकरणे भण्डनं कुर्युः। दोण्णि वि ससंयतीया, गणिणो एगस्सवा दुवे वग्गा। वी( करणम्मिते चिय, कवोयमादीउदाहरणा||१|| द्वौ गणिनावाचार्यों समं यतिकौ परस्पर सांभोगिकौ च। अथवा-एकस्य द्वौ वर्गा संयतवर्गः, संयतीवर्गश्वापरस्य त्वेक एव संयतवर्गः / तौ यां विसभोगां कुरुतस्ता तैरेव चटकगृहिककपोतप्रविशनादिरूपादुदाहरणात् प्रागुक्तप्रकारेण विसंभोगां कुरुत इत्यर्थः। कथमित्याहपडिसेवितं तुनाउं, साहंती अप्पणा गुरूणं तु। ते चिय वाहरिऊणं, पुच्छंतिय दो वि सम्मावं / / 2 / / काश्चित संयत्यः कासाचित्संयतीनां प्राघूर्णकागतास्ताभिश्च पूर्वप्रकारेण प्रथमालिका कृता, जाता शय्यातरपिण्डाऽऽशङ्का / अथवा हरितोपलिप्तायां वसतौ स्थिताः, यदिवा-सदीपायां, ततस्ताभिरागत्य निजप्रवर्त्तिन्याः कथितम, यथा-एताः शय्यातरपिण्डमासेवन्ते प्रतिदिवस हरितोपलिप्तायां वसतौ वसन्ति, सदीपायां चेति। सा प्रवर्तिनी तन्मुखात् प्रतिसेवितुमिति ज्ञात्वा ताभिः सह गत्वाऽऽत्मनो गुरूणां कथयति / तेऽपि च गुरखो व्याहृत्य आ कार्य द्वावपि संयतीवर्गीसद्भाव पृच्छन्ति केवल यदि ता एकगुरुप्रतिबद्धाः, अन्यथा दोषः। तथा चाहजइ ताउ एगमेगं, अहवा वी परगुरुं वइजाही। अहवा वी परगुरुतो, पवत्तिणी तीसु वी गुरुगा // 63|| यदि यकाभिः प्रतिसेवितं शय्यातरपिण्डादि, यकाभिश्च प्रतिसेवितं ज्ञात्वा गुरुभ्यः कथित ता यदिएकैकमाचार्यमाश्रिताः, अथवा--आत्मीया अपि सत्यः शय्यातरपिण्डाद्यासेविन्यः परं गुरून कुतश्चित्कारणात व्रजेयुः प्रतिपन्नाः, यदिवा-सा प्रवर्तिनी यत्संयतीभिः शय्यातरपिण्डाद्यासेवितं तासां परगुरुत उपसंपदं प्रतिपन्ना एतासु तिसृष्वपि यद्याचार्यः स्वयं पृच्छति, कोऽत्र भूतार्थ? इति तदा प्रायश्चित्तं चत्वारो गुरुकाः। किं कारणमिति चेदत आहभंडणदोसा हुंती, वगडासुत्तम्मि जे भणिय पुट्विं / सयमवि य वीसु करणे, गुरुगा-वावल्लया कलहो / / 64||