________________ संभूतविजय 208 - अभिधानराजेन्द्रः - भाग 7 संभोग शिष्यादिकुलं 'थेरावली' शब्दे चतुर्थभागे 2366 पृष्ठे दर्शितम्।) माढागोत्रेऽयं वीरस्य षट्षष्टिसवत्सरे जातः स च द्वाचत्वारिंशद् वर्षाणि गृहिपर्यायं ततः श्रामण्यपर्यायं परिपाल्य युगप्रधानपदवीमुपगत्य नवतिवार्षिक: 156 वीरसंवत्सरे स्वर्गतः। जै० इ०। संभूतिविजय पुं० (संभूतिविजय) स्वनामख्यातेऽनगारे अयं पूर्वभवे प्रतिलाभ्य राजपुत्रो धनपतिनामा सुखेन सिद्धः। विपा०२ श्रु०७ अ० / संभोइत्तए अव्य० (संभोक्तुम्) एकमण्डलीसमुद्देशादिना व्यवहारयितुमित्यर्थे , बृ०४ उ० / भोजनमण्डल्यां निवेशयितुमित्यर्थे, स्था० २ठा०१ उ०। संभोइय पु० (साम्भोगिक) सम-एकत्र भोगो-भोजनं सम्भोगः, साधूनां समानसमाचारितया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षण संविद्यते यस्य स साम्भोगिकः / स्था० 3 ठा०३ उ०। एकसामाचारीप्रविष्ट, आचा० 1 श्रु०१ चू०७ अ० 1 उ० एकमण्डलिकादिके, स्था० 4 ठा०४ उ० / प्रव०। संभोएत्ता अव्य० (सम्भोज्य) मिश्रयित्वेत्यर्थे , आचा० 2 श्रु०१ चू० १अ०७ उ०। संभोग पुं० (संभोग) सम्-एकीभूय समानसमाचाराणां साधूनां भोजन संभोगः / स० 11 सम०। एकमण्डल्यां भोजने, उत्त० 16 अ० / ('विसंभोग' शब्दे षष्ठभागेषड् विधः संभोग उपसंभोगश्चोक्तः।) दुवालसविहे संभोगे पण्णत्ता, तं जहा"उवहिसु अभत्तपाणे, अंजलीपग्गहे त्तिय। दायणे य निकाए य, अब्भुट्ठाणेति आवरे।।१।। किइकम्मस्सय करणे, वेआवञ्चकरणे इय। समोसरण संनिसिजाय, कहाए य पबन्धणे // 2 // सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः स चोपध्यादिलक्षणविषयभेदात्द्वादशधा। तत्र 'उवही' त्यादिरूपकद्वयम् / तत्रोपधिर्वस्त्रपात्रादिस्तं साम्भोगिकः साम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृह्णन् शुद्धः, अशुद्धं गृह्णन् प्रेरितः। प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि, विसम्भोगार्ह इति, विसम्भोगिकेनपार्श्वस्थादिना वा संयत्यावा सार्द्धमुपधि शुद्धमशुद्धं वा निष्कारणं गृह्णन प्रेरितः, प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरिन सम्भोग्यः / एवमुपधेः परिकर्म परिभोग वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति / उक्तं च– “एणं व दो व तिन्नि व, आउटुंतस्स होइ परिछत्तं [आलोचयत इत्यर्थः] / आउदृते वितओ, परेण तिण्ह विसंभोगो / / 1 // " त्ति, 'सूव' त्ति-साम्भोगिकस्यान्यसांभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिक विधिना कुर्वन् तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुपसम्पन्नस्य वा पार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वस्तथैव वेलायोपरि विसम्भोग्यः। तथा भत्तपाणे' त्ति-उपधिद्वारवदवसेयं, नवरनिह भोजन दानं च परिकर्मपरिभोगयोः स्थानेवाच्यमिति / तथा 'अंजलीपरगहे त्ति य' इहेतिशब्दा उपदर्शनार्थी, चकाराः समु चयार्थाः, तत्रोपलक्षणत्वादञ्जलिप्रग्रहस्य बन्दनादिकमपीह द्रष्टव्य, तथाहि-साम्भोगिकानामन्यसाम्भोगिकानां वा संविद्यानां वन्दनकप्रणाममञ्जलिप्रग्रह नमः क्षमाश्रमणेभ्य इति भणनम, आलोचनासूत्रार्थनिमित्तनिषद्याकरणं च कुर्वन् शुद्धः / पार्श्वस्थादेरेतानि कुर्वस्तथैव सम्भोग्यो विसम्भोग्यश्चेति।तथा 'दायणे य'त्ति-दानं, तत्र साम्भोगिकः साम्भोगिकाय (वस्त्रादिभिः शिष्यगणोपग्रहासमर्थे साम्भोगिके) अन्यसाम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारण विसाम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति। तथा निकाएय'त्ति-निकाचन छन्दनं निमन्त्रणमित्यनान्तरम्, तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च साम्भोगिकः साम्भोगिक निमन्त्रयन् शुद्धः, शेषं तथैव / तथा 'अब्भुट्टाणे त्ति यावरे' त्ति-अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं पार्श्वस्थादेः कुर्दस्तथैवासम्भोग्यः, उपलक्षणत्वादभ्युत्थानस्य किङ्करता च-प्राघूर्णकग्लानाद्यवस्थायां कि विश्रामणादि करोमीत्येवं प्रश्रलक्षणां तथाऽभ्यासकरणंपार्श्वस्थादिधर्माच्च्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अविभक्तिं चअपृथगभावलक्षणां कुर्वन्नशुद्धोऽसम्भोग्यश्वापि / एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति, तथा 'किइकम्मरस य करणे' त्ति-कृतिकर्मवन्दनकं तस्य करणंविधानं तद्विधिना कुर्वन शुद्धः, इतरथा तथैवासम्भोग्यः / तत्र चाय विधिः--यः साधुवतिन स्तब्धदेह उत्थानादिः कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावत्त'शिरोनमनादियच्छक्गोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भाव। तथा 'येयावचकरणे इय' त्ति-वैयावृत्त्यम्-आहारोपधिदानादिना प्रश्रवणादिमात्रकाप्पण्यादिनाऽधिकरणोपशमनेन साहाय्यदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति / तथा 'समोसरण' ति-जिनस्नपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन्ति तत्समवसरणम् / इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारण-श्चेति / अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति। एकैकश्वायं साधारणावग्रहः प्रत्येकावग्रह श्चेति द्विधा। तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थ युगपत् व्यादिभिः साधुभिभिन्नगच्छस्थैरनुज्ञाप्यते स साधारणः, यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति / एवं चैतेष्ववग्रहेषु आकुट्टया अनाभाट्यं सचित्त शिष्यमचित्तं वा वस्त्रादि गृह्णन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याश्च / पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव च संविना निर्वहन्ति ततस्तत् क्षेत्र परिहरन्त्येव। अथ पार्श्वस्थादीनां क्षेत्र विस्तीर्ण सविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति, सचित्तादि च गृह्णन्ति, प्रायश्चित्तिनोऽपि न भवन्तीति। आह च- "समणुन्नमसमणुनने, अदिन्नणाभवगिण्हमाणे वा / सम्भोग वीसुकरण, (पृथक्करणमित्य