________________ संथार 160 - अभिधानराजेन्द्रः - भाग 7 संथार संस्तारको विप्रणष्टः स्यात् तदावग्रहःइह खलु निग्गंथाण वा निग्गंथीण वा पडिहारिए वा सागारियसंतिए वा सेज्जासंथारए परिभट्टे सिया, से य अणुगवेसियव्वे सिया, से य अणुगवेसमाणे लभेजा / तस्सेव अणुप्पदायव्वे सिया, से अ अणुगवेसमाणे णो लभेजा। एवं से कप्पइ दोचं पि उग्गहं ओगिण्हित्ता परिहारं परिहरित्तए।॥२८|| अथास्य (सूत्रस्य) संबन्धमाहदोण्हेगयरं णटुं, गवेसिउं पुव्यसामिणो दें ति। अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो // 636|| द्वयोः-प्रातिहारिकसागारिकयोः परिशाट्यपरिशाटिनोवा संस्तारकयोरेकतरं संस्तारकं नष्ट गवेषयित्वा पूर्वस्वामिनः प्रयच्छन्ति। अतः अहृते-अनष्टेऽप्रमादार्थ, हृत्ते च गवेषणादिसामाचारीप्रदर्शनार्थमस्व सूत्रस्यारम्भः क्रियते / अनेन संबन्धेनायातस्यास्य (28) व्याख्या-इहास्मिन् मोनीन्द्रे प्रवचने स्थितानां खलुक्यालंकारे निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारको विप्रणश्येत्-विविधैः प्रकारैः प्रकर्षण रक्षमाणोऽपि नश्यते। स चानुगवेषयितव्यो विप्रणाशानन्तरं पृष्ठत एव गवेषयितव्यःस्यात्-भवेत्। स चानुगवेष्यमाणो लभ्येत्, तस्यैव -संस्तारकस्वामिनः प्रतिदातव्यः-प्रत्यर्पणीयः स्यात् / स चानुगवेष्यमाणो नो लभ्येत, तत एवं 'से' तस्य कल्पते द्वितीयमप्यवग्रहमनुज्ञाप्य एक तावत्प्रथमं यदा गृहीतस्तदाऽनुज्ञापितः, ततो विप्रनष्टः सन् गवेष्यमाणोऽपि यदा न लब्धस्तदा संस्तारकस्वामिनः कथिते सति यदसावन्यं संस्तारक ददाति,यद्वा स एव संस्तारकस्वामिना मृग्यमाणो लब्धः, ततस्तद्विषयं द्वितीयमवग्रहमनुज्ञाप्य परिहारंधारणापरिभोग-लक्षण परिहा धातूनामनेकार्थत्वात्कर्तुमिति सूत्रार्थः / अथ नियुक्तिविस्तर:संथारो नासिहिती, वसहीपालस्स मग्गणा होति। सुन्नाई उ विभासा, जहेव हेट्ठा तहेव इहं / / 637 / / शून्यायां वसती कृतायां संस्तारको नश्यतीति प्रथमतएव वसतिः शून्या कर्त्तव्या येनासो न नश्यति। अतः एवात्र वसतिपालस्य मार्गणा भवति। कथमित्याह-'सुन्नाई' इत्यादि यथैवाधरस्तात्पीटिकायां शय्ययाकल्पिकद्वारे 'सुन्ने वालगिलाणे' इत्यादिका विभाषा कृता तथैवेहापि मन्तव्या। स्थानाशून्यार्थ पुनरिदमाहपढमम्मि य चउलहुगा, सेसेसुं मासियं तु नाणत्तं / दोहे गुरु एक्केणं, चउत्थपऍ दोहि वी लहुगा ||638|| प्रथमे स्थाने वसतेः शून्यताकरणलक्षणे चतुर्लघुकाः, द्वाभ्यां तपःकालाभ्यां गुणकाः शेषेषु-बालाज्ञानाव्यक्तस्थापनलक्ष-णेषु त्रिषु लघुमासिकम्। तत्र यालस्थापने तपसा गुरूकं, ग्लानस्थापने कालेन गुरुक, चतुर्थपदे-अव्यक्तस्थापनात्मके द्राभ्यामपि-तपःकालाभ्यां 1 भीजिका-भार्या / भौगिकः-अश्वरक्षकः। लघुकम्। तत्र दोषानुपदर्शयतिमिच्छत्तबहुगवारण-भडाण मरणं तिरिक्खमणुयाणं / आएसबालनिक्के-यणे य सुन्ने भवे दोसा ||636| बलिधम्मकहाकिड्डा-पमज्जणा चरिभणायपाहुडिया। खंधारअगणि भंगे,मालवतेणाएँमाईया।।९४०१॥ गाथाद्वयं पीटिकाया सविस्तरं व्याख्यातम् / यत एते दोषा अतो वसतिः शून्या न कर्तव्या, न वा बालो ग्लानोऽव्यक्तो वा वसति-पालः स्थापनीयः। संथारविप्पणासो, एवं खु भविज्जतीति चोएति। सुत्तं होइय अफलं,अह सफलं उभयहादोसा // 41 // नोदयति-परः प्रेरयति, एवं खुः-अवधारणे सुरक्षिते क्रियमाणे संस्तारकस्य विप्रणाशो न विद्यते / तथा च 'सेज्जा संथारए विप्पणरिसज्जा' इत्यादिलक्षणे सूत्रमफलं भवति। अथ सूत्रं सफलं मन्यव्ये ततो बालादिदोषरहितो वसतिपालः स्थापनीयः इति यदुक्तं तदफल प्राप्नोति / एवमुभयथाऽपि दोषा भवन्ति। सूरिराह-यथा द्वयमपि सफलं भवति तथाऽभिधीयतेनिजंताऽणिज्जतो, आयावणणीणितोऽवहीरेखा। तेणऽगणिउदगसंभम-बोहिकभयरट्ठउट्ठाणे |942|| प्रत्यर्पणार्थ नीयमानः संस्तारको राजपुरुषैरन्तराऽपहियेत 'आणिज्जतो' ति गृहपलिग्रहादानीयमानो वा राजपुरुषैर्बलादपहियेत। आतापनमातापे संस्तारकस्य प्रदानं तदर्थं वा बहिनिष्काशितः केनापि हियेत, स्तनाग्न्युदकसंभ मेषु वा बोधिकमये वा राष्ट्रस्य देशस्व यदुत्थानम्-उद्वसीभवनं तत्र हियेत। पडिसेहेण वलद्धो, पडिलेहणमादिविरहिते गहणं / अणुसिट्ठी धम्मकहा, वल्लमो वा निमित्तेणं // 943|| प्रतिषेधो नाम संस्तारको माय॑माणस्तेन स्वामिना नाहं प्रयच्छामीति भवेत् प्रतिषिद्धस्ततः सकेनचित् भद्रकेणानुशिष्टः-किन प्रयच्छसीति? स प्राह-विप्रणाशभयात् / इतरो ब्रवीति-नामीषां हस्ताद्विप्रणति, एवंविधन प्रतिषेधेन वा लब्धः स प्रयत्नेन रक्ष्यमाणोऽपि प्रत्युपेक्षणानिमित्त बहिनतिः, साधुश्च विस्मृतरजोहरणार्थ मध्ये प्रविष्टः / स चोत्कृ टोऽयमिति कृत्वा विरहितं मत्वा केनापि गृहीतः / आदिग्रहणादुपाश्रयस्यान्तः राजवल्लभेन दृष्ट्वा बलमोटिकाया ग्रहणं कृतम् / एवं विप्रनष्टे सति येन हृतस्तस्य पाश्चन्मिार्गयितव्यः / अथ मार्गितोऽपि न ददाति ततोऽनुशिष्टिः क्रियते / तथाप्यप्रयच्छति धर्मकथा कर्त्तव्या। एवमप्यददाने यो द्रमकस्तस्य तापने क्रियते / यस्तु राजवल्लभः स निमित्तेनावर्तनीयः। कथं पुनरनुशिष्टिः क्रियते इत्युच्यतेदिन्नो भवविहेणे-व एस णारिहसि णे ण दाउं जो।