________________ संथार 161 - अभिधानराजेन्द्रः - भाग 7 संथार अन्नो वि ताव देयो, देज / णमजाणताऽऽणीयं / / 644 // | य एष भवता संस्तारको गृहीतः स भवद्विधेनैव शिष्टपुरुषेण दत्तस्ततो 'णे' -अस्माकंन नार्हसि दातुम, अतोऽपि तावद्भयता संस्तारको देयः किं पुनर्योऽन्यदनः / ततः अजानता जानता वा आनीतमतोऽस्माकं प्रयच्छ। एवम् अनुशिष्टो यदि न प्रयच्छति ततोऽयं विधिःमंतनिमित्तं पुणरा-यवल्लभेदमगभेसणमदेंते। धम्मकहा पुण दोसु वि, जति अवराहो दुहा वाहिओ!|६४५।। राजवल्लभे अददति,मन्त्रो निमित्तं वा प्रयोक्तव्यम्। द्रमकस्य तु भेषणं कर्त्तव्यम / धर्मकथा पुनर्द्वयोरपि द्रमकराजवल्लमयोः प्रयुज्यते, यथा यतयः- साधवर-तेषामुपकरणापहाराद्यपराधो हि इह लोके परलोके वाहितो भवति। - इदमेव व्यनक्तिअन्नं पिताव तेन्नं, इहपरलोके य पारिणामऽहियं / परतो जायितलद्धं,किं पुण मन्नुपहरणेसुं॥६४६|| अन्यदपि प्राकृतजनविषयमपि यत्स्तैन्यं तत्तावदिह परलोके वा परिणामेऽहितं भवति / किं पुनः परतो याचितं यल्लब्धं तदपि ह्रियमाणं मन्युप्रहरणेषु साधुषु / मन्यु:-क्रोधस्तत्प्रहरणास्तदायुधा एव ऋषयः / ततस्तेषां हियमाणमिहपरलोकयोः सुतरामहितं भवति। एवमप्युक्तो यदि न दद्यात् ततःखंते व भूणए वा, भोइगजामातुगे असइ साहे। सिट्ठम्मियजं कुणइ, सो मग्गणदाणववहारो॥६४७|| 'खंते' त्ति-पिता तेन गृहीते पुत्रस्य निवेद्यते, भूणकः-पुत्र स्तेन गृहीते पिता प्रज्ञाप्यत / यद्वा-या तस्य भोजिकाभार्या, यो वा जामाता ताभ्यामसौ भागयितव्यः / 'असइसाहे' त्ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निवेद्यते / तस्य शिष्ट कथिते यदसौ महत्तरादिः करोति तत्प्रमाणम् / एवं प्रनष्टस्य संस्तारकस्य मार्गणा, एवमप्यलभ्यमाने प्रान्तस्य संस्तारकस्वामिनो 'दाणं निवेदनं दीयते, व्यवहारो वा करण प्रविश्य कर्त्तव्य इति संग्रहगाथासमासार्थः। अथैनामेव विवृणोतिभूणगगहिते खंत, भणाइ खंतगहिते य से पुत्तं। असति त्ति नदेमाणे, कुणति दवावेति बलवाओ ||948|| भूणकेन गृहीत खन्तं-पितरं भणति-प्रज्ञापयति। खन्तेन तु गृहीते 'से' तस्य पुत्र भणति। उपलक्षणमिदं तेन भोजिकादीनपि भाणयति 'असई' त्ति एतद्ग्रहणपदं व्याचष्टे 'न देमाणे' त्ति एवमप्यददाने भोगिकादेः निवेद्यते / ततो यदसौ बन्धनरोधनादि करोति दापयति वा तत्प्रमाणम्। भोइय व उत्तरोत्तर, नेयव्वं जावऽपच्छिमो राया। दाणं विसद्धणं वा, दिट्ठमदिटे इमं होइ॥९४६|| प्रथमं भोगिकस्य निवेद्यते, यद्यसौ न दापयति ततो यस्तत्र देशारक्षिकः स ज्ञाप्यते। एवमुत्तरोत्तरं तावन्नेतव्यं यावदपश्चिमो राजा। ततो 'दाणं' ति भोगिकादयश्चौरसकाशाद् गृहीत्वा साधूनां संस्तारकं दधुः। / ‘विसज्जणं व' ति यद्वा ते भोगिकादयो भणेयुः गच्छत यूयं वयं संस्तारक सस्तारकस्वामिनं समर्पयिष्यामः, इति एष विधिदृष्ट संस्तारके मन्तव्यः / अदृष्ट इदं वक्ष्यमाणं भवति। अथैनामेव गाथा व्याचष्टेखंताइसिट्टे दिंते, महत्तरकिचकरभोइए वाऽदि। देसारक्खियमचे, करणे निवेमा गुरूदंडो॥९५०।। 'खत' त्ति-पितरि तदानीमनन्तरोक्तनीत्या शिष्ट-कथितेऽप्यददाने महत्तरस्य-ग्रामप्रधानपुरुषस्य कथयन्ति। कृत्यकरो-ग्रामकृत्ये नियुक्तो भोगिको ग्रामस्वामी तयोर्वा कथयन्ति / देशारक्षिकोमहाबलाधिकृतः अमात्यो-राजमन्त्री तयोर्वा यथाक्रम निवेद्यते / तथाप्यददाने करणेऽपि निवेदयन्ति। नृपस्य तु न निवेद्यते, मा गुरुगरीयान् सर्वस्वहारणादिको दण्डो भवेदिति कृत्वा / एए उदवावेंती,अहव भणेज्जा स कस्सदायव्यो। अमुकस्स त्तिय भणिए,वह तस्सप्पणिस्सामो।।९५१|| एते भोगिकादयो यदि दापयन्ति ततो लष्टम् / अथवा-ते भणेयुः-स संस्तारकः कस्यदातव्य इति। ततः साधुभिरमुकस्येति भणिते ते ब्रुवतेव्रजत यूयं, वयमेव तस्याप्पयिष्याम इति। जति सिं कन्जसमत्ती, वयंति इहरा उधेत्तु संथारं दिढे णाते चेवं, अदिट्ठणाए इमा जयणा।।९५२|| यदि 'सिं' तेषा साधूना तेन संस्तारकेण कार्यसमाप्तिः संजाता मासकल्पश्च पूर्णस्ततो भोगिकादिभिर्विसर्जिता व्रजन्ति, इतरथासंस्तारककार्ये असमाप्ते, अपूर्ण मासकल्पे तं वा अन्यं वा संस्तारकं गृहीत्वा परिभुञ्जते / एवं दृष्ट संस्तारके ज्ञाते वा स्तेने विधिरुक्तः / अदृष्ट अज्ञाते चैवं यतना भवतिविजादीहिगवेसण, अदिट्टे भोइयस्स वा कहिंति। जो भद्दओगवेसति, पंते अणुसिट्ठिमाईणि||६५३|| विद्यादिभिः संस्तारकस्य गवेषणा कर्त्तव्या / अथ न सन्ति विद्यादयस्ततोऽदृष्टऽज्ञाते स्तेने भोगिकस्य कथयन्ति / ततो यो भद्रको भवति स स्वयमेव गवेषयति, यस्तु प्रान्तः स स्वयं न गवेष्यति ततस्तत्रानुशिष्ट्यादीनि पदानि प्रयोक्तव्यानि। एषा पुरातनगाथा। अत एना व्याख्यानयतिआभोगिणिए पसिणे-ण देवयाए निमित्ततो वाऽवि। एवं नाए जयणा, सा चिय खंतादिजा राया।।९५४|| आभोगिनी नाम विद्या सा भण्यते, या परिजापिता सती मानस परिच्छेदमुत्पादयति। सा यद्यस्ति ततस्तया येन संस्तारको गृहीतः स आभोग्यते। एवं प्रश्नेनाङ गुष्ठस्वप्रप्रश्नादिना देवतया वा क्षपक-प्रष्टव्येन निमित्तन वा अविसंवादिना तं स्तेनं जानन्ति / एवं ज्ञाते सति सैव यतना कर्तव्या, या खन्तादिगृहीते संस्तारके भणिता। एतेषामभावे विधिमाहयावदपश्चिमा राजा। विजादसई भोइय, विकहण केण गहिओ नजाणीमो। दीहो हु रायहत्थो, भद्दो आमंतिमग्गयते॥६५५।।