________________ संथार 186 - अभिधानराजेन्द्रः - भाग 7 संथार तेणा सावयमसगा,सीयं वा संदुरहियासं॥१४२।। अध्वनि-मार्गे गताः साधवः तत्रान्यत्र याचिता वसतिः पर न लब्धा। अथवा- अष्टाहिकां द्रष्टुमागताः। यदि वाग्लानादीना कारणेन / यदिवाअवमौदर्यमशिवं वा भविष्यतीत्यन्यदेशं प्रस्थिता विकाले प्राप्ताः / अथवा-ग्रामानुग्राम विहरन्तिा व्यति-कृष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेने या निशि-विकाले प्राप्ताः, अन्या च वसति रोचते / वसतिमन्तरेण च स्तेनभय वा स्वापदभयं वा मशका वा दुरध्यासाः, शीतं वा दुरध्यासं पतति, यथा उत्तरापथे। वर्ष वा घनं निपतन तिष्ठति। तत एतः कारणैर-दृष्टऽप्यधिकृतवसतिस्वामिनि मा-यथा अन्ये पथिकाः कार्पटिाका वा तिष्ठन्ति तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्व-मवग्रह गृहीत्वा पश्चाद्वसतिस्वामिनपनुज्ञापयति। एतदेव सविशेषमाहएएहि कारणेहिं, पुव्वं पेहेतु दिट्टणुण्णाए। ताहे अयंति दिढे, इमा उ जयणा तहिं होइ॥१४३॥ एतैः-अनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य दृष्टः परिजनोऽनुजाप्यते। ततस्तस्यां वसतावायान्तिसाधवस्तत्र दृष्ट परिजने इयं वक्ष्यमाणा यतना भवति। तामेवाहपेहे उच्चारभूमादी, ठायंती वोत्तु परिजणं। अत्थाओ जाव सोएई,जाचीहामो तमागयं / / 144 / / प्रेक्ष्य-प्रत्युपेक्ष्य उच्चारभूम्यादि परिजनमुक्त्वा साधवस्तत्र तिष्ठन्तिकथमुक्त्वेत्यत आह-आस्महे तावत् यावत्स गृहस्वामी समागच्छति ततस्तमागतं याचिष्यामहे। स चागतो येन विधिना समनुज्ञापयितव्यस्तं विधिमाहवयं वण्णं च णाऊणं वयंते वग्गुवादिणो। सभंडा वेयरे सेजं, अप्हफदंती निरंतरं।।१४५।। वयो वर्णं च गृहस्वामिनो ज्ञात्वा वल्गु शोभनं वदन्तीत्ये वंशीलो वल्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति / इतरे च सभण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुन्ति। कथं वदन्तीत्यत आहुअब्भासत्थं गंतू-ण पुच्छए दूरएत्तिमा जयणा। तद्दिसमेत्तपडिच्छण, पत्ते य कहेंति सम्भावं / / 146 / / यदि अभ्यासस्थो-निकटवर्ती भवति तदा गत्वा वसतिस्वामिनं पृच्छति / अथ दूरप्राप्तस्तत्रेयं यतना। तां दिशमागच्छतः प्रतीक्षणं कर्तव्यम प्राप्ते च तरिमन सद्भावं कथयन्ति यथा बहिः स्तेनादि-भयात् युष्माकमुपाश्रये वयं स्थिताः, तथेदं वदन्ति। विले व वसिउं नागा, (पातो) गच्छामो तज्जणा निरत्थाणं। बहि दोसा जाते मा, होजा तुज्झ वि अहोसज्जा / / 147 // विले नागाइव वयं युष्मदुपाश्रये उषित्वा प्रातर्गच्छाम एवं याचितो यदि ददाति ततः सुन्दरम् / अथ न ददाति तदाऽनुलोमेन वचसा अनुलामयितव्यः। धर्मकथा तस्य कथ्यते, निमित्तादिकं वा प्रयुज्यते। तथाप्यददति परुषमपि वक्तव्यम्। कथमित्याह-निरस्तानां निष्काशितानामस्माकं ये स्तेनकश्वापदादिभिरूपधिशरीरमरणदोषा जायेरन् मा ते तवप्युपरि पतेयुरिति। एतदेव सविस्तरमभिधित्सुराहजइ देइ सुंदरंतु, अह उवएजाहि नीति मज्झ गिहा। अन्नत्थ वसहि मग्गह, तहियं अणुसहिमादीणि॥१४८।। यदि 'विले व वसिउं नागा' इत्यादि भणनानन्तरं वसतिं ददाति ततः सुन्दरम्। अथ वदेत् मम गृहान्निर्गच्छतअन्यत्र वसतिं याचध्वमिति तदा तत्रानु शिष्टयादीनि क्रियन्ते, अनुशिष्टः-अनुशासनं क्रियते / आदिशब्दात-धर्मकथा कथ्यते इति परिग्रहः। अणुलोमणं सजाती, सजाइमेवेति तह विउ अठते। अभिओगनिमित्तं वा, बंधण गोसे य ववहारो।।१४६।। तथा अनुलोमेन वचसा अनुलोमन कर्त्तव्यम्। अथ तथापि न ददाति तर्हि सजातिः सजातिमनुकूलयतीति न्यायमङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुनयितव्यः। तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्त्तव्यः, निमित्त वा प्रयोक्तव्यम्, बन्धनं वा सर्वरपि साधुभिस्तस्य कर्त्तव्यम्।ततः प्रभाते व्यवहारः कर्तव्यः। माणो छिबसु भाणाई,माभिंदिस्ससि णोऽजत! दुहतो वायँ वोलेंति,थेरा वारेंति संजए।।१५०।। यदि साधूनां भाण्ङ बहिर्नेतुं व्यवसितस्तदा स भण्यते / मा नःअस्माकं भाजनानि स्पृश, हे अयत? मा वा नोऽस्माकं भाजनानि भिन्धि / यदि पुनस्तं संयता निर्द्धादिवचोभिराकोशन्ति तदा स्थविरा आचार्याः संयतान वारयन्ति। आचार्या द्विधातो वाचं कुर्युः, एकं तावत् वसतिं प्रतिगृह्णीथ, द्वितीयं परूषाणि भाषध्वे / तस्मान्मा एवं भणत; यत्करोति तत् क्षमध्वमिति। अहवावेंति अम्हे ते,सहामो एस ते बली। नसहेजाऽवराहं ते,तेण होजन ते खेमं॥१५१।। अथवा इदं ब्रुवते-वयं तवापराधं सहामहे, एष पुनर्बलीयान् तवापराध न सहेत। असहिष्णुना वा तेन यत्क्रियेत तन्न ते क्षेमं भवेत्। एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति, निष्काशयति, प्रहारैर्वा धावति, तदा स बलीयान् यत्करोति तद्दर्शयतिसो य रूट्ठो व उद्वित्ता, खंभं कुट्ट व कंपए। पुव्वं वा नातिमित्तेहिं, तं गमेंति पहऍ वा।।१५२॥ स बलीयान् रुष्ट इव, न तु परामार्थतो रूष्ट उत्थाय स्तम्भ वा कुड्यं वा मुष्टिप्रहारेण कम्पयति / कम्पयंश्च ब्रूते-एवं शिरः पातयिष्यामि, यदि न स्थास्यसि / एतच्च पर्यन्ते उच्यते, अन्यथा पूर्वमवज्ञातिभिर्मित्रैर्वा प्रभुणा तं गमयन्ति, तथाऽप्यतिष्ठत्यनन्तरोदितं क्रियते।व्य०८ उ०।