________________ संथार 188 - अभिधानराजेन्द्रः - भाग 7 संथार णेज्जा इह खलु निग्गंथाण वा निग्गंथीण वा नो सुलभे पाडिहारिए सेज्जासंथारए त्तिकटु एवण्हं कप्पइपुव्वामेव ओग्गाहं ओगिण्हित्ता तओपच्छा अणुन्नवेत्तएमावहउं अजोवइ अणुलोमेणं अणुलोमयव्ये सिया इति॥११॥ अस्य सूत्रस्य संबन्धमाहउग्गहसमणुण्णासु, सेज्जासंथारएसु य तहेव। अणुवत्तंतेसु भवे, पंते अणुलोमवति सुत्तं / / 13 / / अवग्रहः संस्तारकाश्च स्वामिना अनुज्ञाताः, अवग्रहीतत्र्याः, इत्युत्सर्गत उपदेशरतदेवमवग्रहसमनुज्ञासु शय्यासंस्तारकेषु तथैव समनुज्ञातव्येष्वनुवर्तमानेष्विदमिति सूत्रं समनुज्ञातसस्तारकादिग्रहणविषये भवति / अपवादतोऽननुज्ञाप्य संस्तारकग्रहणे यदि संस्तारकस्वामी प्रान्तो रूटो भवेत् , तस्मिन्प्रान्ते अनुलोमवाक् वक्तव्या, अनेन सबन्धेनायातस्यास्य व्याख्या-न कल्पते निन्थाना निग्रन्थीना वा प्रातिहारिक शय्यासंस्तारकं सर्वात्मना अर्पयित्वा द्वितीयमप्यवग्रहमननुज्ञाप्य, अधिष्ठातुम् अनुज्ञाप्य पुनः कल्पते एवं सागारिकसत्केऽपि शय्यासंस्तारके द्वावालापको वक्तव्यौ / तथा न कल्पते निर्गन्थानां वा निर्गन्थीनां वा पूर्वभवावग्रहमवगहीतु ततः पश्चादनुज्ञापयितुम् / कल्पते निर्ग-न्थानां वा निर्ग्रन्थीनां वा पूर्वमेवावग्रहमनुज्ञापयितुं पश्चादवग्र-हीतुमिति। अथ पुनरेतत् जानीयात्-इह खलु निर्ग्रन्थानां वा निर्गन्थीना वा न सुलभः शय्यासंस्तारक इति कृत्वा एवमेव-अमुना प्रकारेण। णमिति वाक्यालंकारे। कल्पते पूर्वमवावग्रहमवग्रहीतुं ततः पश्चादनुज्ञापयितुम् / तत्रैव कारणे शय्यासंस्तारकस्वामिना सह संयतानां कलहे आचार्याः संयतान् बुवते- 'भो' आर्चा ! द्विविधा कुरूत द्वावपि कुरूत एक वसतिं प्रतिगृह्णीथ अपरे परूषाणि भाषध्ये, तस्मात् क्षमध्वमित्येवं वचसा अनुलोमेन-अनुकूलेनानुलोमयितव्यः स्यादिति। सेज्जासंथारदुर्ग, अणुण्णवेऊण ठायमाणस्स। लहुगो लहुगो लहुगा, आणादी निच्छुभणपंतो॥१३६।। शय्यासंस्तारकद्विक परिशाट्यपरिशाटिररूपं शालादिषु चावग्रह - मननुज्ञाप्य तिष्ठतः प्रायश्चित्त लधुकादि / तद्यथा-शालादिष्ववगृहमननुज्ञाप्य तिष्ठतां लघुको मासः। परिशाटी मासलघु, अपरिशाटी चत्वारो लघुकाः। तथा आज्ञादयः-आज्ञाभङ्गादयो दोषाः। तथा सांप्रतं कोऽपि रूपः सन् निच्छुभण-निष्काशन कुर्यात्। एवमदिण्णवियारे, दिण्णवियारे विसभपवादीसुं। तणफलगागुण्णाया, कप्पडियादीण जत्थ भवो / / 137 / / एवमदत्तविचारे शालादा द्रष्टव्यमा दत्तविचार नाम यत्र कार्पटि-कादिर्न कोऽपि वार्यते तच्च, सभा वा प्रपा वा मण्डपको वा यान्यपि च तत्र तृणफलकादीनि तान्यप्यनुज्ञातानि। तथा चाह- यत्र कापटिकादीनां तृणफलादीन्यनुज्ञातानि भवन्ति तेष्वपि दत्तविचारेषु सभाप्रपादिषु यानि तृणफलकादीनि तान्यपि। किमित्याह ताणि वि उन कप्पंती, अणणण्णवियम्मि लहुगमासो उ। इत्तरियं पि न कप्पइ, तम्हा उ अजातितो गहणं / / 138|| तान्यपि अननुज्ञापिते स्वामिन ग्रहीतुं न कल्पन्ते। यदि पुनरननुज्ञाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः। करमादेवमत आह-यस्मादित्यरमपिक्षणमात्रमपीत्यर्थः अवग्रहणमयाचितंन कल्पते। उक्तंच- "इत्तरिय पिन कप्पइ, अविदिन्नं खलु परोग्गहादीसु। चिट्टित्तु निसीयइतुं, तुवट्टइत्तु च (तइयव्यय) रक्खणट्टाए।।१।।" तथा अननुज्ञापने तिष्ठत इमे च दोषाःजावंतियदोसो वा, अदत्तनिच्छुभणदिवसरातो वा। एए दोसे पावइ, दिन्नवियारे वि ठायंतो।।१३६।। अननुज्ञाते दत्तविचारोऽपि यदि तिष्ठति तदा यावन्तिकदोषस्तथा 'अदत्ते' लि-अदत्तदानग्रहदोषश्योपजायते / तथा कदाचित स सभादिस्वामी प्रान्तो बूयात्-के नामीषामत्र स्थानं दत्तं नह्यमीषा योग्यमिति / ततो रूष्टः सन् दिवसे रात्रौ वा निष्काशनं कुर्यात् / तस्मादत्तविचारेऽप्यननुज्ञाप्य तिष्ठन एतान् दोषान्प्राप्रोति, तस्मात्तत्रापि पूर्वमनुज्ञाप्य पश्चात्कल्पते स्थातुम् / एवं सति यावन्तिकदोषो न भवति / स्वामिसत्कं कृत्वा तदनुज्ञापनाददत्तादान निष्काशनं च न भवतीति। किं तु अदिन्नवियारे, कोट्ठारादीसुजत्थ तणफलगा। रक्खिज्जंते तहियं, अणणुन्नाए य ठायंति।।१४०।। आस्तां दत्तविचारे अनुज्ञापनमन्तरेण न तिष्ठन्ति प्रागुक्तदोषसंभवात्। किं तु-अदत्तविचारेष्वपि / माथायामेकवचनमपिशब्दलोपश्चार्ष-वात्।न दत्तो विचारप्रदेशो यत्र तान्यदत्तविचाराणि तेष्वपि, केष्वित्याह - कोष्ठिागारादिषु कोष्ठागारं धान्यस्य तृणादीनां वा आदिशब्दातचतुःशालादीनी। तथा देवकुलं गोष्ठिकादीनां वा गृहाणि, यत्र गोष्टिकादयः समवायं कुर्वन्ति तानि : दत्तविचाराणि भवन्ति अदत्तविचाराणि गृह्यन्ते, तेषु कोष्ठागारादिषु यत्र येषु तृणफलकानि रक्ष्यन्ते / तथाहिप्रतीतमेतत्कोष्ठागारादिषु मा कोऽपि किमपि हाषींरिति प्राहरिक मोचनेन तृणानि फलकानि धान्यानि च प्रयत्नेन रक्ष्यन्ते। तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति। किमर्थमिति चेदत आहदोसाण रक्खणट्ठा, चोण्ह निरत्थयं ततो सुत्तं। भन्नइ कारणियं खलु, इमे यते कारणाहुति॥१४१।। दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गदिरूपाणां रक्षणार्थरक्षणाय तत्र न तिष्ठन्ति। अत्र परश्चोदयति- यद्येवं ततः सूत्रम्-'इह खलु निग्गथाण वा निग्गथीण वा नो खलु भे पाडिहारिए' इत्यादि निरर्थकमविषयत्वात, सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमनुज्ञातमिति। सूरिराह-भण्यते-उत्तरं दीयते / इदं च खलु सूत्रं कारणिकंकारणैर्निर्वृत्तम् तानि च कारणनि इमानि-वक्ष्यमाणानि भवन्ति / तान्येवाहअद्धाणे अट्ठाहिय, ओमसिवगामाँ णुगामियवियाले।