________________ संथार 183 - अभिधानराजेन्द्रः - भाग 7 संथार प्तमे भने तृतीयभङ्ग वा कम्बिकास्तृणानि वा एकस्मिन् गृहे अर्पयतोऽनर्पणं भवति / यत एते दोषास्तस्मात्पृथक् पृथक् सर्वैरपि प्रत्यर्पणीयाः। कारणे पुनर्विपरीतमर्पयति। तदेव कारणमाहविझ्यपयझामिते वा, देसुट्ठाणे व बोधिकभए वा। अद्धाणसीसएवा, संछोवपधाविते तुरियं // 628|| द्वितीयपदे संस्तारका ध्यामितो भवेत, देशोत्थाने वा संस्तारकस्वामी कुत्रापि गत इति न ज्ञायते / बोधिकभये संस्तारकस्वामी साधवो वा नष्टाः, अध्वसार्थको वा सार्थस्त्वरित प्रधावितो भवेत्, यावत संस्तारक प्रत्यर्पयति तावत् सार्थो दूरं गच्छति, अपरश्च सार्थो दुर्लभः / एतेहि कारणेहिं, वचंते कोऽवि तस्स उणिवेदे। अप्पाहंतिवसागा-रियाइ असदण्णसाहूर्ण // 626 / एतैः कारणैः न प्रत्यर्पययुः, अध्वशीर्षक च त्वरितं व्रजतामेकः कोऽपि साधुर्गत्वा तस्य संस्तारकस्वामिनो निवेदयति-अमुकस्मिन्कुले संस्तारकः प्रत्यर्पणीयः / अन्यसाधूनामसत्यभावे सागारिकादीन 'अप्पाहति' संदिशन्ति / एवं संस्तारकोऽमुकरयाप्पणीयः एष तृणकम्बिकासु विधिरूक्तः। एमेव गमो नियमा, फलएसु वि होइ आणुपुव्वीए। चउरोलहुगा माई,ननऽस्थि एयं तु नाणत्तं / / 630|| एष एव गमा नियमात फलकेष्वपि आनुपूर्व्या वक्तव्यो भवति, नवरं प्रायश्चित्ते विशेषः / फलकमयस्य संस्तारकस्याप्रत्यर्पणे चतुर्लघुकः / मायिना यथा तृणेषु कम्बिकासु वा अपरास्तृणकम्बिकाः प्रक्षिप्यन्ते तथा फलकाना नास्ति प्रक्षेप इति भावः / एतन्नानात्वमत्र मन्तव्यम् / वृ०३ उ०। सागारिकसत्कं संस्तारमादाय विकरणं कृत्वा न संप्रव्रजितुं कल्पतेनो कप्पइ निग्गंथाण वा निग्गंथीण वा सगारियसंतियं सेज्जासंथारगं आयाए अहिकरणं कटुसंपव्वइत्तए (सू०२३) अस्य संबन्धमाहसंथारगअहिगारो, अहवा पडिहारिगा उसागारी। नीहरिमो अणीहा-रिमो य इति एस संबंधो / 731 // संस्तारकण्याधिकारोऽयमनुवर्त्तते इदमपि संस्तारकसूत्रमार-भ्यते। अथवा-पूर्व सूत्रे प्रातिहारिकः संस्तारक उक्तः, अत्र तु सागारिकसत्कोऽभिधीयते / यद्वा-निहारिमोऽनिहारिमश्चेति द्विधा संस्तारकः, तत्र निर्हरणमन्यत्र नयनम्, तन्निर्वृत्तो निर्हारिमः अन्यत्र नीत्वा प्रत्यर्पणीय इत्यर्थः / तद्विपरीतोऽनिर्झरिमः / तत्र निर्झरिम उक्तः / इह पुनरनिहारिम उच्यते, एष संबन्धः / अथास्य सूत्रस्य (23) व्याख्या-न कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकः शय्यातरस्तस्य सत्कं शय्यासंस्तारकमादायगृहीत्वा, अधिकरणं कृत्वा अधिकरणं नामयत् साधुना करणं कृतं तृणानां प्रस्तरणं कम्बिकानां बन्धनं फलकस्य स्थापनं तदनपनीय संप्रव्रजितुविहर्तुमिति सूत्रार्थः। अथ निर्युक्त्या विस्तारयितुमाहसागारिसंत विकरणे ,परिसाडिं अपरिसाडियं चेव। तम्मि विसो चेव गमो, पच्छित्तुस्सग्गअववाए।।७३२।। सागारिकसत्कस्य संस्तारकस्य विकरणं कृत्वा गन्तव्यम् / स च परिशाटी, अपरिशाटी चेति द्विविधः / तत्रापि स एव प्रायश्चित्तोत्सर्गापवादेषु गमो मन्तव्यः। अविकरणे चेमे दोषाःकिड्ड तुअट्टण बाले, णयणे डहणे य होइतह चेव। विकरणपासुढे वा, फलगतणेसुंतु साहरणं / / 733 / / बालाना-कल्पस्थकानां क्रीडने त्वग्वर्तने अन्यत्र नयने च दोषास्तथैव भवन्ति, ततो विकरणं कर्त्तव्यम् / कथमित्याह-फलकस्य पार्श्वतः स्थापनमूर्द्धकरणं वा तृणेषु संहरणम्-एकत्र मीलनं,तु-शब्दात्कम्बिकासु बन्धनच्छोटनमेतद्विकरणम्। इदमेव व्याख्यातिपुंजे वा पासे वा, उवरि पुंजेसु विकरणतणेसुं। फलगंजत्तो गहियं, वाहाए विकरणं कुजा। 734|| यानि तृणाणि पुजात् गृहीतानि तानि पुजे एव निक्षेपणीयानि, यानि पार्श्वतस्तानि पार्श्वे स्थापनीयानि, एवं तृणेषु विकरणं भवति। फलक यतो गृहीतं तत्रैव नीत्वा यदि पार्श्वतः स्थापितमासीत्तदा पार्थे, अथोर्द्ध स्थापितमासीत्तत ऊर्द्ध स्थाप्यते / कम्बिका अपि यतो गृहीतास्तत्र बन्धात् छोटयित्वा निक्षेपणीयाः। अथ व्याघातेन तत्र नेतुन पार्यन्ते तदा तत्रैव रथापयित्वा नियमाद्विकरणं कुर्यात्। वितियमहसंथडे वा, देसुट्ठाणादिसूवक सु। एएहि कारणेहि,सुद्धो अविकरणकरणे वि।७३५।। द्वितीयपदे यथासंस्तृते विकरण न कुर्यात्। न च प्रायश्चित्तमाप्नुयात् यथासंस्तृत नामनिष्प्रकम्पचम्पकपट्टादि देशोत्थादिषु पूर्वसूत्रोक्तेषु कार्येषु विकरणं न कुर्यात्। एतैः कारणैः-विकिरणाकरणेऽपिशुद्धः। बृ० ३उ०। सागारिकसंस्तारक सागारिकसत्क बहिर्नयतिजे भिक्खू वा भिक्खुणी वा सागारियसंतियं सेञ्जासंथारयं आयाए अधिकरणं कटु अणप्पणित्ता संपव्वयति संपव्वयंतं वा साइज्जइ॥५६॥ अधिकरण णाम-जं संजतेण कयं तणाण वा संथरणं कंबीण वा बंधो फलगरस वा ओअवणं एवं च णं अप्फोडित्ता अणप्पिणित्ता क्यति मासलहु / इमा णिज्जुत्ती पडिगाहा। दोसु सिसिरगिम्हासु रीइजति वा दोसु वा पदेसु रिइजति, अविकरणे इमे दोसा / किड्डु-तुयट्टणगाहा / कप्पडगाणं किडण, तुअट्टणंथीपुरिसाणं / तुयट्टणे अणायारसवणं अण्णत्थ वाहणं डहणं वा, एतेसु चेव ते दोसा, पच्छित्तं च पूर्ववत् / फलगस्स विकरणं पासल्लियं करेति, उड्डाहं वा करेइ, तणेसु साहारणं कंबीसु बंधणं छोड़णं वा / पुजाणं सा गाहा। जे तणा पुंजातो गहिता ते पुंजे ठवेयव्वा।