________________ संथार 182 - अभिधानराजेन्द्रः - भाग 7 संथार कस्य प्रत्यपणमदत्तमनुज्ञातमित्येवं योगः-संबन्धः / यद्वा-निमित्तं प्रतिश्रयात् द्वयोरपि सूत्रयोः समानं-तुल्यम् / अथवा-पूर्वसूत्रे प्रतिश्रयाबहिर्भक्षायां निर्गतस्य धर्मकथनं न कल्पते इत्युक्तम्. इदं पुनरन्तः प्रतिश्रयमध्ये संस्तारकस्य यन्निक्षेपणं तत्कल्पते इत्यत्र प्रतिपद्यते / अनेन संबन्धेनायातस्यास्य (सूत्रस्य-२५) व्याख्यानो कल्पते-निर्ग्रन्थानां वा निर्ग्रन्थीना वा प्रति-हरण प्रतिहारः-प्रत्यर्पण तमर्हतीति प्रातिहारिक, शय्या च सर्वाङ्गीणा संस्तारकश्चार्द्धतृतीयहस्तमानः शय्यासंस्तारकं तदादायगृहीत्वा कार्यसमाप्तौ अप्रतिहत्यार्पणमकृत्वा सप्रव्रजितु ग्रामान्तरं विहर्तुमिति सूत्रार्थः। सिज्जा संथारो य, परिसाडी अपरिसाडिमो होई। परिसाडि कारणम्मि, अणप्पिणामो सों आणादी||२०|| शय्या संस्तारको वा-परिशाटी, अपरिशाटी च भवति / परिशाटी तृणादिमयः, अपरिशाटी फलकादिमयः / तत्र परिशाटी संस्तारकः कारणवशादृतुबद्धे गृहीतो भवेत्, तं मासकल्पे पूर्ण अनर्पयित्वा व्रजतो मासलघु, आज्ञादयो दोषाः। एतेवा अपरेसोचा गत त्तिलहुगा, अप्पत्तियगुरुगजंचवोच्छेओ। कप्पट्ठखेल्लणेण य, डह लहुलहुगा य गुरुगा य॥६२१|| संस्तारकस्वामिना श्रुतं संस्तारकमनर्पयित्वा गतास्ते संयताः / एवं श्रुत्वा यदि प्रीतिकं करोति, अनर्पितेऽप्यनुग्रह एवास्माकमिति ततश्चतुर्लघयः / अथाप्रीतिकं करोति मदीयानि तृणानि हारितानि विनाशितानि चेति, तदा च चतुर्गुरवः / यदि तद्रव्यस्यान्यद्रव्यस्य वा व्यवच्छेदः तथापि चतुर्गुरूकम्। अथवा- तस्मिन्सस्तारके शून्ये 'कप्पटु' त्ति वालकानि खेलन्ते मासलघु / अथान्यत्र तं नयन्ति ततश्चतुर्लघु। अग्रौ प्रक्षिप्य दहन्ति चतुर्लघवः / दह्यमाने च तस्मिन्नन्येषा प्राणजातीयानां विराधना भवेत् तन्निष्पन्नं प्रायश्चित्तम्। तथा प्रीतिकपदव्याचष्टेदिजंते वितया णि-च्छज्जण अलभेसु भेत्तिणेत्तण्णं। कयकजाजणभोगं, काऊण कहिं गया सच्छा // 22 // ग्रहणकाले निर्देशमपि दीयमानं तदानीं नेच्छति स्म / अनिष्पन्नमभिकाक्ष्यमासकल्पे पूणे भे' -भवतामर्पयिष्याम इतिभण-नपूर्वक नीत्वा / सांप्रतं कृतकार्या विहितान्यप्रयोजनाः शून्यं जनभोग्यं कृत्वा कुत्रचित् ग्रामे नगरेवा गताः, 'सच्छं' ति। नैपाति-कपदं कुत्सायां वर्त्तते, वा पुनस्ते दुर्दृष्टधर्माणो गता इत्यर्थः। अथ 'कप्पट्ठखेलणे' इत्यादि विवृणोतिकप्पट्ठखेलणतुअ-ट्टणे य लहुगोय होइगुरुगोय। इत्थीपुरिसतुयट्टे, लहुगा गुरुगा अणायारे / / 23 / / तत्र संस्थारके कल्पस्थकानि खेलन्ते लघुको मासः / अथ तान्येव त्वग्वर्त्तयन्ति गुरुको मासः। अथ महती स्त्री महान्पुरुषो वा त्वग्वर्त्तयति चतुर्लधु। अथ एतावनाचारमाचरतस्तदा चतुर्गुरुकाः / वोच्छेदे लहुगुरुगा, नयणे डहणे य दोस वी लहुगा। छिदिणिग्गयादलंभे, जं पावे सयं चतु णियत्ता / / 124 // तस्यैकस्य साधोस्तस्यैवैकस्य द्रव्यस्य व्यवच्छेदे चतुर्लधु, अनेकेषां साधूनामन्यद्रव्याणां च व्यवच्छेदे चतुर्गुरु / संस्तारकस्य कल्पस्थकैरन्यत्र नयने दहने च द्वयोरपि चतुर्लघवः / व्यवच्छेदकरणाच्च संस्तारकादेरलाभे विहम्-अध्या तन्निर्गता यत्परितापनादि प्राप्नुवन्ति स्वयं वा निवृत्तास्तत्र प्राप्ताः संस्तारकादिकमलभमाना या विराधनामासादयन्ति तन्निष्पन्नं प्रायश्चित्तम्। माइस्स होति गुरुगो, जति एक्कतो भागऽणप्पिए दोसा। अह होंति अण्णमणे, तेचेवय अप्पिणे सुद्धो // 625|| मायिनो-मायाविनो गुरुको मासो भवति, कथं पुनर्मायां करोती-त्याह यच्चैकत एकस्माद्ग्रहादनेकैः साधुभिरनेके संस्तारका आनीतास्तदा 'भाग' त्ति प्रत्यर्पणकाले तेषु पृथग्भागीकृतेषु य आत्मीयं भागं तत्रैव ग्रहीतव्य इति कृत्वा तेषां मध्ये प्रक्षिपति, नात्मना तत्र नयति / एष मायी भण्यते / अस्य च ये अनप्पित संस्तारकदोषास्ते सर्वेऽपि मन्तव्याः / अथान्येभ्यो गृहेभ्य आनीताः संस्ताका भवन्ति तदापि मायाकरणे त एव दोषाः / तस्माद्यतो गृहादानीतः तत्र विधिना प्रत्यप्पणे शुद्ध इति संग्रहगाथासमासार्थः। अथैनामेव विवृणोतिसंथारे य गमणगे, भयणऽट्ठविहा उ होइ कायव्वा। पुरिसे घरसंथारे, एगमणेगे तिसुपदेसु॥२६|| संस्तारके गृह्यमाणे एकानेकपदाभ्यामष्टविधा भजना कर्त्तव्या भवति, अष्टौ भङ्गा इत्यर्थः सा चैतेषु त्रिषु पदेषु। तद्यथा-पुरुषे गृहे संस्तारके च। एतेषु एकानेकपदाभ्यामष्टौ भङ्गाः यथा एकेन साधुना एकस्माद् गृहादेकः संस्तारक आनीतः। एकेन एकस्माद् अनेके। एकेन अनेकेभ्यो गृहेभ्यः एकः। एकेन अनेकेभ्यो गृहेभ्यः अनेके संस्तारका आनीताः एवं एकेन साधुना चत्वारो भगा लब्धाः / अनेकैरपि साधुभिरेवमेव चत्वारो लभ्यन्ते / सर्वसंख्ययैते अष्टौ भङ्गाः। आणयणे जा भयणा, सा भयणा होति अप्पिणते वि। वोचत्थमायिसहिए, दोसाय अणप्पिऽणंतम्मि / / 127|| संस्ताकस्य आनयने या भजना-अष्टभङ्गी भणिता तामेव भजना संस्तारकमर्पयतोऽपि भवति, यथैवानीतस्तथैव प्रत्यर्पयितव्य इति भावः / अथ विपर्यस्तं प्रत्यर्पयति न वा सर्वथैवार्पयति ततो विपर्यस्ते मायासहिते अनर्पयति च दोषा व्यवच्छेदादयो भवन्ति। तत्र ये आद्याश्चत्वारो भङ्गास्तषु यथैव गृह्णन्ति तथैवार्पयन्ति / पञ्चम भङ्गे ग्रहणकाले अस्माकमन्यतरः समर्पयिष्यतोत्येष विधिर्निर्वहितस्ततो यद्येकः प्रत्यय॑यति, तदा विपर्यस्तं भवति / अष्टमभङ्गे एकः साधुः प्रत्यर्पयितु प्रस्थितः, अपरश्चिन्तयति मदीया अपि तृणकम्बिकास्तत्रैवानेतव्या इति __ कृत्वा तदीयाना तृणादीनां मध्ये प्रक्षिपति एषा माया भण्यते / स