________________ संथार 178 - अभिधानराजेन्द्रः - भाग 7 संथार अप्रत्युपेक्षिते अतिभये स्थाणुकण्टकव्याला भवेयुस्तदाकुले -विलसमाकुले वा प्रदेशे यदि व्युत्सृजति तेन आत्मविराधना / अथ / पृथिव्यादिषट्कायवति भूभागे व्युत्सृजति ततः संयमविराधना। एते द्वे अपि विराधने 'गमणे' त्ति संज्ञाकायिकीव्युत्सर्जनार्थं वा गच्छतः। पत्ते' त्ति संज्ञाभुवं-कायिकीभुवं वा प्राप्तस्य 'अइंते य' ति संज्ञा कायिकी वा व्युत्सृज्य भूयोऽपि वसतिं प्रविशतो यथा-संभवं मन्तव्ये। अथ विराधनाभयान्न व्युत्सृजति तत इमे दोषाःमुत्तनिरोहे चक्खुं, वचनिरोधेण जीवियं जहइ। उड्डनिरोहे कोट,गेलन्नं वा भवे तिसु वि॥६६३|| मूत्रनिरोधे विधीयमाने चक्षुरुपहन्यते / वर्चः-पुरीषं तस्य निरोधेन जीवितं परित्यजति / अचिरादेव मरणभवतीत्यर्थः / ऊर्ध्ववमनं तस्य निरोधे कुष्ठ भवति। ग्लानं वा सामान्यतो मान्यं त्रिष्वपि सूत्रपुरीषवमनेषु निरुध्यमानेषु भवेत्। यत एते दोषाः अतःपढमविइयाएँ तम्हा, गमणं पडिलेहणाएँ वेसोय। पुवठिया जइ गच्छं, ठवेतु बाहिं इमे तिन्नि।।६६४|| तस्मात्प्रथमद्वितीयस्यां वा पौरुष्यां विवक्षितग्रामे गमनं कृत्वा ततो वसतेः प्रत्युपेक्षणा प्रवेशश्च तस्यां कर्त्तव्यः / कथमित्याह-यदि तत्र केऽपि साधवः पूर्वस्थिताः सन्ति तदा सर्वेऽपि प्रविशन्ति / अथ न सन्ति पूर्वस्थितास्ततो गच्छ क्वचित् वृक्षादेरधो बहिः स्थापयित्वा इमे ईदृशा स्त्रयः साधवो ग्रामं प्रविशन्ति। परिणयवयगीयत्था, हयसंका पुंछचिलिमिलीदारे। तिन्नि दुवे एको वा, वसहीपेहट्ठया पविसे // 665 / / गीतार्था परिणतवयसः अत एव हतशङ्का-अशङ्कनीयाः ते गुरुमापृच्छ्य दण्डप्रोञ्छनकं चिलिमिलीदवरकांश्च गृहीत्वा त्रयो जनास्तदभावे द्वौ जनौ तदप्राप्तावेको वा वसतिप्रत्युपेक्षणार्थं ग्राम प्रविशति। ततो वसति गृहीत्वा प्रमृज्य च चिलिमिलिकां च दत्त्वा सबालवृद्धमपि गच्छं तत्र प्रवेशयति। अथ विकालवेलायां न प्रवेष्टव्यमिति यदुक्तं तदपवदन्नाहविइयं ताहे पत्ता, एएव ततो उवस्सयं न लभे। सुन्नघरदेउलेवा, उजाणे वा अपरिभोगे॥६६६|| द्वितीयपदमत्राभिधीयते-तदानीं विकालवेलायामेव प्राप्ताः, यद्वा प्रगेप्रभाते प्राप्ताः परमुपाश्रयं न लभन्ते ततो विकाले प्रविशेयुः प्रभातप्राप्ताश्च दिवा शून्यगृहे देवकुले वा उद्याने वा अपरिभोग्येजनोपभोगरहिते तिष्ठन्ति तत्रैव च समुद्देशनं कुर्वन्ति। आवाय चिलिमिणीए, रन्ने वा निब्भये समुद्धिसणं। सभये पच्छण्णासइ, कमढगकुरुयावसंतरिया॥६६७॥ अथ शून्यगृहादौ सागारिकाणामपि यतो भवति ततः चिलिमि-लिकां दत्त्वा समुद्देष्टव्यम। अरण्यं वा यदि निर्भय ततस्तत्र गत्वा समुद्दिशन्ति। | अथारण्यं सभयं वसतिसमीपे एव यः प्रच्छन्नप्रदेशस्तत्र समुद्देशनं कर्तव्यम् / अथ प्रच्छन्नस्थानं नास्ति ततस्तत्रैव शून्यगृहादौ कमठकेषु शुक्लपेन सबाह्यभ्यन्तरं लिप्तेषु कांस्यकोदकाकारेषु समुद्दिशन्ति / कुरुचावरामुद्देशनानन्तरं पादप्रक्षालनादिका वहुना द्रवेण कर्तव्याः / समुद्दिशन्तश्चसान्तराः-सावकाशाः बृहदन्तराला उपविशन्ति / एवं कृत्वा बहिरेव संज्ञादि व्युत्सृज्य ततो ग्रामं प्रविशन्ति, प्रविष्टाश्च या पूर्व भिक्षा हिण्डमानैर्वसतिःप्रत्युपेक्षिता तस्यां वसन्ति। कथमित्याहकोट्टग सभा व पुव्वं, कालवियारादिभूमिपडिलेहा। पच्छा अतिति रत्तिं, अहवण पत्ता निसिं चेव 668|| कोष्टक-आवासविशेषः, सभा प्रतीता. एवमादिकं यत्पूर्व भिक्षां पर्यटद्भिः प्रत्युपेक्षितं तत्र कालग्रहणयोग्या भूमिं विचारस्य च-संज्ञायाः, आदिशब्दात् कायिक्याश्च भूमि सूर्ये ध्रियमाण एव प्रत्युपेक्षन्ते। ततः पश्चात्सर्वेऽपि वसतौ रात्रौ प्रदोषसमये अतियन्ति 'अहवण' त्ति अथवाते साधवो निशायामेव प्राप्ता भवेयुः। ततः को विधिरित्याहगोम्मियभेसणसमणा, निब्भयबहिठाण वसहिपडिलेहा। सुन्नघरपुव्वभणिए, कंचुग तह दारुदंडेणं // 666 / / गुल्मेन-समुदायेन चरन्तीति गौल्मिकाः-स्थानरक्षपालास्ते यदि भीषणं-वित्रासनं कुर्वन्ति ततो वक्तव्यं श्रमणा वयं न स्तेनाः यदि रात्री वासो निर्भयो भवति तदा 'ठाण' त्ति। बहिरेवगच्छस्तावदवस्थानं करोति, वृषभास्तु वसतिप्रत्युपेक्षणार्थ ग्राम प्रविशन्ति तत्र च शून्यगृहं पूर्वभणितेन विधिना प्रत्युपेक्ष्य सादिपतनभयात् गोपालक परिधाय दारुदण्डेन प्रोञ्छनकेन वसतिमुपरि प्रस्फोटयन्ति ततो गच्छः प्रविशति। अथ संस्तारकग्रहणविधिमाहसंथारगभूमितिगं, आयरिए सेसगाण एक्कक्कं / रुंदाऐं पुप्फकिन्ना, मंडलिया आवली इतरे॥७००।। 'आयरिए' ति षष्ठीसप्तम्योरर्थ प्रत्यभेदादाचार्यस्य योग्य संस्तारभूगित्रयं प्रथमतो निरूपणीयम् / तत्रैका निवाता संस्तारकभूमिरपरा प्रवाता, अनिवातप्रवाता च शेषाणांसाधूनां योग्यामेकैकां संस्तारभूमिमन्वेषयेत्। इह वसतिस्त्रिधाविस्तीर्णा, क्षुलिका, प्रमाणयुक्ता च। तत्र रुन्दा नाम विस्तीर्णा घड शालादिरित्यर्थः। तस्यां पुष्पावकीपणाः पुष्पकरवदवकीपणा अनियतक्रमा अय-थार्थाः स्वपन्ति, येन सागारिकाणामवकाशो न भवति। अथ क्षुल्लिका ततो मध्ये पात्रकाणि कृत्वा मण्डलिकाकारेण पार्श्वतः शेरते / इतरा नाम प्रमाणयुक्ता तस्यामावल्या पड़ क्त्या स्वपन्ति। __ अत्रैव विधिविपर्यास प्रायश्चित्तमाहसीसं इतोयपादा, इहं च मे बंधिया इह मज्झं। जइ अगहियसंथारो, भणेइलहुगोऽहिकरणादी॥७०१।।