________________ संथार 177 - अभिधानराजेन्द्रः - भाग 7 संथार ष्ठन्ति तदा भारेण महती परितापना भवेत्, सूत्रार्थयोश्च परिहानिरूपजायेताअथ सागारिकान ब्रुवते-व्रजत यूयं ततोऽधिकरणं भवति / अथवा-सागारिका एवमुच्यमाना ब्रुवीरन् कोऽस्य वृक्षस्य देवकुलस्य वा स्वामी यो वाऽस्माकं संमुखं व्रजतीति भणिते एवमसंखडे तैः सह संजाते ततश्च भाजनभेदादयो दोषाः / अथ मण्डल्यां रचिताया सागारिकाः समागच्छन्ति ततो महान्तमुड्डाहं कुर्युः। अमुमेवार्थ सविशेषमाहभत्तद्विणों सज्झाए, पडिलेहण रत्तिगेण्हणे जंव। पुव्वण्हम्मितु गहणं, परिहरिया ते भवे दोसा // 685 / / भक्तार्थिना मण्डल्या भोजन स्वाध्यायं प्रत्युपेक्षणा वा क्रियमाणां विलोक्येति उड्डाहं उडु वक्त्रं वा बुवीरन, तत्रापि तथैवासंखडिदोषः / अथ ते सागारिकाः प्रद्विष्टाः सन्तो वसतिं न प्रयच्छन्ति ततोऽपर ग्राम गच्छेयुः / तत्र च विकाले प्राप्ताः सन्तो रात्रौ वसति-ग्रहणं कुर्वन्तो यघोषजालमापद्यन्ते तन्निष्पन्न प्रायश्यित्तम्, अतः पूर्वाह्न एव वसतेर्ग्रहणं कर्त्तव्यम्, ततश्च ते पूर्वोक्ता दोषाः परिहता भवन्ति। किंचकोतूहल आगमणं, संखोहेणं अकंटगमणादी। तेचेव संखडादी, वसहिं वनदेंतिजं चऽन्नं // 686 / / मण्डल्या सागारिकाः कुतूहलेनागमनं कुर्युः, तत्र कस्यापि संयत-स्य संक्षोभेण भक्तपानस्य कण्टगमादिकमश्रोतोगमनप्रभृतिकं भवेत् / अथवा-कोऽप्यसहिष्णुर्च्यात् किमेनं प्रति कथयत,तत एवासंखडादयो दोषाः / अथ सागारिकामिति कृत्वा अभुक्ता एव भक्तपानव्यग्रहस्ता ग्रामं प्रविशन्ति, तत्र च यैः सममसंखड कृतं तत्र ते वसतिं न प्रयच्छेयुः अन्यानपि च ददतो निवारयेयुः / एवं च तत्र निवसतावप्राप्यमाणायां यदन्यदोषजातमासज्जते तन्निष्पन्न प्रायश्चित्तम्। अथवसत्यभावादकृतभोजना एवान्यं ग्रामंगच्छेयु स्तत इमे दोषाःभारेण वेयणाय, अनपेहा खाणुमाइए दोसे। इरियाइसंजमम्मी, परिगलमाणे य छक्काया॥६८७।। भक्तपानस्योपकरणस्य च संबन्धिनां भारेण वेदना भवेत्, तथा च स्थाणुकण्टकादीन् दोषाननपेक्षतश्चात्मविराधना, यत्पुनर्याया अशोधनं सा संयमविराधना। परिगलति भक्तपाने षट्कायविराधना। तत्र प्राप्तान् दोषानभिधित्सुराहपविसणमग्गणठाणे, वेसित्थिदुगुछिए य सुण्णे य। सज्झाएसंथारे, उच्चारे चेव पासवणे॥६८८|| अन्यस्मिन् ग्राम विकालवेलायां प्रवेशे कृते वसतेर्गिणे परस्परस्फिटितानामाकारणेन महानधिकरणदोषो भवति। वेश्यास्त्री (वा) पाटके | चर्मकारादिस्थाने वा जुगुप्सिते तिष्ठतां वक्ष्यमाणं दोष-जातम् / शून्यगृहादौ वा प्रत्युपेक्षितायां संस्तारकमुच्चार प्रस्रवणं च कुर्वतां च बहवो दोषा भवन्तीति द्वारगाथासमासार्थः। अथैनामेव विवृणोतिसावय तेणे दुविहा, विराहणा जा य उवहिणा उ विणा। गुम्मियगहणाहणणा, गोणादी चमढणा रत्तिं // 686 / / विकाले प्रविशता श्व (स्वा) पदभयं भवति / स्तेना द्विधाशरीरापहारिणः, उपकरणापहारिणश्च / ते तदानीमभिद्रवन्ति / उपधावपहृते या तेन विना तृणग्रहणानिसेवनादिका संयमविराधना तन्निष्पन्नं प्रायश्चित्तम् / अथवा-स प्रत्यन्तप्रदेशवर्ती ग्रामस्ततस्तत्र बद्धस्थानकगौल्मिका आरक्षिकपुरुषाः स्तेनादीनभिलीयमानान् रक्षन्ति, ततो विकालवेलायां प्राप्तानां स्तेना अमी इति बुझ्या ग्रहणाहननादिकं कुर्युः / अथवा-विकाले प्रविशन्तो गवादिभिः पादप्रहारादिकां चमढनामासादयन्ति / एते रात्रौ प्राप्तानां दोषाः / किञ्चफिडिताऽन्नान्नोऽऽगारण, तेणा रत्तिं दिया वपंथम्मि। मसाणाइवेसकुच्छिय, तवोवणं मूसगाजंच॥६६०|| विकाले वसतिगवेषणार्थ पृथक् 2 गतास्ततः स्फिटिताः-परस्परपरिभ्रष्टाः सन्तोऽन्योन्यमाकारण-व्याहरणं कुर्युः, स्तेनकास्तद्वचनं श्रुत्वा रात्रौ मुषितुमभिलषेयुः,दिवा वा द्वितीये दिवसे पथिमार्गे गच्छतः स्तेनका मुषेयुः / श्वानादयो वा रात्रौ वसति-गवेषणार्थं पर्यटन्तस्तान् उपद्रवेयुः / 'वेसकुच्छिय' ति रात्रौ च वसतिमन्वेषयन्तः किमेतद् गृह वेश्यापाटकस्य प्रत्यासन्नमुत नेति। यद्वा-किमेतचर्मकारकादिजुगुप्सितकुलासन्नमाहोश्यिन्नेति / एवं च जनास्ते वेश्यापाटकासन्ने प्रतिश्रये वसेयुः। ततो लोको ब्रूयात्-अहो तपोवनमध्यासते जितेन्द्रिया अमी महर्षय इति। अथ जुगुप्सितस्थानासन्ने स्थितास्ततोलोका ब्रुवीरन् स्वस्थानं मूषिकाः समागता एतेऽप्येवं जानीया इति भावः 'जं च' त्ति यच रात्रौ अन्योन्यालपने अप्कायानयनादिकमपिकरणं तन्निष्पन्नं प्रायश्चित्तम् / तथा तत्रोपाश्रये रात्रौ प्राप्ताः सन्तः काले भूमिर्न प्रत्युपेक्षितेति कृत्वा यदि स्वाध्यायं न कुर्वन्ति ततस्सूत्रार्थनाशा-दयो दोषाः। अथ कुर्वन्ति ततः सामाचारीविराधना। अथ संस्तारकद्वारं व्याख्यातिअप्पडिलेहियकंटा, विलं व संथारगम्मि आयाए। छक्कायाण विराहण, विलीण सेहऽन्नहाभावो // 661 / / अप्रत्युपेक्षिताया वसतौ कण्टका भवेयुः, विलं-सदिसंबन्धि ततः संस्तारके प्रस्तीर्यमाणे आत्मनि विराधना। भावतः पृथिव्यादयो दोषाः, षट्कायास्तत्र भवेयुः तेषां संस्तारकेनाक्रम्यमाणानां विराधना भवति। विलीनं वा-जुगुप्सितं वा संज्ञाकायिक्यादिकं तत्र भवेत्, ततः शैक्षस्य जुगुप्सया अन्यथाभावो-निष्क्रमणाभिप्रायो भवेत्। अथोचारप्रस्रवणद्वारद्वयं युगपदाहखाणुगकंटगवाला, विलम्मि जइ वोसिरिन्ज आयाए। संजमओ छक्काया, गमणे पत्ते अइंते य॥६९२||