________________ संथार 176 - अभिधानराजेन्द्रः - भाग 7 संथार एवम्-उक्तेन प्रकारेण द्वौ वारौ प्रातरपराहे च तस्य संस्तारकस्य प्रत्युपेक्षा भवति कर्त्तव्या। पक्षस्य पक्षस्यान्ते पुनः सर्वान् बन्धान मुक्त्वाछोटयित्वा प्रत्युपेक्षा भवति कर्त्तव्या। गतमकुचद्वारम्। अधुना प्रायोग्यद्वारमाहउग्गममादी सुद्धो, गहणादी जाव वण्णितो एसो। एसो खलु पायोग्गा, हेट्ठिमसुत्ते वजो भणितो।।१।। य उद्गमादिषोषशुद्ध-उद्गमोत्पादनादिदोषविशुद्धो यो वा एषोऽनन्तरमुपवर्णितो ग्रहणादौ ग्रहणेऽनुज्ञापनायां बद्ध एकाङ्गि कोऽकुचश्च / यदि वा-यो भणितोऽधस्तनसूत्रे-ऋतुबद्धप्रत्येकसूत्रे द्वात्रिंशद्रङ्गेषु मध्ये प्रथमभङ्गवर्ती एष खलु प्रायोग्यो वेदितव्यः। कजम्मि समत्तम्मि, अप्पेयव्वो अणप्पिणे लहुगा। आणादीया दोसा, बिइयं उट्ठाणहियदड्डो॥६२|| कार्ये समाप्ते सति नियमात् संस्तारकोऽर्पयितव्यः / अनपणे प्रायश्चित्त चत्वारो लघुकाः, आज्ञादयश्च दोषाः / अत्रापि द्वितीयपदमपवादपदम्। यदि रोगस्योत्थानं प्रवर्तेत, स्तेनैर्वाऽपहृतोऽग्निना वा कथमपि दग्धस्तदा नार्पणमिति। तदेवं भावितं वर्षावाससूत्रम्। संप्रति वृद्धावाससूत्रभावनार्थमाहबुड्डावासे चेवं, गहणादिपदा उहाँति नायव्वा। नाणत्तखेत्तकाले, अप्पडिहारीय सो नियमा||३|| वृद्धावासेऽप्येवं-पूर्वोक्तेन प्रकारेण ग्रहणादीनि पदानि ज्ञातव्यानि भवन्ति / किमुक्तं भवति / यथा प्राक् वर्षावासे ग्रहणानुज्ञापनैकागि काकुचप्रायोग्यलक्षणानि पञ्च द्वाराण्यभिहितानि, तथा-वृद्धावासेऽप्यनुगन्तव्यानि / तुशब्दो विशेषणे / स चैतद्विशिनष्टि-वृद्धावासे ऋतुबद्धेऽप्येषएव विधिरिति, नवरमत्र नानात्वं क्षेत्रे काले च तथा नियमादप्रतिहारी स वृद्धावासयोग्यः संस्तारको ग्रहीतव्यः। संप्रत्येतदेव सुस्पष्ट विभावयिषुराहकालेजा पंचाहं,परेण वाखेत्तंजाव वत्तीसा। अप्पडिहारी असती, मंगलमादीसुपुव्वुत्ता ||4|| इह वर्षावासे संस्तारकस्यानयने कालत उत्कर्षे ण त्रीणि दिनान्युक्तानि, अत्र तु वृद्धावासे काले-कालमधिकृत्य यावत्पशाह-पञ्च दिनानि, ततः परेण वा आनयनं द्रष्टव्यम् / क्षेत्रतो यावत् द्वात्रिंशत् योजनानि / तथा अप्रतिहारिणोऽसत्यभावे संस्तारकस्य यानि मङ्गलादीनि पूर्वमुक्तानि तानि प्रायोक्तव्यानि। व्य० 8 उ०। रत्नाधिकाज्ञया रत्नाधिकार्थाय शय्यासंस्तारग्रहणम् - कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए सेज्जासंथारएपडिगाहित्तए॥२०॥ अथास्य सूत्रस्य कः संबन्ध इत्याहजइ तु जहक्कमेणं, उवहीसंथारएसु उवयंति। तेसिं पि जया गहणं, तं पि हु एमेव संबंधो॥६८०।। अथ रत्नाधिकक्रमणोपधि गृहीत्वा ततस्ते स्वस्वसंस्तारकभूमिषु स्थापयन्ति / तेषामपि च संस्तारकाणां यदा ग्रहणं तदा तदप्येवमेव यथारत्नाधिकं कर्त्तव्यमेष पूर्वसूत्रेण संबन्धः, अनेन संबन्धे - नायातस्यास्य (सूत्रस्य-२०) व्याख्या-कल्पते निर्गन्थानां वा निर्गन्थीनां वा यथारत्नाधिकं शय्यासंस्तारकान् प्रतिग्रहीतुमिति सूत्रसंक्षेपार्थः। अथेदमेव सूत्रं विवरीषुराहसेज्जासंथारो वा, सेजा वसही उठाणसंथारो। पुव्वण्हम्मि उगहणं,अगिण्हणं लहुग आणादी॥६८१|| संस्तारो नाम शय्या-वसतिस्तस्यां यत् स्थान शयनयोग्यावकाशलक्षणंस शय्यासंस्तारकउच्यते। तस्य च शय्यासंस्तारकस्य उपाश्रयं प्राप्तैः पूर्वाह्नवेलायामेव ग्रहण कर्त्तव्यम्, अग्रहणे भासलघु प्रायश्चित्त - माज्ञादयश्च दोषाः। चोयगपुच्छा दोसा, मंडलिबंधम्मि होइ आगमणं। संयम आयविराहणा, वियायगहणे यजे दोसा।।६८२ अत्र नोदकः पृच्छां करोति-यदि पूर्वाह्न एव ग्रामं प्राप्तास्ततस्तदैव शय्यासंस्तारकमपि गृह्णन्तु, वयमप्येतत्प्रतिपद्यामहे ततो बहिरेव समुद्दिश्य चरमपौरुषीप्रत्युपेक्षणं कृत्वा स्वाध्यायं च विधाय कालवेलायां ग्रामं प्रविशन्तु / सूरिराह- 'दोस' त्ति-बहिर्भुजानानां बहयो दोषाः / कथमित्याह- मण्डलीबन्धे चिलिमिलिकां दत्त्वा मण्डलीरचनया भोजने विधीयमानो कुतूहलेन सागारिका-णामागमनं भवति, तैः सहासंखडे क्रियमाणे संयमात्मविराधना / अकाले वसतेहणे ये दोषा भवन्ति, तन्निष्पन्नं प्रायश्चित्तं भवतीति द्वारगाथासमासार्थः / सांप्रतमेनामेव विवरीषुराहअइभारेण व इरियं,नसोहए कंटगाइ आयाए। भत्तट्ठिय वोसरिया, अतितुं एवं जढा दोसा॥६५३|| परः प्राह- भक्तवेलायां प्राप्तैस्तावत्प्रथमतो भक्तं ग्रहीतव्यमन्यथा वेलातिक्रमे भवतपानलाभो न भवेत्, ततो भक्तपानं गृहीत्वा वसति गवेषयित्वा यदि तदानीमेव तत्र प्रवेशः क्रियते तदा भक्तपानोपकरणसत्के योऽतिभारस्तेन वाशब्दस्योक्तसमुचयार्थतया बुभुक्षातृष्णापरितापनया चोपयोगमप्रयच्छन्तः संयमे न शोधयेयुः। आत्मनि कण्टकादिक न पश्येयुः। एवं च यथाक्रम संयमात्मविराधना / ततो भक्तार्थितव्युत्सृष्टाः-पूर्व भक्तार्थिता बहिरेव समुद्दिष्टास्ततो व्युत्सृष्टाः कृतपुरीषप्रस्रवणोत्सर्गाः सन्तो ग्राममतियन्तु प्रविशन्तु। एवं हि दोषाः संयमात्मविराधनालक्षणाः परित्यक्ता भवन्ति / अथाऽऽचार्यः प्रत्युत्तरयतिआयरियवयणदोसा, दुविहा नियमा उ संजमायाए। वचह को वासामी, असंखडं मंडलीएवा॥६८४|| आधार्यस्य वचनमिदम्-त्वदुक्तनीत्या बहिर्भुजानानां नियमाद् द्विविधाः संयमात्मविराधनादोषा भवन्ति / तथा हि-तैस्तद् भक्तपानमानीतं, सागारिकाच कुतूहलवशाद् तद्दर्शनार्थ मागतास्ततो यदि तावन्तं काल भक्तपानं धारयन्त स्ति