________________ संथार 175 - अभिधानराजेन्द्रः - भाग 7 संथार मेऽपि प्रत्येकं स्घाटकरयालाभस्तदा अर्थपौरुषी हापयित्वा तत्र वृन्देन गत्वा याच्यते! अहिटे सामिम्मिउ, वसिउं आणेइ विइयदिवसम्मि। सक्खेत्तम्मि उ असते, आणयणं खेत्तबहियातो 176 / / यदि स्वग्रामे न दृश्यते संस्तारको, दृश्यमानो वा न लभ्यते तदा / स्वक्षेत्राद् द्विगव्यूतप्रमाणे वा, तत्रापि न लभ्यते तदा अन्यग्रामे गत्वा याचनीयः / अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीयदिवसे संस्तारकमनुज्ञाप्य गृहीत्वा समागच्छति। अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे सस्तारकस्याभावे स्वक्षेत्राद्विहिष्ठादप्यानयन संस्तारकस्य द्वित्रिदिनमध्ये कर्त्तव्यम्। सव्वेहि आगएहिं, दाउं गुरुणो उसेसेजहवुड़े। संथारे घेत्तूणं,ओगासे होइऽणुन्नवणा।[८०|| सर्वैरपि संघाटकैः परपरतरग्रामेभ्यः समागतैः संस्तारकपरिपूर्णतायां सत्यां त्रय उत्कृष्टाः संस्तारका गुरोर्दातव्याः, ततः शेषैर्यथावृद्धयथारत्नाधिकतया गृहीतव्याः / तान्संस्तारकान् गृहीत्वा तदनन्तरमवकाशे भवत्यनुज्ञापना / एतावता ग्रहणमिति द्वार समाप्तमनुज्ञापनाद्वारंसमापतितमित्यावेदितम्। जो पुव्यमणुण्णवितो, पेसिजंतेण होति ओगाढो। हेहिले सुत्तम्मी, तस्सावसरोइह पत्तो।।१।। यः पूर्वमधस्तने प्रथमे पिण्डसूत्रे प्रेष्यमाणेनावकाशोऽनुज्ञापितस्तस्यावसर इह प्राप्तस्ततः स भण्यते। नाऊण सुद्धभावं, थेरा वियरंतितंतु ओगासं। सेसाणि वि जो जस्स उ, पाउग्गो तस्स तं देति।।२।। तत्र प्रेष्यमाणस्यावकाशमनुज्ञापयतः स्थविरा-आचार्याः शुद्धं भावं ज्ञात्वा तमेवावकाशं वितरन्ति-अनुजानते, शेषाणामपि योऽवकाशे यस्य साधोः प्रायोग्यस्ततस्तस्येदंददति। अत्र विधिमाहखेलनिवातपवाते, कालगिलाणे य सेहपडियरए। समविसमे पडिपुच्छा, आसंखडिए अणुण्णवणा।।८३।। यस्य खेलः- श्लेष्मा प्रस्यन्दते स गुरून् अनुज्ञापयति-भगवन ! श्लेष्मा पतति ततोऽन्यदवकाशान्तरमनुजानीत ततस्तस्मादन्योऽवकाशो दातव्यः / तथा निवातं घमें निपीड्यमानो यदि प्रवातमनुज्ञापयति तर्हि तस्य प्रवातो दातव्यः / प्रवातेन पीड्यमानस्य निवातः कालग्रहीति द्वारमूलमनुज्ञापयति / स तत्र स्थाप्यते ग्लानस्य समीपे शैक्षस्य प्रतिचारकः शिक्षाद्वय ग्राहयित्वा शैक्षकस्य समीपे सभविषमायां भूमौ यस्य पाश्वाणि दुःखयति सोऽध्यास्यायां भूमौ स्थाप्यते, योऽयं पुनः पुनः प्रतिपृच्छति स तस्य पार्श्वे आसंखडिकः सूत्रधारकस्य पार्चे, एवमनुज्ञापना साधूनां भवति / आचार्येण च शुद्धभावमवगम्य तथैवानुज्ञायते। अथ उपसंहारमाहएवमणुण्णवणाए, एयं दारं इहं परिसमत्तं / एगंगियादिदादारा, एत्तो उठें पवक्खामि।।८४|| एवम्-उक्तप्रकारेण साधूनामनुज्ञापनायां भणितायामेतत् अनुज्ञापनालक्षण द्वारमिह परिसमाप्तम्, अतऊर्द्ध तु एकाङ्गिकादीनि द्वाराणि प्रवक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतिअसंघातिमेव फलग,घेत्तव्वं तस्स असति संघाइं। दोमादितस्स असती, गेण्हेज अहाकडा कं (बी) ठी!|८|| पूर्वमसंघातिममेव फलकं गृहीतव्यम्, तस्यासत्यभावे संघातिमम्। किं विशिष्ट मित्याह-द्वयादिफलकात्मकं -द्विफलकात्मकम्, आदिशब्दात्-त्रिफलकात्मक चतुःफलकात्मकंवा गृह्णीयादितियोगः। तस्य फलकसंघा तात्मकस्य संस्तारकस्याभावे यथाकृताः कण्ठी (म्बी) गृह्णीयात्, गृहीत्वा तन्मयः संस्तारको विधीयते / तत्र या नमन्तिक व्यस्ताः सान्तराः क्रियन्ते, निरन्तराभिः प्राण-जातेर्विराधनात्, एतच्च फलकेष्वपि द्रष्टव्यम्। तथा चाहदोमादिसंतराणि उ, करेइमा तत्थ ऊऽनमंतेहि। संघरिसेणऽण्णोण्णं, पाणादिविराहणा हुज्जा // 86 // व्यादीनि फलकानि नमनशीलानि सान्तराणि करोति / किमर्थमित्याह-तत्र व्यादिफलकात्मके, संस्तारकेऽनमद्भिः फलकैरन्योन्यं संस्तारके प्राणादीनां विराधना भवेत् / प्राणा द्वित्रिचतुरिन्द्रियाः, आदिशब्दाद्-जीवादिपरिग्रहः / गतमेकानिकद्वारम्। इदानीमकुचद्वारम् / कुच-स्यन्दने। न कुचतीत्यकुचः, इगुपान्त्यलक्षणः कप्रत्ययः / यस्तथा बद्धः सन् न स्यन्दते सोऽकुचग्राह्यः। यस्तु कुचबन्धनः स परिहार्यः / तथा चाह कुयबंधणम्मि लहुगा, विराहणा होइ संजमायाए। सिढिलिअंतम्मि जहा, विराहणा होइ पाणाणं // 87 / / पवडिज्ज व दुब्बद्धे, विराहणा तत्थ होइ आयाए। जम्हा एए दोसा, तम्हा उ कुयं न बंधेज्जा / / 88|| कुचं-शिथिलं बन्धनं यस्य तस्मिन् कुचबन्धने संस्तारके गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकास्तथा विराधना भवति संयमे, आत्मनि च / यतरतस्मिन् शैथिल्यमाने शिथिलबन्धनतया प्रस्यन्दमाने प्राणानां विराधना भवति / एषा संयमविधना दुर्बद्ध स तस्मात् प्रपतेत, तत्र भवत्यात्मविराधना। यस्मादेते दोषाः तस्मात् यथा कुचं-शिथिलं भवेत्, तथा न बध्नीयात्कि तु गाढबन्धनबद्धं कुर्यात्। तद्विवसं पडिलेहा, ईसी उक्खेत्तु हेह्र उवरि च। रयहरणेणं भंडं, अंके भूमीऍवा काउं।।८६|| तद्विवस-प्रतिदिवस दिने दिने इत्यर्थः / भाण्डे संस्तारकादिलक्षणमीषत् उत्क्षिप्य अङ्के-उत्सङ्गे भूमौ वा कृत्वा अध उपरिच रजोहरणेन तस्य प्रत्युपेक्षा कर्त्तव्या। एवं तु दोण्णि वारा, पडिलेहा तस्स होइ कायव्या। सव्वे बंधे मुत्तुं, पडिलेहातस्स कायव्वा ||6||