________________ संथार 174 - अभिधानराजेन्द्रः - भाग 7 संथार ज्ञात्वा माऽपान्तराले वर्ष पतेदिति कृत्वा नानेतु तीर्णःशक्तः। तया मा वर्षेणात्र प्रस्तारित आर्दीक्रियेत। तथा मा अन्यः संघाटकः समागत्य मार्गयत-यात इति छन्ने प्रदेशे कुड्ये-अवष्टभ्य ऊकृतस्ततो गुरुसमीपे समागत्य विकटयति, तच श्रुत्वा अन्य उपेत्यआगत्य याचते स च तेनानीतः पूर्वसंघाटकस्याऽऽभवति न येनानीतस्तस्य / गतं श्रुत्वा द्वारम्। इदानीं यथाभावद्वारं विवक्षुराहपुच्छाए नाणत्तं, केणुद्धकयं तु पुच्छियमसिट्टे। अन्नासढमाणीयं, पिपुरिल्लो केइ साहारं॥६६॥ यथाभावद्वारे पृच्छायां नानात्वं, किं तदिति चेत् ? उच्यते-अन्यः संघाटकस्तत्र यथाभावेन गतस्तेनऊीकृत संस्तारकं दृष्ट्वा चिन्तितम्किं नामैष संयतेन ऊीकृत उत गृहस्थेन? यथा-भावत एवं तेन संशयेन पृष्टः-कैनायमूर्तीकृत इति? गृहस्थैश्च न किमपि शिष्टं -कथितम्, ततोऽन्येन संघाटकेनाशठेन संस्तारको याचितो लब्ध-आनीतश्च / तथाऽन्येनाशठेनानीतमपि संस्तारकं पूर्वस्य संघाटकस्याऽऽभवन्तमाचक्षते, केचित् पुनर्द्वयोरपि संघा-टकयोः साधारणम् / अथ पृष्टे गृहस्थैराख्यातं गृहीतेनोद्धी कृतः, यथाभावेन याचितो लब्धश्च सोऽप्यानीतः पूर्वसंघाटस्याऽऽ-भवति। अपरेतुद्वयोरपि साधारणमाहुः / छन्ने उड्डो व कतो, संथारो जइ वि सो अहाभावा। तत्थ वि सामायारी, पुच्छिज्जा इतरहा लहुतो / / 70 / / यद्यपि संस्तारो यथाभावात्-यथाभावेन गृहस्थैः छन्ने प्रदेशे ऊद्धी कृतो ज्ञायते चेतत्तथापि तत्रेयं सामाचारी गृहस्थोऽवश्यमु-क्तप्रकारेण पृच्छ्यते, इतरथा-पृच्छाकरणाभावे प्रायश्चित्तं लघुको मासः / गत यथाभावद्वारम् / विपरिणामेन धर्मकथाव्यवच्छिन्न-भावान्यद्वाराणि पूर्ववत् भावनीयानि। तथा चाहसेसाई तह चेव य, विपरीणामाइयाइँ दाराई। बुद्धीऍ विभासेज्जा, एत्तो वुच्छं पभूदारं।७१।। शेषाणि-विपरिणामादीनि द्वाराणि बुद्ध्या यथा प्रागभिहितानि तथैव परिभाष्य विभाषेत-प्रतिपादयेत्। गतमूर्द्धकृतद्वारम्। अत ऊर्ध्वप्रभुद्वारं वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतिपभुदारे वी एवं, नवरं पुण तत्थ होइ अहभावे। एगेण पुत्तो जॉइओ, विइएण पिया उ तस्सेव।।७२।। प्रभुद्वारेऽपि एवं-पूर्वोक्तप्रकारेण श्रुत्वादीनिषट् द्वाराणि ज्ञेयानि, नवर पुनस्तत्र प्रभुद्वारे यथाभावलक्षणे अवान्तरभेदे नानात्वं भवति / एकेन संघाटकेन यथाभावेन पुत्रो याचितः,एकेनतस्यैव पिता, द्वाभ्यामपि दत्तः स कस्याऽऽभवति? तत आहजो पभुतरओ तेसिं, अहवा दोहिं पि जस्स दिन्नं तु / अपभुम्मि लहू आणा, एगतरपदोसतो जं च / 73 / / तयोः पितापुत्रयोर्मध्ये यः प्रभुतरस्तेन यस्य दत्तस्तस्याऽऽ भवति / अथ द्वावपि प्रभूताभ्यामपि संभूय यस्य, दत्तस्तस्याऽऽभवति, यस्य तु प्रतिषिद्धस्तस्य नाऽऽभवति / अथाप्रभुणादत्तं गृह्णाति, गाथायां सप्तमी तृतीयार्थे , सदा तस्य प्रायश्चित्तं चत्वारो लघवः, तथा आज्ञादयो दोषाः / यच्च एकतरप्रद्वेषत आपद्यते प्रायश्चित्तं तदपि तस्य द्रष्टव्यम्। एकतरप्रदेषो नाम-यः प्रभुः स संयतस्य-वोपरि प्रद्वेष यायात, येन वा अप्रभुणा सता दत्तस्तस्य। अहवा दोण्णि वि पहुणो, ताहे साहारणं तु दोण्हं पि। विप्परिणामादीणि उ, सेसाणि तहेव भासेज्जा // 74|| अथवा द्वावपि पितापुत्रौ प्रभू, द्वाभ्यामपि च पृथक् पृथक् द्वयोः संघाटकयोरनुज्ञातः, तदा तयोर्द्वयोरपि संघाटकयोः साधारणमाचक्षते संस्तारकम्।तदेवं यथाभावे विशेषो दर्शितः। शेषाणि तु विपरिणामादीनि पञ्चापि द्वाराणि तथैव भावनीयानि यथा प्रागभिहितानि / साम्प्रतमुपसंहारमाहएसो विही उ भणितो, जहियं संघाडएहि मग्गंति ! संघाडे अलभंतो, ताहे वंदेण मग्गंति / / 75|| यत्र संघाटकैः प्रत्येकं प्रत्येकं संस्तारका मृग्यन्ते तत्र एष प्रत्येक प्रत्येकमानीतानां संस्तारकाणामाभवनव्यवहारविषयो विधि-रुक्तः, यत्र पुनरेकैकः संघाटको न लभते तदा वृन्दसाध्यानि कार्याणि वृन्देनः कर्तव्यानीति न्यायात् संघाटकैरलभमाने वृन्देन समुदायेन मार्गयन्ति। तत्र विधिमतिदेशत आहवंदेणं तह चेव य, गहणुण्णवणाइतो विही एसो। नवरं पुण नाणत्तं, अप्पणए होइ णायव्वं / / 76 / / वृन्देनापि मार्गणे तथैव तेनैव प्रकारेण ग्रहणे अनुज्ञापनायामादिशब्दादर्पणे च विधिरेष प्रागभिहितो द्रष्टव्यो नवरं पुनरर्पणे भवति नानात्वं ज्ञातव्यम्। तदेवाऽऽहसव्वे वि दिट्ठरूवे, करेहि पुन्नम्मि अम्ह एगयरो। अण्णो वा वाघाए, अप्पहितिज भणसि तस्स॥७७|| संस्तारकस्वामिनं प्रति उच्यते-सर्वानप्यस्मान् दृष्टरूपान्दृष्ट-मूर्तीन कुरु अस्माकमेकतरः पूर्ण वर्षाकालं संस्तारकं युष्माकम-प्पयिष्यति। अथास्माकमेतेषां कश्चनापि व्याघातो भवेत्तदा अन्योऽपि यत्तं भणसि तस्य समर्पयिष्यति। एवं ता सग्गामे, असती आणेज्ज अण्णगामातो। सुत्तत्थे काऊणं, मग्गइ मिक्खं तु अडमाणो // 78|| एवमुक्तप्रकारेण तावत्स्वग्रामे संस्तारकानयने विधिरुक्तः, असतिस्वग्रामे संस्तारवरयाभावे अन्यग्रामादपि आनयेत्।कथमित्याह-सूत्रार्थीकृत्वा सूत्रपौरुषीमर्थपौरुषी चकृत्वा भिक्षामटन्संस्तारकमान्यति। यदिपुनरन्यग्रा