________________ संथार 173 - अभिधानराजेन्द्रः - भाग 7 संथार येन प्रथमसंधाटकेन सस्तारको याचितो लब्धः श्रुतश्च तरय तद्विषये भावः कुतश्चित्कारणात व्यवच्छिन्नः, अन्येन वा अशठभावेन याचितो लब्धश्च तस्याऽऽभवति, न प्रथमसंघाटस्य तस्य तद्विषयभावव्यवच्छे दात / तथा प्रथमसंघाटके न संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्ते अन्यः संघाटकस्तत्र समागत्य संस्तारकं याचते / तत्र यदि अन्यो मनुष्योऽन्यं संस्तारकं दद्यात्, स वा प्रथमसघाटकयाचितोऽन्य तदा स तस्य कल्पते। यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कल्पते। तथा च विपरिणामद्वारमुक्त्वा शेषद्वाराणामतिदेशमाह - अहभावोऽऽलोयणध-म्मकहण वोच्छिन्नमन्नदाराणि। नेयाणि तहा चेव उ, जहेव उछट्ठदारम्मि।।६१|| यथाभावाद्वारम्, 'आलोयण' त्ति-पदैकदेशे पदसमुदायोपचाराद् आलोचनां श्रुत्वेति द्वारं, धर्मकथनद्वारं, व्यवच्छिन्नद्वारमन्यद्वार चेति पञ्च द्वाराणि यथैवावभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि / षष्ठ तु विपरिणामद्वारं साक्षादुक्तम् / गतं लब्धद्वारम्। __इदानीं संज्ञातिकद्वारमाहसण्णायए वि एच्चिय, दारा नवरं इमं तुनाणत्तं। आयरिएणाभिहितो, गेण्हह संथारयं अज!||६|| सुद्धदसमीठियाणं, बेतिय घेच्छामि तद्विणं चेव। नायगिहे परिण्णातो, मए उसंथारतो भंते!||६३।। यान्येव श्रुताऽऽदीनि षट् द्वाराणि लब्धद्वाराभिहितानि एतान्येव संज्ञातिकद्वारेऽपि द्रष्टव्यानि, नवरं भावनायां यन्नानात्वं तदिद वक्ष्यमाणम् / तदेवाऽऽह- 'आयरिएणे त्यादि आचार्यणाभिहितः आर्य ! संस्ताकं गृहाण, एवमुक्तः सन् संज्ञातिकानां गृहमागच्छन् दृष्टः संस्तारको याचितो लब्धश्च / अथवा-संज्ञातिकै रयाचितैरेव स उक्तो गृहाण संस्तारकम्, ततस्तेनोक्तम्- यस्मिन् दिवसे संस्तारके स्वप्तुमारभ्यते तस्मिन् दिवर नेष्यामः, आचार्यश्च शुद्धदशम्यां तत्र स्थितः स आगत्य शुद्धदशमीस्थितानां गुरूणा-मन्ते बूते-आलोचयति भदन्त ! मया ज्ञातिगृहे संस्तारकः प्रतिज्ञप्तो निभालितस्तिष्ठति / ततो यत्र दिने संस्तारके स्वास्यते तदिवसमेवतस्मिन्नेव दिने ग्रहीष्यामः। एवमालोचित श्रुत्वा अन्यो याचते लभते च, स आनीतः पूर्वसंघाटकस्याऽऽभवति न येनानीतस्तस्य / गतं श्रुत्वा अपरः संघाटकोऽग्रेतन् संघाटकवृत्तान्तमनवज्ञाय यथाभावेन गत्वा याचते लभते च स तेनानीतः पूर्वसंघाटकस्याऽऽभवति न तस्य / अपरे तु द्वयोरपि संघाटकयोस्तं साधारणमाचक्षते / यथाभावद्वारमपि गतम्। इदानीं साक्षाद्विपरिणामद्वारमाहविपरीणामे तह विय, अन्नो गंतूण तत्थ नायगिह। आसन्नयरोगेण्हइ, मित्तो अण्णो विमंचोत्तुं / / 6 / / अन्ने वि तस्स नियगा, देहिह अन्नं च तस्स मम दाउं। दुल्लभलाममणा उं-ठियम्मि दाणं हवति सुद्धं // 65 / / सन्नायगिहो अन्नो, न गेण्हए तेण असमणुण्णातो। सति विहवे सत्तीए, सो विहुन वि तेण निव्विसंति / / 66 / / तेन साधुना मया भदन्त ! ज्ञातगृहे संस्तारकः प्रतिज्ञप्तोऽस्ति ततस्तरिमन्नेव दिने समानेष्यते, इत्यालोचितं श्रुत्वा अन्य आस-नतरो, मित्ररूपो वा ज्ञातिगृहं गत्वा तत्र तथैव संस्तारकस्वामिनं विपरिणामयति, स चान्यो विपरिणम्य गृह्णाति। इदं वक्ष्यमाणमुक्त्वा तदेवाह-'अन्नेवी' त्यादि अन्येऽपि च तस्य निजकाः संस्तारकं दास्यन्ति / यदि वा-ममामु संस्तारक दत्त्वा तस्यान्यं संस्तारकं दद्याः / अथवा-अस्मादृशे अज्ञातोञ्छवृत्तिजीविनि यद् दुर्लभदानं दीयते तद्भवति शुद्धमिहपरलोकाशंसाविप्रमुक्तत्वात् / तथा स्वज्ञातगृहेऽन्योऽसंज्ञातिकस्तेन सस्तारकस्वामिना असमनुज्ञातो न गृह्णाति। अहं पुनः संज्ञातिकस्ततोवा शय्यामे-कवारमनुज्ञातस्यापि संस्तारकस्य ग्रहणे, तथा सति विभवे, यदि वा-विभवाभावेऽपि स्वशक्त्या सोऽपि संज्ञातिकस्तेनात्मीयेन संज्ञातिकेन विना न निर्विशति उपभुङ्क्ते भक्तपानसंस्तारकादि तस्मान्मम दातव्य एष संस्तारक इति / एवं विपरिणम्यानीत: पूर्वसंघाटस्याऽऽभवति न येनानीतस्तस्य / गतं विपरिणामद्वारम् / / अधुना धर्मकथाद्वारमुच्यते-तथैवालोचनामाकान्यः संघाटकस्तत्रागत्य धर्मकथामारभते, ततो धर्मकथया तमत्यन्त-मावर्त्य तं संस्तारक याचते; सधर्मकथाश्रवणोपरोधतो न नि-षेळू शक्त इति तस्मै दत्तवान्, सोऽपि पूर्वसंघाटस्याऽऽभवति न येनानीतस्तस्य / गतं धर्मद्वारम् ।।संप्रति व्यवच्छिन्नद्वारमाह, भावना-तस्य संज्ञातिकस्य याचितसंस्तारकविषये भावः कुतश्चित्कारणतो व्यवच्छिन्नोऽन्येन च संघाटकेनाभावेन याचित्वा समानीतः। स येनानीतस्तस्याऽऽभवति, न पूर्वसज्ञातिकस्या अन्यद्वारभावना त्वियम्-पूर्वप्रकारेण तेन संज्ञातिकेन गुरुणामन्तिके विकटने कृतेतत् श्रुत्वा अन्यः संघाटकस्तत्र गत्वा संस्तारकं याचते, तत्रान्यो मनुष्योऽन्य संस्तारक यदि ददाति, यदि वा स एव पूर्वसंघाटकयाचितः संस्तारकस्वामी ; परमन्यं संस्तारकं तदा कल्पते। पूर्व याचितस्त्वनेनान्येन वा दीयमानो न कल्पते। तथा चाऽऽहसेसाणि य दाराणि, तह विय बुद्धिए भासणीयाई। उद्धद्दारे वितहा, नवरं उद्धम्मि नाणत्तं॥६७।। शेषाण्यपि विपरिणामजानि श्रुत्वादीनि द्वाराणि तथैव प्रागुक्तप्रकारेणव बुद्ध्या परिभाव्य भाषणीयानि तानि च तथैव भाषिततानि। गतं संज्ञातिकद्वारम् // इदानीमूर्द्धद्वारमाह- ऊर्द्धद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणि षडपि श्रुत्वादीनि योजनीयानि नवरमूर्द्धऊर्द्धकारणे नानात्वम्। तदेव भावयतिआणेऊण न तिण्णे, वासस्सय आगमं तु नाऊणं। मा उल्लेज्ज हुछण्णे, ठवेइ अण्णो व मग्गेज्जा॥६८|| संघाट के न क्वापि गृहे संस्तारको दृष्टो, याचितो लब्धश्च / आने तु - मपि व्यवसितः परं वर्ष स्य आगमम् - आगमन