________________ संथार 172 - अभिधानराजेन्द्रः - भाग 7 संथार एवमुक्तेन प्रकारेण दृष्ट-दृष्टद्वारे षड् भेदाः प्रकाशिता एवमवभाषितेऽपि षड् भेदा भवन्ति-ज्ञातव्याः / तद्यथा-प्रथमं श्रुत्वेति द्वार, द्वितीय यथाभावेनेति द्वार, तृतीयं विपरिणामद्वारं, चतुर्थ धर्मकथाद्वारं, पञ्चम व्यवच्छिन्नदारं, षष्ठमन्यो वा तस्येति द्वारम्। तत्र एते खलु षड़ भेदा अवभाषणे भवन्ति-वोद्धव्याः। प्रथमद्वारव्याख्यानार्थमाहओभासिते अलद्धे, अव्वोच्छिन्ने यतस्स भावे उ। सोउं अण्णो भासइ, लद्धोऽण्णो तप्पुरिल्लस्स॥५५|| संघाटकेन भिक्षामटता संस्तारकस्वामी च संस्तारकं याचितः परं न | लब्धः, अथ च तस्य-संघाटकस्य संस्तारकोपरि भावोऽद्यापि न च व्यवच्छिद्यते तेन च संघाटकेन गुरुसमीपमागत्यालोचितो यथा अभुकस्य गृहे संस्तारको दृष्टः याचितश्च परं न लब्धः द्वितीयं वारं याचिष्यते एवमवभाषिते अलब्धे अव्यवच्छिन्ने च तस्य संस्तारकस्योपरि भावे विकटनं श्रुत्वा अन्यः संघाटकस्तत्र गत्वा याचते लभते, च, स लब्धो नीतः सन् कस्याऽऽभवतीत्यत आह-पूर्वस्य। येन पूर्वमवभाषितोऽपि न लब्धस्तस्याऽऽभवति, तद्विषयभावाव्यवच्छेदान्नेतरस्य। सेसाणि जहा दिढे, अह भावादीणि जाव वोच्छिन्ने। दाराइंजोएज्जा, छटे सेसं तुवुच्छामि // 56 // शेषाणि यथा भावादीनि चत्वारि द्वाराणि यावद् व्यवच्छिन्नद्वारम्, यथा दृष्टदृष्टद्वारे पूर्व भावितानि तथा योजयेत् / तद्यथा-एकेन संघाटेन भिक्षामटता क्वापि संस्तारको दृष्टो याचितश्च परं न लब्धः, द्वितीयः संघाटको यथाभावेन तत्र गत्वा तं संस्तारकमानयति स पूर्वसंधाटकस्याऽऽभवति, न येनानीतस्तस्य। अन्ये तु ब्रुवते-द्वयोरपि संघाटकयोराभवनमधिकृत्य साधारणमिति, गतं यथाभावद्वारम् / / 2 / / अधुना विपरिणामद्वारमुच्यते-गुरुसमीपे विकथ्यमानमन्यस्य कथ्यमानं याचितमलब्ध संस्तारक मह्य सम्प्रति देहि, अत्रापि पूर्वस्यैव संघाटकस्य स आभवति न येना-नीतस्तस्य / गतं विपरिणामद्वारम् / / 3 / / राम्प्रति धर्मकथाद्वार-मुच्यते -अग्रेतनेन संघाट के न याचिते अलब्धे चान्यसंघाटकस्तत्र गत्वा तं संस्तारकस्वामिनं धर्मकथाकथनेन समाकर्ण्य याचते संस्तारकम्, स तथा लब्ध्वानीतः सन् पूर्व संघाटकस्याऽऽभवति न येन पश्चादानीतस्तस्येति। गतं धर्मकथाद्वारम् ||4|| अधुना व्यवच्छिन्नभावद्वारमुच्यते-प्रथमसंधाटकेन संस्तारको याचितो न लब्धस्ततस्तद्विषये भावो व्यवच्छिन्नः, गुरुसमीपे च गत्वा तथैवालोचितं यथा अमुकस्य गृहे सस्तारको दृष्टो याचितश्च पर न लब्धः, स तिष्ठतु द्वितीयं वारं न कोऽपि याचिष्यते। एवं व्यवच्छिन्नं भाव ज्ञात्वा योऽन्यसंघाटको याचते, लभते च; स च तस्याऽऽभवति, न पूर्वस्य। तदेवं योजितानि यथाभावादीनि चात्वार्यपि द्वाराणि / / 5 / / अत ऊर्द्धमाह- | षष्ठेद्वारे अन्यो वाऽन्य-स्येति लक्षणे विशेषोऽस्ति तं वक्ष्यामि। प्रतिज्ञातमेव करोति। अच्छिन्ने अन्नोऽन्नं, सो वा अन्नं तु जइसे देजाहि। कप्पइ जो उ पणइतो, तेण व अन्नेण व न कप्पइ / / 57 / / येन प्रथमसंघाटकेन संस्तारको दृष्टोयाचितश्च न लब्धस्तस्य तद्विषये भावे अच्छिन्ने-अव्यवच्छिन्ने अन्येन संघाटकेन तत्र गत्वा याचिते अन्यो मनुष्योऽन्यसंस्तारक यदि दद्यात्, यदिवा-स एव संस्तारकस्वामी अन्य संस्तारक दद्यात्, तदा 'से' - तस्य कल्पते। यस्तु प्रणयितो-याचितः संस्ताकरः स तेन स्वामिना अन्येन वा मनुष्येण दीयमानो न कल्पते। गतमवभाषितद्वारम्। अधुना लब्धद्वारमाहलद्धबारे चेवं, जोए जहसंभवंतुदाराई। जत्तियमेत्तों विसेसो, तंबुच्छामी समासेणं॥५८|| लब्धद्वारेऽप्येवमुक्तप्रकारेण श्रुत्वादीनि द्वाराणि यथासंभवं योजयेत्। यावन्मात्रश्व विशेषस्तावन्मात्रं तं विशेष समासेन वक्ष्ये। तत्र प्रथम / श्रुत्वेति द्वारमधिकृत्य विशेषमाहओभासियम्मिलद्धे, भणंति नतरामिइण्हि नेउंजो। अच्छत नेहामो पुण, कल्ले वा घिच्छिहामो त्ति॥५६।। प्रथमसंघाटेन क्वापि संस्तारको दृष्टो याचितो लब्धश्च, तस्मिन् अवभाषिते लब्धे च साधवो भणन्ति-नशक्नुमः संप्रति भिक्षा-मटन्तः सस्तारक नेतुम्, ततस्तिष्ठतु पश्चान्नेष्यामः / एतच गुरु-समीपे समागत्य तेन संघाटकेनालोचितम्, तच्च श्रुत्वा अन्यो याचते लभते च, स आनीतः सन पूर्वसंघाटकस्याऽऽभवति, न येनानीतस्तस्य / अपरः संघाटकोऽग्रेतनसंघाटकवृत्तान्तमविदित्वा यथाभावेन गत्वा याचते तेनाप्यानीतः पूर्वसघाटकस्याऽऽभवतिन तस्य। अपरे द्वयोरपितं साधारणमाचक्षते। विपरिणामद्वारं साक्षादाहनवरि अण्णो आगतो, तेण विसो चेव पणयितो तत्थ। दिन्नो अन्नस्य तओ, वी (वि) परिणामेइतह चेव॥६०|| प्रथमसंघाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तव मुक्ते नवरि-केवलमन्यः संघाटक आगतस्तेनापि तत्र स एव संस्तारकः प्रणयितो-याचितः। संस्तारकस्वामिनोक्तं दत्तोऽन्यस्य, ततस्तथैवतं विपरिणामयति, यथा सर्वदैवाहं तव प्रियस्ततो मयि सति किमन्यस्मै तव दातुमुचितं तस्माद्यदि स आगच्छति तर्हि तस्य प्रतिषिध्य पश्चान्मम दातव्य इति / एवं यदि वि-परिणम्यानीतो भवति ततः पूर्वतमस्याऽऽभवति, नेतरस्य / तदेवमुक्त विपरिणामद्वारम् / / अधुना धर्मकथाद्वारम्-तथैव प्रथमसंघाटकेन संस्तारके याचिके लब्ध नेतुमशक्यतया तत्रैव मुक्ते अन्यसंघाटकस्तत्र समागत्य तं संस्तारक याचितवान् / ततः संस्तारक स्वामिनोक्तंदत्तोऽन्यस्मै / तता धर्मकथाकथनतस्तमावयं ब्रूते यथा तस्य प्रतिषिध्याय संस्तारको मां देयः / एवमानीतः पूर्व संघाटकस्य स आभवति, नेतरस्य / तथा