________________ संथार 171 - अभिधानराजेन्द्रः - भाग 7 संथार दा अन्यदा अवभाषिते याचिते संस्तारकं लब्धं वसतिमानयति अत्रैवापान्तराले वक्तव्यशेषमाहसंथारो दिट्ठोन य, तस्सपभूलघुगों अकहणे गुरूणं। कहिए ब अकहिए वा, अण्णेण वि आणितो तस्स॥४४|| यदा संस्तारक-प्रेक्ष्य तस्य स्वामिनमदृष्ट्वा वसतौ प्रत्यागतस्तदातेन गुरूणामाचार्याणां कथनीयम्-यथा दृष्टः संस्तारको न च तस्य संस्तारकस्य यः प्रभुः स उपलब्ध इति / एवं चेन्नालोचयति तस्य प्रायश्चित्त लघुको मासः / तथा कथिते अकथिते वा गुरुणां यद्यन्येन सघाटकेनामुकस्य गृहे संस्तारकोऽमुकेन संघाटकेन दृष्टः परं स्वामी नोपलब्ध इति न याचितस्तस्माद्वयं याचित्वा नयाम इति विचिन्त्य तत्र गत्वा स्वामिनमनुज्ञाप्य, आनीतस्तथापि येन पूर्व दृष्टस्तस्याऽऽभवंति न पाश्चात्यसंधाटस्य। तदेवं 'दठूणेति' व्याख्यातम्। इदानी यथाभावेनेति व्याख्यानयतिवितिओ उ अन्नदिहूं, अहभावेणं तुलद्धमाणेति। पुरिमस्सेव उस खलु, केई साहारणं बेंति।।१५।। प्रथमसंघाटके संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्य याचित्वैव वसतौ प्रत्यागते द्वितीयः संघाटकोऽशठभावोऽन्येन पूर्व दृष्ट इत्यजानाना यथाभावे तमन्यदृष्ट संस्तारकं स्वामिनमनुज्ञाप्य लब्ध्वा समानयति स कस्याऽऽभवतीति चेदत आह-स खलु नियमात्पूर्वस्य संघाटकस्य येन पूर्व दृष्टो, न पाश्चात्यस्य येन लब्धः समानीतः, किं तु उभयोरपि संघटयोराभवनमधिकृत्य साधारण ब्रुवते। गतं यथाभावेनेति द्वारम्। इदानीं तस्यैव वचनतः श्रुत्वेति द्वारव्यानार्थमाहतइओ उगुरुसगासे, विगडिजंतं सुणेतुसंथारं। अमुगत्थ मए दिट्ठो,हिंडतो वऽण्णसीसंतं॥४६|| तृतीयः संघाटकः प्रथमेन संघाटकेन क्वापि संस्तारकं दृष्ट्वा स्यामिनमनुपलभ्य वसती प्रत्यागतेन गुरुसकाशे-आचार्यस्य समीपे दृष्टो मया संस्तारकः परं स्वामी न दृष्टस्तत आगतं स न याचिष्ये इति, संस्तारकं विद्यमानमालोच्यमानं श्रुत्वा, यदिवा-भिक्षां हिण्डमानोऽन्यस्य संघाटकस्य शास्ति-कथयतियथा अमुकत्र मया दृष्टः परं स्वामी नास्ति इति नयाचितः स्वामिन्यागते याचिष्यामि एवं शिक्ष्यमाणं श्रुत्वगंतूण तहिं जायइ, लद्धम्मी बेति अम्ह एस विही। अन्नदिट्ठोन कप्पइ, दिहो एसो उ अमुगेणं // 47|| मा दिज्जसि तस्सेयं, पडिसिद्धतम्मि एस मज्झंतु। अण्णो धम्मकहाए, आउट्टेऊणतं पुव्वं / / 48|| संथारगदाणफला-दिलोभियं बेति देहि संथारं। अमुगं तिन्नि यवारो,पडिसेहेऊण तं मज्झं / / 46 / / गत्वा तत्र संस्तारकस्वामिनं संस्तारकं याचते, याचित्वा लब्धे त परिणामयति / यथा एषोऽस्माकं विधिराचारो योऽन्येन दृष्टो दृष्ट्वा च संस्तारकस्वामिनं याचिष्ये इत्यध्यवसितः सोऽन्यस्य न कल्पते एष च संस्तारकोऽन्येन दृष्टस्ततस्त्वं मम प्रियतया तस्य याच्यमानस्य संस्तारकममुदद्याः, ततस्तस्मिन् प्रतिषिद्ध एष मम भविष्यति / अत्रेयमाभवनचिन्ता यदि विपरिणामकरणे लब्धस्ततस्तस्य नाऽऽभवति किं तु पूर्वस्यैव संघाटस्य। अथवा-द्वितीयो विपरिणामनप्रकारस्तमाहगुरुसकाशे कथ्यमानमन्यस्य वा संघाटस्य शिक्ष्यमाण संस्तारक श्रुत्वाऽन्यः संघाटकस्तत्र गत्वा संस्तारकस्वामिनं पूर्वकथया धर्मकथाकथनेनावृत्त्यात्मानुकूलं कृत्वा पश्चाद्विपरिणामयति, कथमित्याह- 'संथारगदाणे' त्यादि संस्तारकस्वामिनं पूर्वसंस्तारकदानफलादिलाभित बूते-अमुकं संघाटकं याचमानं त्रीन्वारान्प्रतिषिध्य तदनन्तरं मम संस्तारकं देहि। एवं विपरिणामकरणलो लब्धः स पूर्वस्यैव संघाटकस्याऽऽभवति न पाश्चात्यस्य। अत्र प्रायश्चित्तविधिमाहएवं विपरिणामिऍण,लभती लहुगाय होंति सगणिचे। अन्नगणिचे गुरुगा, मायनिमित्तं भवे गुरुगो॥५०॥ एवम्-उक्तेन प्रकारेण विपरिणामितेन-स्वामिना यदि लभते स्वगणसत्कसाधुस्तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः, अन्यगणसत्के चत्वारो गुरुकाः / तथा स्वगणसत्को वा अन्यगणसत्को वा विपरिणम्य लब्ध्वा यदि पृष्ठः सन् विपरिणामनमपलपति तदा मायानिमित्तोमायाप्रत्ययो भवत्यधिको गुरुको मासः। सम्प्रति व्यवच्छिन्नद्वारमाहअह पुण जेणं दिट्ठो, अन्नो लद्धो उतेण संथारो। छिन्नो तदुवरि भावो, ताहे जो लभति तस्सेव।।५१।। अथ पुनर्येन संघाटकेन दृष्टः संस्तारकस्तेनान्यो लब्धः संस्तारकस्तस्य पूर्वदृष्टस्योपरि भावोऽध्यवसायश्छिन्नोव्यवच्छिन्नस्ततो यःपश्चात् लभते तस्यैव स आभवति नेतरस्य। गतं व्यवच्छिन्नद्वारम्। अधुना त्रिप्रतिषिद्धद्वारमाहअहवा वि तिनि वारा, उमग्गितोन वियतेण लद्धोउ। भावे छिन्नमछिन्ने, अन्नो जो हवइतस्सेव॥५२॥ अथवा येन दृष्टस्तेन याचितःपरं न लब्धो द्वितीयमपि वारं याचितो न लब्धस्तृतीयमपि वारं न लब्धस्तत एवं त्रीन् वारान् याचितो न च तेन लब्धस्ततस्तस्योपरि यदितस्य संघाटकस्य भावो व्यवच्छिन्नो, यदिवान व्यवच्छिन्नस्तथा योऽन्यो लभते तस्याऽऽभवति न पूर्वसंघाटकस्य। तदेवंषभिद्वारः समाप्त प्रथम दृष्टद्वारम्। अधुनाऽवभाषितद्वारमाहएवं ता दिट्ठम्मी, ओभासितके वि होंति छच्चेव। सोउं अहभावेण व, विप्परिणामे य धम्मकहा।।५३।। वोच्छिन्नम्मि व भावे, अन्नो वऽन्नस्स जस्स देजाहि। एएखलु छब्मेया, ओहासणे होंति बोद्धव्वा / / 5 / /