________________ संथार 176 - अभिधानराजेन्द्रः - भाग 7 संथार इतो मे शीर्षमितः पादौ भविष्यतः / इह च मे वादका भाजनानि वा स्थाप्यन्ते, एवं यद्यगृहीतसंस्तारक आत्मीयया इच्छया भणति, विण्टिकादिकं च स्थापयति, तदा लघुमासः प्रायश्चित्तम्, अधिकरणादयश्व दोषा भवति / अधिकरणं नाम-द्वितीयोऽपि साधुरेवमेव ब्रूयात्, ममाप्यत्रैव शीर्षादि भविष्यतीति। ततश्चास्थिभङ्गादयो दोषाः / यत एवमतःसंथारग्गहणीए, वेंटियउक्खेवणं तु कायव्वं। संथारो घेत्तव्यो, मायामयविप्पमुक्केणं // 702 / / 'संथारगहणीए'त्ति आर्षत्वात् स्त्रीत्वं, संस्तारकग्रहणकाले विण्टिकाया उत्क्षेपणं कर्त्तव्यम्, येन सुखेनैव दृष्टायां भुवि संस्तारका विभक्तं शक्यन्ते / स च संस्तारको यो यस्मै साधवेदीयते स तेन मायामदविप्रमुक्तेन ग्रहीतव्यः। माया नाम-अहं सतीयॊ ममात्रैवावकाशं प्रयच्छत इत्यादि सुन्दर तरावकाशलोभेनासद्भू-तकारणनिवेदनलक्षणा, मदोऽहंकारः, अहो अहममुष्मादपि गरीयान् येन मे शोभना संस्तारकभूमिः प्रदत्तेति। अथ किमर्थ संस्तारकग्रहणकाले विण्टिका उत्क्षिप्यन्ते ? उच्यतेसमविसमा नपासइ, दुक्खं वठियम्मि ठायई अन्नो। नेवय असंखडादी, विणयो अममत्तया चेव।।७०३|| विण्टिका यदि नोत्क्षिप्यन्ते, तदा गणावच्छेदिकादिसंस्तारकान् विभजमानः समविषमाणि स्थानानि न पश्यति अवकाशानित्यर्थः। तथा एकस्मिन्साधौ विण्टिकासहिते पूर्व स्थिते सति अन्यो न तिष्ठतिस्थातुं नशनोतीति भावः / अपि च-विण्टि-कासूत्क्षिप्तासु असंखडादयो दोषा नैव भवन्ति / यथारत्नाधिकं च संस्तारकग्रहणे विनयः कृतो भवति / अममता च ममत्वं संस्ता-रकभूमिविषयं परिहृतं भवति / अतः साधुभिःस्वस्योपकरणे प्रत्युपेक्षिते, उपाश्रये च प्रमार्जिते सुरिभिर्वक्तव्यम्आर्या ! उत्क्षिपत स्वा वेण्टिकाः, एवमुक्ते यो नोत्क्षिपति तस्य मासलघु। अथ वेण्टिकासु समुत्क्षिप्यमाणासु कश्चिदिमां मायां कुर्यात्। संथारग्गहणीए, कंटगवीयारपासवणधम्मे। पयलायणमासगुरूं, सेसेसु वि मासियं लहुगं // 704 / / संस्तारक ग्रहणकाले समसुन्दरभूमिलोभेन कण्टकोद्धरणमहं संप्रति करिष्यामि, विचारंवा-संज्ञाव्युत्सृष्ट प्ररत्रणं वा कर्तुं बहिर्गमिष्यामि, धर्म वा शय्यातरादेरगे कथयिष्यामि इत्यादि ब्रूयात् / प्रचलायनं स्वपनमिदानीं विदध्यात् / एवं शेषेषु कण्टकादिषु मायाभेदेषु मासलघुकम्। __अथकण्टकादिपदानि विवृणोतिदुक्खं ठिओ व निजइ, नियाणुघाएण पेल्लिउं सका। जो विवणे अवणेहिइ,तं पिय नेहामि इति मंता॥७०५|| संथारभूमिलद्धो, भणेइ छंदे ण भंत ! गिणिहत्तो। संथारगभूमीओ, कंटकमहमुद्धरामेणं / / 706 / / कोऽपि समसुन्दरे अवकाशे संस्तारकं कर्तुकामस्तत्र चापरः कोऽपि साधुः स्थितः-उपविष्टो वर्त्तते, सच दुःखदुःखेन नीयते अन्यत्र स्थाप्यते, नचानुपायेन कण्टकोद्धरणादिव्याजमन्तरेण प्रेरयितुं शक्यः, योऽपि 'वणे' इति मदीयं कण्टकमपनेष्यति तमप्यह ज्ञास्यामीति मत्वा संस्तारकभूमिलुब्धो भणति-भदन्त ! इह संस्तारकभूमी छन्देन स्वाभिप्रायेण गृहीत अहं पुनरत्र कण्टकमेनमुद्धरामीति, एवं मायाकरणे मासलघु प्रायश्चित्तम्। अथ सद्भावादेव कण्टको लग्नस्तत्र किमित्यत आहलग्गे वऽणहियासम्मि, कंटए उक्खिवे वि अन्नेणं। मज्झिव्वगमवणेत्ता, कमागयं गेण्हह ममं पि॥७०७।। वा इति अथवा सद्भावेनैव तस्य कण्टको लगः, स चानधिसह्यः सोदमशक्यः / ततो वेण्टिकामन्येनोत्क्षेपयेत्, उत्क्षिप्य च ब्रूयात् मदीयकण्टकमपनीय क्रमागतं ममापि योग्यं संस्तारकं गृह्णीत। एष शुद्धः / अथ विचारादीनतिदिशन्नाहएमेव य वीयारे, उज, अणुज्जू तहेव पासवणे। धम्मकहालक्खेण व, आवजइमासियं मायी॥७०८|| एवमेव विचारविषयेऽपि ऋजुरनृजुश्च वक्तव्यः, मायी अमायी चेत्यर्थः / तथैव प्रस्रवणद्वारेऽपि विभाषा कर्तव्या। धर्मकथाया वा लक्ष्येण-व्याजेन कश्चित् क्रमागतसंस्तारकं व्यत्यासं करोति सोऽपि भायीमायावागिति कृत्वा मासिकं लघुकमापद्यते / अथ सद्भावतो धर्मकथां करोति ततः शुद्ध एव। अपि च तदानीं सद्भावतो धर्मकथायां विधीयमानाया ममी गुणाः-- दुवियनुबुद्धिमलणं, सडा सज्जायरेयराणं च। तित्थवियडिपभावण, असारियं चेव कहयते॥७०६! श्रोतृणां दुर्विदग्धा-विपरीतशास्त्रपल्लवग्राहिणी बुद्धि स्तस्या मलनंमर्दनं कृतं भवति शय्यातरस्य इतरेषां च श्राद्धानां श्रद्धा वर्द्धिता भवति। धर्मश्रवणानन्तरं च बहुषु प्रव्रज्या प्रतिपद्यमानेषु तीर्थस्य विवृद्धिः कृता भवति। प्रभावना च प्रवचनस्य जायते। अहो विजयते जैनेन्द्रशासन, योदृशी धर्मकथा लब्धिसंपन्ना इति। येऽपि च सागारिका बहिधर्मश्रवणव्याक्षिप्ताः सन्तः-प्रतिश्रयमध्ये न प्रविशेयुः, ततश्च साधूनामुपकरणं प्रत्युपेक्ष्यमाणानामसागारिकं भवति / एवमेते गुणा धर्मे कथयति भवन्ति / अथ प्रचलायनद्वार भावयतिमा पयल गिण्ह संथा-रगं तिपयलाइए विजइ वुत्तो। को नामन निगिण्हइ, खणमेत्तं तेण गुरुओ सो॥७१०।। गणावच्छेदिकादिना कश्चित्प्रचलायमानो भणितः, मा प्रचलायस्य गृहाण संस्तारकमितयुक्तोऽपि यद्यसौ प्रचलायते ततो ज्ञातव्यं शठ एषः / कुत इत्याह- को नाम महानिद्रालुरपि क्षणमात्रं यावता संस्तारको गृह्यते,तावन्मात्रकालं निद्रां न निगृह्णाति, स तु तावन्तमपि कालं निद्रानिरोधमकुर्वाणः परिस्फुटं मायावी मन्तव्यः। अत