________________ संथार 166 - अभिधानराजेन्द्रः - भाग 7 संथार सम्प्रति कारणैरेव ऋतुबद्ध काले फलकरूपस्य संस्तारकस्य ग्रहणं, यतनां चाऽऽहजह कारणे तणाई, उउबद्धम्मि उहवंति गहियाइं। तह फलगाणि विगेण्हे, चिक्खल्लादीहि कज्जेहिं / / 23 / / यथा कारण-देशादिलक्षणे ऋतुबद्धे काले तृणानि गृहीतानि भवन्ति, तथा ऋतुबद्धे एव काले चिक्खल्लादिभिः कार्यरादिशब्दात्प्राणसंसक्तिहरितकायपरिग्रहः फलकान्यपि गृह्णाति। सत्र यतनामाहअझुसिरमविद्धमफुडिय, अगरुयअणिसट्टवीणगहणेणं। आयासंजमें गुरुगा, सेसाणं संजमे दोसा॥२४|| अझुषिरो झुषिररहितोऽविद्धो-वेधरहितोऽस्फुटितोऽराजितोऽगुरुको-गुरुभाररहितोऽनिसृष्टः- प्रातिहारिकंः एतेषां च पञ्चाना पदानां द्वात्रिंशगङ्गाः। ते च प्रागिव प्रस्तारतःस्वयं ज्ञातव्याः। अत्र यः प्रथमभङ्गः सोऽनुज्ञातस्तत्र दोषाभावात्,अयं लघुकः शेषदोषविनिर्मुक्तश्च / ततो यथा वीणालघुकत्वात् दक्षिणहस्तेन मुखंविवक्षितं स्थानं नीयते एवमेषोऽपि / तथा चाह-वीणाग्रहणेन यत्नतः तत्र वा नीयते इति वाक्यशेषः। शेषा एकत्रिंशत् भङ्गानानुज्ञाताः। तत्र गुरुके आत्मविराधनाप्रत्ययं च प्रायश्चित्तं चतुर्गुरुकम्।संयमविराधना पुनरेवं भवति / गुरुकें हस्तात्पतिते एकेन्द्रियादीनामुपधातोऽत्र स्वस्थानप्रायश्चित्तं शेषेषु संयमदोषाः-संयमविराधना / ततस्तत्र प्रत्येकं प्रायश्चित्तं चत्वारो लधुकाः। अझुसिरमादिपएहिं,जा अणिसटुंतु पंचिमा भयणा। अहसंथडपासुड्डे,विपज्जए होंतिचउलहुगा!|२५|| अझुषिरादिभिः पदैरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसुपदेसु प्रथमभङ्ग रूपेषु इय- वक्ष्यमाणा भजनाविकल्पना / तामेवाह-'अह संथड' इत्यादि शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथाऽवस्तृतः प्रथमभङ्गरूपः / संस्तारकः स ग्रहीतव्यः, तदभावे पार्श्वन कृतस्तस्याप्यभावे ऊर्द्धकृतः, एवं क्रमेण यतनया ग्रहणं कर्त्तव्यम् / यदि पुनर्विपर्यासेन गृह्णानि तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः। अंतोवस्सय बाहिं,निवेसना वाडिसाहिए गामे। खेत्तंतो अन्नगामे,खेत्तबहिं वा अवोच्चत्थं // 26 // एवमन्तरुपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते तदा बहिरुपाश्रयस्य तथैव ग्रहीतव्यः, तथाऽप्यलाभे,नेनैव क्रमेण निषदनादानेतव्यः, तत्राप्यसति वाटकात्, तत्राप्यलाभे साहीतः, तत्राप्यसति दूरादपि ग्राममध्यादानेतव्यो, ग्राममध्येऽप्यसति क्षेत्रान्तस्तत्क्षेत्रमध्यभागात अन्यग्रामादानेतव्यः, तत्राप्यसति क्षेत्राहिष्ठोऽप्यानेयः / एवमविपर्यस्तमानयनं कर्त्तव्यम्।यदि पुनः सति लाभे विपर्यस्तमानयति तदा प्रायश्चित्तं चत्वारो लघुकाः। सम्प्रत्यानयनयतनामाहसुत्तं च अत्थं च दुवे वि काउं, भिक्खं अडंतो उदुए वि एसे। लाभे सहूए विदुए विघेत्तुं, ___लाभासती एगदुवे व हावे॥२७॥ सूत्रं च अर्थ च द्वावपि कृत्वा भिक्षामटन द्वावप्येषयेत्-गवेषयेत्। तद्यथाभिक्षा संस्तारकं च तत्रलाभे सति समर्थो द्वावपि गृहीत्वा प्रत्यागच्छति, लाभेऽसति भिक्षां गतस्य संस्तारकाभावे एक सूत्रमर्थ वा, यदि वाद्वावपि हापयति संस्तारकगवेषणेन। दुल्लभो सेज्जसंथारो, उदुबंद्धम्मि कारणे। मग्गणम्मि विही एसो, भणितो खेत्तकालतो॥२८|| ऋतुबद्धे काले कारणे समापतिते दुर्लभे शय्यासंम्तारके यन्मार्गणं तत्र क्षेत्रतः कालतश्च विधिरेष भणितः, अनेन विधिना नान्यथेति। वर्षासु संस्तारग्रहणम्उउबड़े कारणम्मि, अगेण्हणे लहुगगुरुगवासासु। उउबद्धे जं भणियं,तंचेवयसेसयंवोच्छं|२६|| ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं ग्रहीतव्यः संस्तारकस्तत्र सूत्रस्योग्रहणे चत्वारो गुरुकाः। तथा या ऋतुबद्ध काले यतना भणिता गवेषणादौ सा वर्षास्वपि द्रष्टव्या शेषं वक्ष्यामि। प्रतिज्ञातमेव करोतिवासासु अपरिसाडी,संथारो सो अवस्स घेत्तव्यो। मणिकुट्टिमभूमिए वि, तमगेण्हणे चउगुरू आणा॥३०॥ वर्षासु यदि मणिकुष्टिमायां भूमौ वसन्ति तथापि संस्तारकोऽपरिशाटि: फलकरूपोऽवश्यं ग्रहीतव्यः तमगृह्णति प्रायश्चित्तं चत्वारो गुरुकाः, तथा आज्ञा उपलक्षणमेतदनवस्थादयश्च दोषाः। किं कारणमत आहपाणा सीयल कुंथू, उप्पायगदीहगोम्हिसिसुनागे। पणएय उवहिकुच्छण, मलउदकवहो अजिण्णादी॥३१।। कालस्य शीतलतया भूमौ प्राणाः सम्मूर्छन्ति / के ते इत्याहकुन्थवःप्रतीता, उत्पादका नाम-ये भूमि भित्त्वा समुत्तिष्ठन्ति दीर्घाःसास्तेभ्य आत्मविराधना। गोम्मी नाम कर्णगाली शिशुनागः-अलसः तथा शीतलायां भूमौ पनकः संजायते / उपधावपि पनकः संमूर्छति। तथा उपधेः शीतलभूमिस्पर्शतः कोथनसंभवः। तथा सचेह धूलिलगन मलसंभवः, ततो हिण्डमानस्य वर्षे पतति उदकवधः-अप्कायविराधना। तथा उपधेर्मलिनत्वेनारतिसम्भवे निद्राया अलाभतोऽजीर्णत्वसंभवः। आदिग्रहणात्-ततो ग्लानत्वं तदनन्तरं चिकित्साकरणेत्यादिपरिग्रहः / तम्हा खलुघेत्तव्यो, तत्थ इमे पंच वण्णिया भेया। गहणे य अणुण्णवणे, एगंगियअकुयपाउग्गे // 32 / / यस्मादे तेषां तस्मादवश्यं फलक रूपः संस्तारको ग्रहीत