________________ संथार 168 - अमिधानराजेन्द्रः - भाग 7 संथार साम्प्रतमेनामेव विवरीषुः प्रथमतस्तृणेषु 'दोसो' इत्यस्य व्याख्यामाहअसिवादिकारणगता, उवही कुच्छण अजीरगभया वा। अझुसिरमसंधिऽवीए, एक्कमुहे भंगसोलसर्ग 1115 / / अशिवादिभिः कारणैस्तत्र प्रदेशे गता ये वर्षारात्रे पानीयेन प्लाव्यन्ते यथा सिन्धुविषयः / अथवा- तत्र देशे स्वभावतः यतः प्रखरा भूमिस्ततो रात्रौ शीतलवातसंपर्कतोऽवश्यायः पतनतो वा जलप्लाविते च सा भूमिरुपजायते / अथवा-आसन्नीभूतेन पानीयेन तमवकाशमप्राप्नुवताऽपि भूमिः स्विद्यति। तत्रोपधेः कोथनं मा भूत्वा माअजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णक भयाद्वा तृणानि गृह्णन्ति साधवस्तानि च अझुषिराणि असंधीनि अबीजानिच। एतान्येकमुखानि क्रियन्ते / यत्र च अझुषिरे असंधौ अबीजे एकमुखरूपेषु चतुर्षु पदेषु भङ्गषोडशकम्-षोडशभङ्गाः। तत्राऽझुषिरादिव्याख्यानार्थमाहकुसमादि अझुसिराई, असंधऽबीयाइएक्कउ मुहाई। देसीपोरपमाणा, पढिलेहा तिन्नि वेहासं|१६|| कुशादीनि-कुशवच्चकप्रभृतीनि तृणानि अझुषिराणिअसंधीनि अबीजानिबीजातीतानि भवन्ति तानि एकमुखानि कर्तव्यानि / तत्र भनषोडशकमध्ये यत्र भङ्गे झुषिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः, बीजेषु प्रत्येकेषु पञ्चरात्रिन्दिवानिलघुकानि, अनन्तकायिकेषु गुरुकाणि, शेषेषु भङ्गेषु मासलघु, प्रथमे भङ्गे गृह्णन्तः शुद्धाः / 'देसीपोरे' त्यादि देशीत्यङ्गुष्ठोऽभिधीयते, तस्य यत्पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति / इयमत्र भावना-अङ्गुष्ठस्य यत्पर्व तत्राङ्गुल्यग्राणि स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरापूर्यते तावन्ति मुष्टिप्रमाणानि जिनक-ल्पिकानां स्थविरकल्पिकानांचतृणानि भवन्ति, तेषां च तृणानां प्रत्युपेक्षास्तिस्त्रः / तद्यथा-प्रभाते, मध्याह्ने, अपराहे च / यदा च भिक्षादौ गच्छन्ति तदा विहायसि कुर्वन्ति। साम्प्रतमेतदेव किंचिद्व्याचिख्यासुराहअंगुट्ठपोरमेत्ता, जिणाण थेराण होंति समासो। भूमीऍ विरल्लेउं, अवणे तुपमञ्जए भूमिं // 17 // अड् गुष्ठपर्वमात्राणि-अड् गुष्ठपर्वपरिमितमुष्टिप्रमाणानि जिनानानिजकल्पिकानां स्थविराणां स्थविरकल्पिकानां भवन्ति, तैश्च तृणैः संस्तारक आस्तीर्यमाणस्तावद्धिर्भवतियावत्सण्डासः, (संदंशकः) तानि / च भूमौ विरल्यशयनार्थ विरलीकृत्य भूमिं प्रमार्जयति। सम्प्रति 'गेलण्णे उत्तिमढे य' इति व्याख्यानार्थमाहगेलन्ने उत्तिमढे, उस्सग्गे तु वत्थंथारो। असतीऍ अझुसिराई,खरा सतीए उ झुसिरा वि।।१८।। यो नाम ग्लानो यो वा प्रतिपन्नोत्तमार्थ:-कृतानशनप्रत्याख्यानः तस्मिन् द्वयेऽपि संस्तार उत्सर्गतो वस्त्ररूपः क्रियते तस्य कोमलतया समाधिभावात् / असति-अविद्यमाने वस्त्ररूपे संस्तारके अझुषिराणि कुशवचकप्रभृतीनि मृग्यन्ते। अथ तानि खराणि, यदि वा-नसन्ति तदा झुषिराण्यपि शाल्यादिपलालमयान्यानेतव्यानि / तदिवसंमलियाई, अपरिमिय सयं तुयट्टजयणाए। उभयट्ठ उठ्ठिए उ,चंकमणविज्जको वा / / 16 / / तदिवस -प्रतिदिवसं मलितानि-तृणान्युत्सार्यन्ते अन्यानि च समानीयन्ते; तानि वा परिमितानि गृह्यन्ते, यथा समाधिर्भवति तथा सकृत्-एकवार तुयट्टानि-प्रस्तारितानि तिष्ठन्ति तत्र यतनया करणम्। उभयं नाम-उच्चारः प्रस्रवणं च तदर्भमुत्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति / किं कारणमिति चेत्प्राणिदयार्थम्, अन्यथा शुषिरभावतस्तत्रागन्तुकाः प्राणास्तृणान्युपलीयेनर् स तावन्निषीदति यावत्स तत्र प्रत्यागच्छति / एवं चंक्रमणार्थमप्युत्थिते, प्रवातार्थ वा बहिर्निर्गत, वैद्यकार्ये वा बहिर्नीते यावत्स प्रत्यानीयते तावदन्यो निषीदति; तस्मिन्नागते स उत्तिष्ठति। अथवा-स गुरूणामपि पूज्य इति तस्मिन् पूर्वोक्तकारणैरुत्थिते तत्रान्यस्य निषदनं न कल्पते ततस्तेषां तृणानामुपरि हस्तः कर्तव्यः। एतदेवाहअन्नो निसिज्जइ तर्हि, पाणियदवाएँ तत्थ हत्थो वा। निक्कारणमगिलाणे, दोसा ते चेव य विकप्पा॥२०॥ अन्यस्तत्र संस्तारके प्राणिदयार्थ निषीदति, हस्तो वा तत्र क्रियते। अत्र भावना प्रागेव कृता / एतैः कारणैर्यथोक्तरूपः संस्तारक ऋतुबद्दे काले। निष्कारणम् देशादिकारणमन्तरेण अग्लाने अग्लानस्य तृणमयसंस्तारकग्रहणे त एव पूर्वोक्ता दोषाः / विकल्पो, विकल्पदोषश्च / विकल्पग्रहणेन विकल्पप्रकल्पावपि सूचितौ। तेषां व्याख्यानमाहअत्थरणवजितो उ, कप्पोंपकप्पो उहोति पट्टदुगं। तिप्पभिई तु विकप्पो, अकारणे चेवतणभोगो॥२१॥ आस्तरणवर्जितः-कल्पः / किमुक्तं भवति- यद् जिनकल्पिका अनवस्तृते रात्रावुत्कुटुकास्तिष्ठन्ति एष कल्प इत्यभिधीयते। तत्पुनः पट्टद्विक भवति; संस्तारोत्तरपट्टयोरुपरि यत्सुप्यते इत्यर्थः : एष भवति प्रकल्पः / यानि पुनस्विप्रभृतीनि संस्तारके प्रस्तारयति एष विकल्पः / यच अकारणे कारणमन्तरेण तृणानां भोगः क्रियते एषोऽपि विकल्पः / अथवा अन्यथा कल्पप्रकल्पव्याख्यानमाहअहवा अझुसिरगहणे, कप्पो पकप्पो उ कज्जे झसिरे वि। झुसिरे य अझुसिरे वा, होइ विकप्पो अकजम्मि // 22 // अथवेति प्रकारान्तरोपदर्शने यत्कारणे समापतिते अझुषिराणि तृणानि गृह्णाति एष कल्पः यत्पुनः कार्य समापतिते झुषिराण्यपितृणानि गृह्णाति एष प्रकल्पः / यत्पुनः अकार्ये झुषिराणि अझुषिराणि वा गृह्णाति एष भवति विकल्पः / एवं तावत्तृणानामृतुबद्धे काले कारणे गृहीताना यतनोक्ताः /