________________ संथार 167 - अभिधानराजेन्द्रः - भाग 7 संथार एगाहं वा दुयाहं वा तियाहं वा अद्धाणं परिवहित्तएएस मे वासावासेसु भविस्सइ॥३॥से अहालहुस्सगंसेज्जासंथारयं गवेसेज्जाजंचक्किया एगेणं उगिज्झजाव एगाहं वा दुयाहं वा तियाहं वा चउयाहं वा | पंचाहं वा दूरमवि अद्धाणं परिवहित्तएएस मे वुड्डावासासु भविस्सति // 4 // सोऽधिकृतो भिक्षुर्यथालधुस्वकम्-अनेकान्तलघुक वीणाग्रहणग्राहां शय्यासर्वाङ्गिका संस्तारकोऽर्द्धतृतीयहस्तदीर्घः, हस्तश्चत्वार्यड्गुलानि विस्तीर्णः / अथवा-तत्पुरुषः समासः-शय्या एव संस्तारकः शय्यासंस्तारकः तृणमयं पट्टमयं वा गवेषयेत्। तत्र यत् शक्नुयात् एकेन हस्तेनावगृह्य यावदेकाहं वा व्यहं वा त्र्यहं वा अध्वानं गच्छन् परिवोद तत गृह्णीयात एप मे वर्षावासे भविष्यति। एष वर्षासूत्रस्यार्थः / / 3 / / एवं हेमन्तग्रीष्मसूत्रार्थो वृद्धावाससूत्रार्थश्च भावनीयः / नवरं वृद्धावाससूत्रे चतुरहं वा पञ्चाह वेत्यधिक वक्तव्यम्। __ अधुना नियुक्तिविस्तरःसोपुण उउम्मि घेप्पइ, संथारो वासें वुड्ववासे वा। ठाणं फलगादिवा, उउम्मिवासासुयद्ववेऽवि।।७।। रा पुनः संस्तारकः स्थान-स्थानरूपम् ऋतुबद्धे-वर्षाकाले वृद्धावासे च यथानुरूपे गृह्यते / तद्यथा-ऋतुबद्धे काले अवकाशे गृह्यते वर्षावासे वृद्धावासं च निवातस्थानेऽपि। तथा ऋतुबद्ध काले ऊर्णादिमियं संस्तारक परिगृहा पुरुषविशेष ग्लानादिकमपेक्ष्य फलकादि वा वर्षावासे द्विकावपिद्वावपि संस्तारको वक्ष्यमाण-लक्षणो गृह्णीयात्।। उउबड़े दुविहगहणे, लहुगो लहुगा यदोस आणादी। झामियहियवक्खेवे, संघट्टणमादिपलिमंथो॥चा द्विविधः संस्तारकः-परिशाटिरूपः, अपरिशाटिरूपश्च / तत्र / परिशाटिरूपो द्विविधः-झुषिरः, अझुषिरश्च / तत्र शाल्यादि पलालतृणमयो झुषिरः, कुशकाशादिरूपः अझुषिरः / अपरिशाटिरूपो द्विविधःएकाङ्गिकः, अनेकानिकश्च / एकाङ्गिकोऽपि द्विविधः-संघातितः, असंघातितश्च / तत्र संघातित एकफलात्मकः, असंघातितोट्यादिफलसंघातात्मकः। अनेकानिकः कथिकाप्रस्तारात्मकः / तत्र यदि ऋतुबद्ध अझुषिरं परिश टिसस्तारकं गृह्णाति तदा तस्य प्रायश्चित्तं लघुको मासः, झुषिरं गृह्णतश्चत्वारो लघुकाः, अपरिशाटिमपि गृह्णतश्चत्वारो लघुकाः, न केवलं प्रायश्चत्तं, किं त्वाज्ञादयश्च दोषाः / तथा यद्यग्निना सध्याम्यते तदापि प्रायश्चित्तं चत्वारो लघुकाः, व्याक्षेपेण वा स्तेनैरपहृते चतुर्लधुकम्, अपरिशाटौ ध्यामिते हृते वा मासलघुः, ततोऽन्यं संस्तारकं मृगयमाणानां सूत्रार्थपलिमन्थः / तथा तस्मिन्संस्तारकेये प्राणजातयः आगन्तुकारतदुद्भूता वा तान् संघट्टयति, अपद्रावयति च ततस्तन्निष्पन्नं तस्य प्रायश्चित्तमित्येष गाथार्थः / सांप्रतमेनामेव भाष्कृत् विवृणोतिपरिसाडि अपरिसाडी, दुविहो संथारओ समासेणं / परिसाडी झुसिरेयर, एत्तो वुच्छं अपरिसाडी ll द्विविधः समासेन संक्षेपेण संस्तारकस्तद्यथा-परिशाटिः, अपरिशाटिश्च / तत्र परिशाटिर्द्विधा-झुषिरः, इतरश्च / इतरो नाम-अझुषिरः। अतऊर्ध्वमपरिशार्टि वक्ष्ये। प्रतिज्ञातमेव करोतिएगंगि अणेगंगी,संघातिम एतरो य एगंगी। अझुसिरगहणे लहुगो, चउरोलहुगाय सेसेसु॥१०॥ अपरिशाटिर्द्विधा एकाङ्गिकः, अनेकाङ्गिकश्च / तत्रैकाङ्गि को द्विधासंघातिमः, इतरश्च / अमीषां व्याख्यानं प्रागेव कृतम्। तत्राझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः / शेषेसु झुषिरसंधाते इतरैकानि कानैकाङ्गिकेषु प्रत्येकं चत्वारो लघुकाः। लघुकाय झामियम्मिय, हरिए विय होंति अपरिसाडिम्मि। परिसाडिम्मियलहुगो, आणादिविराहणाचेव।।११।। अग्निना ध्यामिते अपरिशाटौ स्तेनैर्वा तस्मिन्नपहृते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका भवन्ति / परिशाटौ ध्यामिते हृते वा प्रत्येक लघुको मासः, आज्ञादयश्च दोषाः / तथा विराधना च संयमस्य। तामेवाभिधित्सुराहविक्खेवो सुत्तादिसु, आगंतुतदुब्भवेण घट्टादी। पलिमंथो पुव्वुत्तो, मंथिज्जति संजमो जेणं / / 12 / / अन्यसस्तारकमार्गणे सूत्रादिषु-सूत्रेष्वर्थेषु च विक्षेपोव्याघातः; परिमन्थ इत्यर्थः / तथा ये तत्रागन्तुकाः प्राणाः कीटिकादयो ये च तदुद्षा मत्कुणादयस्तेषां यत् घट्टनादि तन्निमित्तमपि प्रायश्चित्तम् / इदानीं परिमन्थो व्याख्येयः / स च पूर्वमेव 'विक्खेवो सुत्तादिसु' इत्यादिना ग्रन्थेनोक्तः। अथ कस्मात् व्यापेक्षो घट्टनादि वा परिमन्थ इत्युच्यते। तत आह-एतेन कारणेन येन संयम उपलक्षणमेतत् सूत्रमर्थश्व मथ्यते तेन परिमन्थ इति। तम्हाउनघेत्तव्यो, उउम्मिदुविहो विएस संथारो। एवं सुत्तं अफलं,सुत्तनिवाओ उकारणितो।।१३।। यस्मादेते दोषास्तस्मात् ऋतौ- ऋतुबद्धे काले द्विविधोऽप्येष परिशाट्यपरिशाटिरूपः संस्तारो न ग्रहीतव्यः / अत्र पर आह-एवं सति सूत्रमफलं सूत्रे तृणमयशय्यासंस्तारकस्यानुज्ञानाद् ! आचार्य आहसूत्रनिपातः कारणिकः-कारणवशात्प्रवृत्तः। तदेव कारणमुपदर्शयतिसुत्तनिवातो तणेसुं,देसें गिलाणे य उत्तमढे य। चिक्खलपाणहरिए, फलागाणि वि कारणे जाते / / 14 / / सूत्रस्य निपातो निपतनमवकाश इति भावः / देशे- देशविशेषे तथा ग्लाने उत्तमार्थे च तथा चिक्खल्ले-कर्दमे प्राणजाते-भूमौ संसक्ते तथा हरितकाये एवं रूपे कारणे जाते सति फलकान्यपि गृह्यन्ते / फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यते इति गाथासंक्षेपार्थः।