________________ संथार 164 - अभिधानराजेन्द्रः - भाग 7 संथार यावन्तिकानि च दुःखानि शारीराणि मानसानि च संसारे वर्तन्ते तानि प्रज्ञातानि प्राकृतत्वालिङ्ग निर्देशः सर्वत्र अनन्तकृत्वः कायस्यदेहस्य ममत्वभावेनेत्यर्थः। तम्हासरीरमाई, सब्मितरबाहिरं निरविसेसं। छिंद ममत्तं सुविहिय!, जइइच्छसि उत्तमं अटुं।।१०।। तस्मात्-कारणात् शरीरादिना सहाभ्यन्तरबाह्येन वर्त्तते इति सबाह्याभ्यन्तरम् / तत्राभ्यन्तरं-कषायनिदानादि बाह्यमुपधिस्वजनपरिवारादिक निरविशेष-परिपूर्ण छिन्धिविदारय ममत्वंप्रतिबन्धं हे सुविहित ! उत्कृष्टारोधन! यदिइच्छसि-वाञ्छसि मोक्षमिति तात्पर्यार्थः। विशेषतः पुनः उत्तमार्थ संघक्षामणामाहजगआहारो संघो, सव्वो मह खमउ निरविसेसं पि। अहमविखमामि सुद्धो, गुणसंघायस्ससंघस्स।।१०१।। जगतो-लोकस्य दुर्गतौ पततः आधार:-आलम्बनं संघः, संघप्रसादतो / दुर्गतिपातो न भवतीत्यर्थः, सर्वोऽपि साधुसाध्वीश्रीवकश्राविकालक्षण: 'मह खमउंति मम क्षमय निरविशेषमप्यपराधजातम्। अहमपि क्षमामिक्षमा करोमि गुणसंघातस्यगुणसमुदायस्य सत्कमपराधजातमित्यर्थः। पूर्वमपि संघक्षामणा सर्वजीवराशिक्षामणा च कृतेति पुनरपि किंचित्सनामग्राहमाहआयरिय उवज्झाए, सीसे साहम्मिए कुलगणे य। जे मे कया कसाया, सव्वे तिविहेण खामेमि।।१०।। सव्वस्ससमणसंघ-स्स भगवओ अंजलिं करिय सीसे। सव्वं खमावइत्ता,खमामि सव्वस्स अहयं पि॥१०३|| सव्वस्स जीवरासि-स्स भावओधम्मों निहियनियचित्ते। सव्वं खमावइत्ता, अहयं पिखमामि सव्वेसिं॥१०४|| गाथात्रयमपि प्रतिक्रमणाध्ययनप्रसिद्धत्वान्न विवृतम्। इइ खामियाइयारो, अणुत्तरं तवसमाहिमारूढो। पप्फोडतो विहरइ, बहुभवबाहाकयं कम्मं / / 10 / / 'इति' सर्वसंघसर्वजीवराशिक्षामितातिचारः सन् अनुतरांप्रधानां तपःसमाधिं 'नो इह लोगट्टयाए तवमहिडिजा, नो परलोगट्टयाए तवमहिडिजा, नो कित्तिवण्णलद्धसिलोगट्टयाए तवमहिडिल्ला, नन्नत्थ निज्जरट्टयाए तवमहिहिजा ' 'इत्येवंरूपां चतुर्विधामपि तपसि परमसमाधिमारूढः उत्कृष्टाराधनाकरणे बद्धकक्षः प्रस्फोटयन्विनाशयन विहरति-वर्त्तते / किमित्यत आह-'बहुभवबाहाकयं कम्म' ति-बहवश्व ते भवाश्च बहुभवास्तेषां बाधानिरन्तर परिभ्रमणेन संकट बहुभवबाधा बहुभवबाधया कृतं किं कर्म तत्प्रस्फोटयति-विनाशयति इत्यर्थः। तदेव कर्मस्फोटनं विशेषेण विवृणोतिजं बद्धमसंखेज्जा-हि असुहभवसयसहस्सकोडीए। एगसमएण वि हणइ, संथारं आरुहंतो य॥१०६।। यत्कर्म बद्धम् असंख्याताभिरशुभभवशतसहसकोटिभिः 'असुह'त्ति | विभक्तिलोपाद्वा अशुभ पापप्रकृतिरूपं वा तत् कर्म एकसमयेनापि हन्ति संस्तारकमारुहन्नित्यर्थः। इहभवविहारिणो सा,विग्धंकरीवेयणासमुद्रुइ। तीसे विज्झवणाए, अणुसट्टि दिति निजवगा // 107 / / इत्थम्-अमुना प्रकारेण तपोविहारिणः-अनशनरूपतपश्चारिणः सा पूर्ववर्णितचतुर्गतिकभवभाविनी विघ्गकरी धर्मध्यानविघातकवेदना समुतिष्ठति-प्रादुर्भवति / ततस्तस्या वेदनाया विधमापनार्थम् - उपशमनार्थमनुशारित 'दिति त्ति ददति निर्यामकागीतार्थगुरव इत्यर्थः / केनोल्लेखेनते ददतीत्याहजइ ताव ते मुणिवरा, आरोवियवित्थरा अपरिकम्मा। गिरिपब्भार विलग्गा, बहुसावयसंकडं भीमं / / 108|| यदि तावत्ते मुनिवृषभाः सुकोशलादयः 'आरोवियवित्थर' त्तिआरोपितो-नियोजित आत्मनि आराधनाविस्तरो यैस्ते आरोपितविस्तराः 'अपरिकम्म' त्ति सर्वथा शरीरंपरिकर्मणा वर्जितत्यादपरिकर्माणः 'गिरिपब्भार त्ति प्राकृतत्वाद् द्वितीयैकवचनलोपात् गिरिप्राग्भारं पर्वतनितम्ब विलग्नाः कथंभूतमित्याह-बहूनि च तानि स्वापदशतानि च सिंहव्या घ्रादीनि तैः संकट व्याप्तमत एव भीमभीषणाकारम्। तत्र किं कुर्वन्तीत्याहधीधणियबद्धकच्छा, अणुत्तरविहारिणो समक्खाया। सावयदाढगया वि हु, साहिंती उत्तमं अहूं / / 10 / / यदि ते एकाकिनोऽपि असहाया अपि 'धीधणियबद्धकच्छ' ति घृत्याचित्तस्वास्थ्येन धनितम्-अत्यर्थ बद्धाकृता आराधनारूपा कक्षाप्रतिज्ञा परिकरो वा यैस्ते धृतधनितबद्धकक्षाः, अत एव जिनशासने ते अनुत्तरविहारिणः समाख्याताः-कथिताः पूर्वमुनिभिरिति अध्याहारः / 'सावयदाढगया विहुत्ति श्वापददंष्ट्रयोपगता अपि व्याघ्रादिश्वापददंष्ट्रया निष्ठुरपीडापरिगता अपि साधयन्ति-निष्पादयन्ति उत्तमार्थ न ध्यानात् भ्रस्यन्ते, वेदनाव्याप्ता अपि निर्यामकविवर्जिता अपीत्यर्थः / किं पुण अणगारसहा-यगेहि संगयमणेहि धीरेहिं। नहु नित्थरिजइइमो, संथारो उत्तिमट्टम्मि // 110|| हे क्षपक ! यदि तावत्तैरपि दुर्गोपसर्गप्राप्तैरप्यसहायैरप्ययं संस्तारको निस्तीर्णः किं पुनर्युष्मादृशैरनगारसहायकै नियमिकगुरुयुक्तैः धीरेबुद्धिमद्भिः संगतमनोभिर्विशेषोपसर्गसंसर्गरहितत्वेन सिद्धान्तं श्रुत्वा, नियमिकं गुरुमुखनिःसृततया संगतंयुक्तमातरौद्रध्यानरहितं मनो येषां ते संगतमनसस्तैः संगतमनोभिः-निश्चलचित्तैः, न हु-नैव 'नित्थरिजइ इमो' ति निस्तीर्यते-पर्यन्ते प्राप्यते 'इमो' अयं संस्तारकः काका अक्षरयोजना, किं न निस्तीर्यते अपि तु निस्तीर्यत एव उत्तमार्थे - उत्तमार्थविषये इति। उच्छडसरीरघरा, अन्नो जीवो सरीरमन्नं ति। धम्मस्स कारणे सुवि-हिया सरीरं पिछडुति / / 111 / /