________________ संथार 163 - अभिधानराजेन्द्रः - भाग 7 संथार रहितः कृताऽऽलोचन इत्यर्थः / (अतः परम् 'अम्मापिउणो सरिस' त्ति (संथा०) पदव्याख्या 'जीव' शब्दे चतुर्थभागे 1536 पृष्ठे गता।) धीरपुरिसपन्नत्तं, सप्पुरिसनिसेवियं परमघोरं। धन्ना सिलायलगया, साहिंती उत्तम अटुं|१|| अथ गुरवः क्षपकमनुशासयन्ति, हे वत्स ! धीरपुरुषप्रज्ञप्तं तीर्थ - करणगधरादिदेशितं सत्पुरुषनिषेवितं पुण्डरीकादिमहापुरुषाचीर्ण परमधोरं क्लीबैर्दुरनुचरं धन्या एव शालिभद्रादिन्यायेन साधयन्ति निष्ठा प्रापयन्ति उत्तमार्थ विशिष्टाराधनम्। तामेवानुशासनां चतुर्गतिकसांसारिकपरिभ्रमण दर्शयतिनारयगइ-तिरियगइ-माणुसदेवत्तणे वसंतेणं / जंपत्तं सुहदुक्खं, तं अणुचिंते अणन्नमणो||२|| नरकगतिश्च तिर्यम्गतिश्च मानुषाश्च देवाश्च नरकगतितिर्यग्गतिमानुषदेवास्तेषां भावो नरकगतितिर्यग्गतिमानुषदेवत्वं तस्मिन्नरकगतितिर्यग्गतिमानुषदेवत्वे वसता सता यत्प्राप्तं सुखं दुःखं च सुख-दुःखं तत् अनुचिन्तयस्मर 'अणन्नमणो' त्ति एकाग्रचित्त इत्यर्थः। नरएसुवेयणाओ, अणोवमाओ असायबहुलाओ। कायनिमित्तं पत्तो,अणंतखुत्तो बहुविहाओ||३|| नरकेषु वेदनाः शीतोष्णदंशक्षुत्पिपासादाहज्वरशोकभयकण्डुपारवश्यरूपा दशप्रकाराः। यत उक्तं च "अच्छिनिमीलणमित्तं, नऽस्थि सुहं दुक्खमेव अणुबद्धं / नरए नेरइयाणं, दुक्खसयाई अविस्सामं / / 1 / / अइसीयं अइउन्हं, अइतन्हा अइखुहा अइसयं च / नरए नेरइयाण, वेयणसयसंपगाढाणं ॥२सा” अणोव-माओ' त्ति अनुपमाउपमातीताः अशातबहुलाःदुःखप्रचुराः 'कायनिमित्तं पत्तो' त्ति वैक्रियादेः शरीरयोगात्प्राप्ता बहुविधाः तप्तत्रपुपानतप्तायोमयस्त्रीपुत्तलिकासमालिङ्गनकूटशाल्मलिशिखरारोपणचरणशिरः समाकर्षणायोघनघातनवज्रमयमुद्गरनिकरप्रहरणवज्रविनिर्मितनिशितवास्यादितक्षणक्षतक्षारोष्णतैलनिक्षेपणकुन्तादिप्रोतनभ्राष्टभर्जनयन्त्रपीडनक्रकचपाटनवैक्रियानेकककोलूकनकुलसर्पवृश्चिकश्वमार्जारव्याघ्रसिंहादिकदर्थनाकदम्बपुष्पाकारवज्रवासुकावतारणासिपत्रवनप्रवेशनवैतरणीनदीप्लावनपरस्परयोधनादिका वेदनाः नानाप्रकाराः शरीरभावात् अशरीरिणां सिद्धानां सर्वथाऽपितासामभावादिति। अथ कियतीबेलास्ताः प्राप्ता इत्याह- 'अणंतखुत्तो' त्ति-अनन्तकृ (त्वा) त्वः-अनन्तवेला इत्यर्थः। देवत्ते मणुयत्ते, परामिओगत्तणं उवगएणं / दुक्खपरिकिलेसकर, अणंतखुत्तो समणुभूओ ||4|| | न केवलं नरकत्वे एव वेदनाः समनुभूताः, किं तु देवत्वमानुषत्वेऽपि समनुभूताः / देवत्वे तावदीयाविषादपरपरिभवप्रेक्षताभियोगिकत्ववजताडनादिका, मनुजत्वे मण्टकुण्टटुण्टपड़ गुवधिरान्धदुः स्वरदुर्भगहीनदीनदारिद्र्योपद्रवरोगशोकेष्टवियोगानिष्टसंप्रयोगजन्मजरामरणा दिकाः पराभियोगकत्वमुपगतेन प्रादुर्भूताः, 'दुक्खपरिकिलेसकरि' त्ति दुःखपरिक्लेशकरीवेदनाः 'समणुभूओ' त्ति समनुभवति स्म समनुभूतः अणतखुत्तो' त्ति अनन्तकृत्वोऽनन्तेषु भवेष्वित्यर्थः / तिरियगई अणुपत्तो,भीममहावेयणा अणोयारे। जम्मणमरणरहट्टे, अणंतखुत्तो परिब्भमिओ।।६।। तिर्यग्गतिमनुप्राप्तः भीमाश्चभयानकाः महतीः वेदना- महावेदनाः भीमाश्च ता महावेदनाश्च भीममहावेदनावधवेधदहनाङ्कनिर्वृषणगलकर्त्तनकर्णच्छेदपुच्छच्छेदतृष्णाक्षुधाभारवहनादिकाः 'अणोयारे' त्ति अनर्वाक् अलब्धपारे अपार पर्यन्तेजन्ममरणारघट्टे संसारेऽनन्तकृत्वः परिभ्रान्तःपर्यटित इत्यर्थः। सुविहिय ! अईयकाले, अणंतकालंतु आगयगएणं। जम्मणमरणमणंतं, अणंतखुत्तोसमणुभूओ||१६|| हे सुविहित ! अस्मिन्संसारे चातुर्गतिकेऽतीते काले व्यतीद्धायाम् अनन्तकालं 'तु' त्ति अपिशब्दार्थे, ततोऽयमर्थो न केवलं संख्यातं कालं किं त्वनन्तकालपपि आगतकाले काले कृत्वा गमनेन पुनः परिभ्रमणे - नेत्यर्थः, 'जम्मणमरणमणत' ति प्राकृतत्वादेकवचनं जन्ममरणान्यनन्तानि। एकपरिपाट्याऽपि अनन्तानि भवन्तीत्याह- 'अणंतखुत्तो' त्तिअनन्तान्यपि। अनन्ता परिपाटी कथम् ? निगोदेष्वनन्तकालमुषित्वा ततस्त्रसत्वं प्राप्य पुनः तेष्वेवानन्तकालमुषित्वा एवमनयेव परिपाट्या अनन्तकृत्वोऽपि अनन्तानीत्थमनुभूत इत्यर्थः। नऽत्थि भयं मरणसमं, जम्मणसरिसंन विजए दुक्खं / जम्मणमरणायंकं, छिंद ममत्तं सरीराओ||७|| नास्ति भयं मरणसम-मृत्युतुल्यं, यत आह-'सब्वे जीवा पियाउया अप्पियवहा (सुयसाया) दुक्खपडिकूला। सवे जीविउकामा सव्वेसिं जीवियं पियं ति॥१॥ किंच-"तृणायाऽपिन मन्यन्ते, सुतदारार्थसंपदः / जीवितार्थे नरास्तेन, तेषामायुर-तिप्रियम्॥१॥" तथा जन्मसदृशंदुःखं न विद्यते। यतः-"सूईहिं अग्गिवन्नाहि,संभिन्नस्स य जंतुणो। जावइयं गोयमा / दुःक्खं, गब्भे अद्वगुणं तओ // 1 // गब्भाओ निस्सरंतस्स, जोणीजतनिपलणे / सयसाहसियं दुक्खं, कोडाकोडीगुणं पि वा // 2 // " जन्ममरणातङ्क जन्ममरणे आतङ्कहेतुत्वात् ममत्वं छिन्धिनाशय ममत्वं शरीरात्, शरीरे ममत्ववतानि भवन्तीत्यर्थः / अतश्च किं भावयअन्नं इमं सरीरं, अन्नो जीवो त्ति निच्छयमई उ। दुक्खपरि किलेसकरि, छिंद ममत्तं सारीराओ / / 68|| अन्यदेतच्छरीरम् अन्यश्च जीवः शरीराद् व्यतिरिक्त इति निश्चयमतिकः सन् दुःखपरिक्लेशकारि 'ममत्त' ति प्राकृतत्वान्ममत्वं मूछा छिन्धिनाशयेत्यर्थः। यतः कारणात्जावंति केइ दुक्खा, सारीरा माणसा य संसारे। पत्तो अणंतखुत्तो, कायस्स ममेतिदोसाणं / / 6 / /