________________ संथार 161 - अभिधानराजेन्द्रः - भाग 7 संथार एतत्संवादिगाथेयम्गुढे पाओवगओ, सुबंधुणा गोमये पलिवियम्मि। डज्झंतो चाणको, पडिवन्नो उत्तमं अटुं // 73|| अथ गाथात्रयेण संबन्धः। कायंदीनयरीए, राया नामेण अमयघोसो त्ति। तत्तो सुयस्स रज्जं, दाऊणं अहचरे धम्मं / / 74| काकन्द्यां नगर्या राजा नाम्ना "अमृतधोष" इति, ततः स राजा सुतस्यपुत्रस्य राज्य दत्त्वाऽथ चरेदनुतिष्ठेत् धर्म चारित्रप्रतिपत्तिलक्षणम्। आर्हिडिऊण वसुहं, सुत्तत्थविसारओ सुयरहस्सो। काइंदी चेव पुरि, अहसंपत्तो विगयसोगो।।७।। आहिण्ड्य-परिभ्रम्य विहृत्येत्यर्थः वसुधा सूत्रार्थविशारदोविचक्षणः, यत एव सूत्रार्थविशारदोऽत एव श्रुतरहस्यः श्रुतनिकषः काकन्दीभेव पुरीमथ विहरन्नुद्यतविहारेण संप्राप्तः विगतशोकः-परित्यक्तदैन्यभाव इति। नामेण चंडवेगो, अहसो पडिछिंदई तयं देहं। सो वितह छिज्जमाणो, पडिवन्नो उत्तम अहूँ॥७६।। नाम्ना चण्डवेगः पूर्वापराद्धो मन्त्री अन्यो वा कोऽपि संपन्नोऽथ स प्रत्यनीकस्तकं राजर्षि देह-शरीरं प्रतिछिनत्तिद्विधाकरोति / सोऽपि भगवानमृतघोषस्तथा छिद्यमानः प्रतिपन्न उत्तमार्थम्। (संथा०) (अथ 'कोसवी' त्यादिगाथा 'ललियघडा' शब्दे षष्ठभागे गता।) जलमज्झे ओगाढाज्ञ, नईऍपूरेण निम्ममसरीरा। तह विहुजलदहमज्झे, पडिवन्नो उत्तमं अटुं॥७८|| ततश्च तेषां भगवतां पादपोपगमनिकावतामकाले वृष्टिप्रादुर्भावान्नदी पूरेणायाता / नदीपूरेण च महता वहता काष्ठेशय्याऽस्य जलमध्ये ओगाढा-विक्षिप्ता / ततच निर्ममः-शरीरऽपि ममत्ववर्जितस्तथापि हु:स्फुट 'जलदहमज्झि' त्ति अकालागतनदीपूरेणोह्यमानो जलहदसमुद्रं प्रापितः / ततो जलहदमध्येऽपि उत्तमार्थ प्रतिपन्नः। अथ गाथाचतुष्टयेन संबन्धःआसी कुणालनगरे,राया नामेण वेसमणदासो। तस्स अमच्चो रिट्ठो, मिच्छादीट्ठी अहिनिविट्ठो॥७९॥ आसीद्-अभूत् कुणालनगरे-उज्जयिन्यामित्यर्थः, राजा नाम्ना वैश्रमणदासः / तस्य राज्ञः अमात्यो-मन्त्री रिष्टोरिष्टाभिधानः मिथ्यादृष्टिर्जिनशासन प्रत्यनीकः अभिनिविष्टःसर्वज्ञमतं प्रति द्वषवान् समभूदित्यर्थः। तत्थ य मुणिवरवसभो, गणिपिडगधरो तहऽऽसि आयरियो। नामेण उसभसेणो, सुयसागरपारगोधीरो।।८०| तत्र-तस्यामुजयिन्यां मुनिवरवृषभः प्रधानाचार्यः गणिपिटकधरो द्वादशाङ्ग धारी, तथा आसीदाचार्यः नाम्ना 'उसभसेण' त्ति-वृषभसेनः श्रुतसागरपारगः-सर्वश्रुताम्भोधितीरगामी धीर:-परीषहसहनसमर्थः / तस्साऽऽसी य गणहरो, नाणासुत्तत्थगहियपेयालो। नामेण सीहसेणो, वाएण पराजिओ रिहो।।१।। तस्य शिष्य आसीद्गणधरः आचार्यः, नानासूत्रार्थगृहीतपेयालःअनेकसूत्रार्थपरिज्ञातविचारः नाम्ना सिंहसेनः, तेन च 'वारण' ति वादेनस्वदर्शनस्थापनलक्षणेन पराजितःपराभग्रः रिष्टः-रिष्टामात्यो यादे उपस्थितः सन्नित्यर्थः। अह सो निराणुकंपो, अग्गिं दाऊण सुविहियपसंते। सो वितह डज्झमाणो, पडिवन्नो उत्तम अटुं॥२॥ अथ स रिष्टः पापिष्ठः 'निराणुकंपो' त्ति निर्गतघृणः 'अग्गिं दाऊणं' ति अग्निवैश्वानरं दापयित्वा दत्त्वा वा सुविहितानां-साधूनां पश्यत्युपाश्रयति वेति विहितोपाश्रयः 'सुविहियपसुत्ते' त्ति पाठे सुविहितेऽप्यप्रसुप्तेऽपि दहतीत्यध्याहारः। सोऽपि सिंहसेनाचार्यस्तथा दह्यमानः प्रतिपन्न उत्तमार्थमिति। कुरुदत्तो वि कुमारो, संबलिफालि व्व अग्गिणा दड्डो। सो वितह डज्झमाणो, पडिवन्नो उत्तम अहं / / 3 / / "कुरुदत्तः” कुरुदत्तनामाऽपि इभ्यपुत्रर्षिः संबलिफालिव्व' त्ति शाल्मली वृक्षविशेषस्तस्य फालिवत्-तस्य शाखावत् अग्रिना दग्धः, सा हि निःसारत्वादग्निना झटित्येव दह्यते / सोऽपि तथा दह्यमानः प्रतिपन्न उत्तमार्थम् / अस्य भावार्थोऽपि दर्श्यते। तथाहि - "हत्थिणाउरे नयरे कुरुदत्तसुओ नाम इब्भपुत्तो, स तहारूवाणं थेराणं अंते पव्वइओ। वहुस्सुओ समणो कयाइ एगल्लविहारं पडिम पडिवन्नो / सो साएयस्स नयरस्स अदूरसामंते आगओ। विहरतो चरिमा ओगाढा पोरिसी। तत्थेव पडिमं ठिओ चच्चरे,तत्थ य एमाओ गावीओ हरियाओ तेणेहिं / तेण ओगासेण नीयाओ जाव मग्गमाणा उडिया आगया, दिवो साहू / तत्थ दुवे पंथा। पच्छा ते न जाणति कयरेण नीयाओ। ते साहुं पुच्छंतिसो भगवं न वाहरइ / तेहिं पउद्वेहिं सीसे पट्टिया पालिंबंधेऊण वियगाओ अंगारि चित्तूण सीसे छूढा / तेण भगवया सम्ममहियासियं।” ('आसी' इत्यादि गाथा 'चिलाई पुत्त' शब्दे तृतीयभागे 1162 पृष्ठ गता।) आसीगयसुकुमालो,अल्लयचम्मं वकीलयसएहि। धरणियले उव्विद्धो, तेण वि आराहियं मरणं / / 8 / / आसीद्गजसुकुमाल इभ्यपुत्रः, कुरुदत्तन्यायेन गृहीतव्रतः सकलाधीतश्रुतः एकलविहारप्रतिमाप्रतिपन्नः कायोत्सर्गस्थस्तेनैव प्रकारेण कुटिकैः पृष्टो गोगमनमार्गो न गदितवानिति गजसुकुमारस्य शरीरमाचगंवस्कीलकशतैस्ताडयित्वा धरणितले महीपीठे उद्विद्धः, तेनापि भगवता मरणमाराधितं प्राणसमाप्तिं यावच्च धर्मध्यानवान् जात इति तात्पर्यार्थः / मंखलिणा वि अरहओ, सीसा तेयस्स उग्गया दड्डा। ते वितह डज्झमाणा, पडिवन्ना उत्तम अह्र // 86|| 'मंखलिणा वित्ति-पुत्रशब्दलोपान्मङ्खलिपुत्रेणाऽपि गोशालकेन अर्हतो महावीरशिष्यौ सुनक्षत्रसर्वानुभूती 'तेयस्स उग्गय' त्ति तेजसस्तेजोलेश्याया 'उग्गया दड्ढ' त्ति उग्रतया-तीव्रतया दग्धौ भस्मीकृतौ तौ तथा दह्यमानौ प्रतिपन्नावुत्तमार्थमिति, इत्येते दृष्टान्ता बहवः प्रसिद्धा एव /