________________ संथार 160 - अभिधानराजेन्द्रः - भाग 7 संथार दंडो त्ति विस्सुयजसो, पडिमा दसधारओ ठिओ धम।। जयणाबंके नयरे, सरेहि विद्धोय सुरगीओ॥६॥ दण्ड इति नाम्ना मुनिर्विश्रुतयशा विख्यातकीर्तिः 'पडिमा दसधारड' ति तृतीयसप्तरात्रिंदिवलक्षणदशमभिक्षुप्रतिमाधारकः स्थितःप्रतिमाकायोत्सर्ग यमुनावड् ते उद्याने नगरेमथुरानाश्चि शरेणैिः विद्धः / यमुनाराजा तत्पदातिभिश्च 'सुरगीड त्ति सुरैर्देवैर्गीतस्तद्गुणगानेन। जिणवयणनिच्छियमई, निययसरीरे वि अप्पडीबद्धो। सोऽवितह विज्झमाणो, पडिवन्नो उत्तमं अट्ठ॥६१।। जिनवचने निश्चिता मतिर्यस्याऽसौ जिनवचननिश्चितमतिकः, तथा जिनकशरीरेऽपि अप्रतिबद्धः - प्रतिबन्धमुक्तः सोऽपि तथा विध्यमानोऽपि प्रतिपन्न उत्तमार्थम् / भावार्थः कथागम्यः, स चायम्"महुरा नथरी जउणावक उज्जाणं अवरेण जडणाए कुप्परो दिनो। तथा दंडो अणगारो आयावेइ। सो रायाए निंतणे दिहो, तो रोसेण असिणा सीसं छिन्नं / अन्ने भणंति-फालेहिं आहओ पच्छा सव्वेहि वि मणूसेहि कोवोदयं पइयरस आवइकाले मओ सिद्धो, देवाण महिमा करणं, समागमणं / पालएणं तस्स वि रन्नो अधिई जाया, वजेण, भासिओ सक्केण-जइ पव्वयसि तो मुच्चसि।पवयणथेराणं अंतिए अभिग्गहं गिण्हइ। जइ भिक्खागओवासंभरामि तान जिमेमि, जइ दूरे जिमिओ ता सेसगं पि विर्गिचिम। एवं किर तेण भगवया एगमवि दिवसं नाहारिय। तस्स वि दवावई दंडयरस भावावई एवं दढधम्मया कायव्वा। आसी सुकोसलरिसी, चाउम्मासस्स पारणादिवसे। ओरूहमाणोय नगे,खइओछुहियाएँवग्घीए॥६२|| आसीद्-अभूत्सुकोसलर्षिश्चातुर्मासस्य पारणकदिने 'ओरूहमाणो य नगे' त्ति पञ्चम्यर्थे सप्तमी नगादवतरन् ‘खइओ छुहियाए' त्ति क्षोभयाबुभुक्षितया व्याघ्रया। धीधणियबद्धकच्छो, पञ्चक्खाणम्मि सुछ आउत्तो। सो वितह खज्जमाणो, पडिवन्नो उत्तमं अटुं // 63 / / धृत्या-अन्तरङ्गहृदयावष्टम्भेन धनिता अत्यर्थ बद्धा कक्षाप्रतिज्ञा येन स धृतिधनितबद्धकक्षः प्रत्याख्यानेऽनशनप्रतिपत्तिरूपे सुष्टुतिशयेन युक्तः- उपयोगवान सोऽपि भगवान् तथा खाद्यमानः प्रतिपन्न उत्तमार्थम्। उज्जेणी नयरीए, अवंतिनामेण विस्सुओ आसी। पाउवगमणनिवन्नो, मुसाणमज्झेण एगते // 6 // उज्जयिन्यां नगर्यामवन्तिनाम्ना विश्रुतः “अवन्तीसुकुमार" इति ख्यात आसीत् / पादप इवोपगमनमवस्थान तेन पादपोपगमननिपन्नः सुप्तःपादपोपगमननिपन्नः 'मुसाणमज्झेण' त्ति महाकालाख्यश्मशाने 'एगते' ति निर्जनप्रदेशे। तिन्नि रयणीउ चइउं, भालुंका उट्ठिया विकडुति। सो वि तह खज्जमाणो, पडिवन्नो उत्तमं अटुं // 65 // 'तिन्नि रयणीउ' त्ति-त्रीन रजनिप्रहरान् अवयवे समुदायोपचारात् 'धइउं' त्यक्त्वा स्वशरीरमित्यध्याहारः' अथवा-च्यावयितुं क्षारयितुं रूधिरादि रात्रिंदिवं, मार्गे च गच्छतोऽति सुकुमारत्यात रूधिरस्रावत् / तद्वन्धेनाकृष्टा 'मालुंका' श्टगाली 'उट्टिया वि' त्ति उत्थिता 'कट्टतीति' कर्षयति साऽन्त्रादि। यत उक्तम् 'लोहियगंधेणं सिवा आगमण सिवा एग पायं खाइ, एक पि लूगाणि, पढमे जानुगाणि, वीए उरू, तइए पोर्ट कालगओ, विस्तरेणावश्यक-चूर्णेरवसेयम्। सोऽप्यवन्तिसुकुमारस्तथा खाद्यमानः प्रतिपन्न उत्तमार्थमिति। जल्लमलपंकधारी,आहारोसीलसंजमगुणाणं / आजीरणो य गीओ, कत्तियअज्जो सरवणम्मि॥६६|| याति लगति च जल्लो-रजोमात्रःमलः-कठिनीभूतःपङ्को-मल एव स्वेदेनार्दी भूतः जलश्च मलश्च पङ्गश्च तान निष्प्रति कर्मतया धारयतीत्येवंशीलो जलमलपङ्कधारी / पुनः किंभूतः, आधारः-स्थानं, केषां? शीलसंयमगुणानां शीलमष्टादशधा ब्रह्मचर्यम् अष्टादशसहस्रशीलाङ्गानिवा संयमः सप्तदशधा गुणाः सप्तविंशत्यनगारगुणाः। शीलं च संयमश्व गुणाश्च शीलसंयमगुणास्तेषाम् 'आजीरणो य' त्ति आजीरणव आजि-संग्राम ईरयति प्रेरयति क्षपयति जयतीति यावत्, आजीरणो राज्यावस्थायां शत्रुभिः सह श्रामण्ये कर्मभिः सहेति 'गीओ' त्ति गीतः प्रसिद्धः गीतार्थश्व 'आग्गीउ' त्ति पाठे प्राकृतत्वात् अग्ने राज्ञोऽयमाग्नेयः / यत आह- 'रोहेडगम्मि सत्ती, हओ वि कोवेण अम्मिनिवदइओ / तं वेयणमहियासिय, पडिवन्नो उत्तम अटुं' / / 1 / / कत्तियअज्जो सरवणम्मि' त्ति कार्तिकार्य इति नाम्ना सरवणसंनिवेशे यो महात्मा यात इति / रोहेडगम्मि नयरे, आहारं फासुयं गवेसंतो। कोवेण खंतिएणं, मिन्नो सत्तिप्पहारेण // 67|| स च भगवान् रोहेडकपुरे प्रासुकमाहारं गवेषयन् राज्यावस्थापरावेन केनापि क्षत्रियेण कोपेन शक्तिप्रहारेण शक्तिप्रहरणविशेषेण भिन्नोविदारितः। ततोऽनन्तरं स महर्षिः किं कृतवानित्याहएगते मणवाए, विच्छिन्ने थंडिले चयइदेह। सो वितह विज्झमाणो, पडिवन्नो उत्तमं अटुं॥६८|| एकान्ते-दुष्टपशुश्वानस्वापदस्यादिवर्जिते अनापाते धर्मध्याने व्याघातकागन्तुकजनरहिते विस्तीर्णे -पुष्कले स्थण्डिले संस्तारककरणप्रायोग्ये भूखण्डे त्यजति-मुञ्चति व्युत्सृजति स्वयमेव देह निजशरीरम् / 'चइय' इति पाठे त्यक्त्वा देहं सोऽपि महासत्त्वस्तध विध्यमानस्तेन शक्त्या ताड्यमानः प्रतिपन्न उत्तमार्थम्। 'पाडली' त्यादि गाथात्रयम् ‘धम्मसीह' शब्दे चतुर्थभागे 2734 पृष्ठे गतम्। (चाणक्यः इङ्गिनीमरणं प्रतिपन्न इति 'इंगिणीमरण शब्दे द्वितीयभागे 532 पटे गतम्।) अणुलोमपूयणाए, अहसो सत्तुंजओ डहइ देहं। सो वितह डज्झमाणो, पडिवन्नो उत्तमं अट्ठ॥७२।। अनुलोमा-अनुकूला पूजनाऽनुलोमपूजना तया अनुलोम पूजनया कृष्णागुरुप्रभृतिसुरभिधूपोत्क्षेपदाहय्याजेन गोवाटककरीषदहनतया सुबन्धुः दहति देहं शरीरम्, सोऽपि तथा दह्यमानः प्रतिपन्न उत्तमार्थम्।