________________ संथार 156 - अभिधानराजेन्द्रः - भाग 7 संथार जन्ममरणरूपं संसारमतिशयेन क्षुण्णा मग्नाः क्षुप्ता वा संसारसागरे बुडिता इत्यर्थः। पच्छा विते पयावा, खिप्पं काहिंति अप्पणो पत्थं। जे पच्छिमम्मि काले, मरंति संथारमारूढा // 51 // पश्चादपि पर्यन्तसमयेऽपि उद्यतविहारितया “सेलकवत्" उद्यत-मरणेन "अर्हन्नकवत्" साधवः पूर्व-प्रथममेव वा पुण्डरीकगजसुकुमालवदुद्यतविहारेण पूर्व वा उद्यतमरणेनावन्तीसुकुमारववत् / अथवा- 'पयावा' इति-प्रपाताद्वा स्वदोषनिन्दागर्हालक्षणात् क्षिप्रंशीघ्र करिष्यन्ति आत्मनः पथ्यं-हितम् / के ते आत्मनो हितं विधास्यन्तीत्याह'पच्छिमम्मि'त्ति ये पश्चिमेऽपि काले 'मरन्ति' त्ति मियन्ते संस्तारकारूढाः सन्तो विहितानशना इत्यर्थः। अथ दीदृशो वाऽवकाशे संस्तारकः कर्तव्य इति प्रश्न स्य निर्वचनमाहन विकारणं तणमओ, संथारो न वियफासुया भूमी। अप्पा खलु संथारो, हवइ विसुद्धो चरित्तम्मि॥५२॥ नापि-नैव कारण-निमित्तं तृणमयः संस्तारकः पर्यन्ताराधनस्थकारणं / नापि प्रासुका निरया भूमिः तर्हि किंनिमित्तमित्याह- 'अप्पा खलु' तिआत्मा खलु-निश्चयेन संस्तारको भवति विशुद्धो निर्मलः 'चरित्तम्मि' त्ति-चारित्रे निर्मले, निरतिचारे इत्यर्थः।। अथ कीदृशस्य कस्मिन् काले इत्युभयनिर्वचनमाहनिचं ति तस्स भावु-ज्जुयस्स जत्थ व जहिं व संथारो। जो होइ अहक्खाया, विहारमन्भुञ्जओ लुक्खो॥५३।। नित्यं-सर्वदा तस्य-क्षपकस्य 'भावुज्जुयस्स' ति भावतो निर्मायस्याऽप्रमादिनः कृतालोचनस्य जत्थव' त्ति यत्रैव क्षेत्रे ग्रामननगरादौ, यत आह "चक्खुयजोगाणं पुण, मुणीण झाणे सुनिचलमणाणं / गामम्मि जणाइन्ने, सुन्नेऽरन्नम्मि न विसेसो॥१॥" 'जहिं वत्ति यस्मिन्वा काले दिवसनिशादी हेमन्तग्रीष्मादौ वा, यदाह- 'काले वि सो चिय जहिं, जोगसमाहाणमुत्तमं लहइ / न तु दिवसनिसावेला, इ (इ) नियमणं झाइणो भणियं / / 1 / / ' अथवा- 'जहिं' ति दर्भतृणकुसुमशिलातलतूलिकादौ यो भवति 'अहक्खाय' त्ति यथा च जिनवचनप्ररूपकः 'विहारमभुजओ' त्ति विहारमुद्यत-विहारं द्वादशसांवत्सरिकमभ्युद्यतः कृतसंलेखनः, अत एव कृतसंलेखनात्वा द्रूक्षः क्षीणधातुत्वादस्थिचविनद्धशरीरो, भावतः कषायपरिहारेण इति; द्रव्यतः क्षेत्रतः कालतो भावतश्च क्षेपकस्य शुद्धिरुक्ता। अथ यथाविधि तपो विधाय यस्मिन् काले संस्तारको विधेय इति तमाहबासारत्तम्मि तवं, चित्तविचित्ताइ सुलु काऊणं! हेमंते संथारं, आरूहई सव्वऽवत्थासु // 54 // पूर्व तावद्गुरुमनुज्ञाप्य"वत्तारि विचित्ताई, विगई निज्जूहियाइ चत्तारि। संवच्छरे य दुन्नी, एगंतरियं च आयाम।।१।। नाऽइविसिट्ठोय तवो, छम्मासे परिमियं च आया। अन्ने विय छम्से , होइ विगिट्ट तवोक्कम्मं // 2 // वीस कोडीसहिय, आयाम कटुटु आणुपुव्वीए। मिरिकंदरनवर्गतु, पाउवगमणं अह करेइ॥३॥" वर्षाकाले रात्री तपश्चित्रविचित्रादिकं 'सुटु' ति सुष्टुतिशयेन कृत्वा हेमन्तशीतकालादौ संस्तारकः कर्त्तव्यो निरापदि आयुषि च पूर्यमाणे आपदि चतुष्पदायुवि वा 'आरूहई' आरोहति करोति संस्तारक सर्वास्ववस्थास्विति गाथार्थः। अथ कैः कैरभ्युद्यतमरणविधिर्विहित इति तान् द्वात्रिंशता गाथाकलापेनाहआसीय पोयणपुरे, अज्जा नामेण पुप्फचूल त्ति। तीसे धम्मायरिओ, पविस्सुओ अन्नियापुत्तो॥५५।। 'गंगाए तडे पुप्फभव नाम नयरमि' त्यावश्यकचूर्णिः / इद पुनस्तस्यैव नामान्तर संभाव्यते / आसीत्पोतनपुरे आर्थिका पुष्पचूलेति, तस्या धर्माचार्यः-धर्मगुरुः प्रकर्षेण विश्रुतः प्रविश्रुतो विख्यातः अन्निकापुत्रः सूरिरिति। सो गंगमुत्तरंतो,सरसा उस्सारिओय नावाए। पडिवन्नों उत्तमहें, तेण वि आराहियं मरणं / / 56 / अन्यदाऽभिनवदीक्षितायाः पुष्पचूलायाः केवलोत्पत्तावात्मानं निन्दन तया भणितो भगवतामपि गङ्गामुत्तरतां केवलमुत्पत्स्यते, ततोऽसौ झटित्येव गङ्गायां नावमारूढः / तत्र च नगराधिष्ठातृदेवता सूरिभक्ता। नदीदेवता तु तस्याः प्रत्यनीका / तया चिन्तित-मदीयवैरिण्या गुरुरयं मारयितव्यः इति चिन्तयन्ती एवं विधत्ते, "जेणं जेणं पासेणं विलग्गति तं बुडइ सा मज्झे ठिओ सव्वा पाणी वुड्डइ तेहिं नाविएहि पाणीए छूढो देवयाए तिसूलेण विद्धा. नाणं उत्पन्न देवेहिं महिमा कया पयाग ति तत्थ जायं तित्थं / " संपूर्ण-कथा आवश्यकचूर्णितो ज्ञेया। अधुनाऽक्षरयोजना-स गङ्गामुत्तरन् सहसा तत्क्षणादेव नाविकेनाचार्य उत्सारितः, पातितः, प्रतिपन्न उत्तमार्थ , तेनापि मरणमाराधितम्।। पंचमहव्वयकलिया, पंच सया अज्जिया सुपुरिसाणं। नयरम्मि कुंभकारे, करगम्मि निवेसिया तइया / / 57 / / पञ्चमहाव्रतकलितानि पशशतानि 'अज्जिय' त्ति प्राकृतत्यादर्दितानिपीडितानि प्राकृतत्वादेव वा अर्जितानि रागादिभिः सत्पुरुषाणां 'नयरम्मि' कुभकारोपकारस्य लाक्षिणिकत्वात् नगरे कुम्भकारे कटके 'निवेसिय'त्ति निवेशितानि 'जतम्मि' त्ति अग्रेतनगाथायां संबन्धः, यन्त्रेघ्राणके। एगूण पंच सया, वाएण पराजिएण रूटेणं / जंतम्मि पावमइणा, छुन्नाछुन्ना अणुकमेणं // 58|| एकोनानि पञ्च शतानि स्कन्दकाचार्यशिष्याणां, वादे पराजितेन रुष्टेन कलकाभिधद्विजातिना पापमतिना क्षुण्णाक्षुण्णाः पिष्टाः अनुक्रमेणपरिपाट्या। निम्मम निरहंकारा, निययसरीरे वि अप्पडीबद्धा। ते वि तह छुज्जमाणा, पडिवन्ना उत्तमं अट्ठ / / 5 / / निर्ममा-ममत्वरहिताः निर्गताहंकारा:-निजदेहेऽप्यप्रतिबद्धाःप्रतिबन्धरहिताः तेऽपि, तथा-तेनैव प्रकारेण 'छुञ्जमाण' ति क्षुद्यमानापीड्यमनाः प्रतिपन्ना उत्तमार्थमिति।