________________ संथार 151 - अभिधानराजेन्द्रः - भाग 7 संथार तं जले च वृद्धिमुपगतं न पङ्केन लिप्यते नापि जलेन, किं तु जलोपरिवत्येव भवति एवमर्होऽपि तीर्थंकरः कामैर्जातो भोगवृद्धिमुपगतो न कामर्लिप्तो नापि भोगैः, किं तु त्रिभुवनोपर्येव जातः / पुण्डरीकमातपत्रं पुरुषवराणा पुण्डरीकमिव-आतपत्रमिव तद्धि आतपं निवारयति, अहोऽपि कतिपनिवारणसमर्थत्वात्तेनोपमीयते। यदि वा-पुण्डरीकश्वित्रकः पुरुषवराणां मध्ये पुण्डरीक इव। यथा स केनापि पशुजातीयन न पराभूयते एवमोऽपि त्रिषष्ट्यधिकैस्विभिःपाषण्डिकशतेन न कदापि पराभूयत इति / यथाऽर्हः सर्वोत्तमस्तथा संस्तारकोऽपीति महिलाण भगवईओ' ति यथा महिलानां मध्ये भगवत्यः पूज्या जिनजनन्या जिनमातररित्रभुवनस्यापि चतुःषष्टरपीन्द्राणां पूज्यत्वात् सत्यत्वाच सर्वोत्तमा जगति-त्रिभुवने तथाऽयमिति। वंसाणं जिणवंसो, सव्वकुलाणंच सावयकुलाई। सिद्धिगईव गईणं, मुत्तिसुहं सव्वसोक्खाणं |6|| वंशानाम-अन्वयाना मध्ये यथा जिनवंशः प्रधान तथा सर्वकुलानामुग्रादिकुलानां मध्ये श्रावककुलं प्रधानं धर्मस्य मूलबीजत्वात, तथा सर्वगतीनां नारकतिर्यग्नरामरलक्षणानां मन्ये सर्वश्रेष्ठा सिद्धिगतिः पुनरागमनाभावात् तथा-मुक्तिसुखं-सिद्धिसुखं सर्वसुखाना संसारिकाणांमध्ये साद्यपर्यवसित्वादुत्तमम् / यदाह (औ०)"न वि अस्थि माणुसाण, तं सुक्खं नो य सव्वदेवाणं। जं सिद्धाणं सोक्खं, अच्वावाहं उवगयाणं / / 13 / / तत्थ य जरजम्मणे सा. रोगॅसोगॅतन्हाछुहाइयविमुक्को। साइअपज्जवसाण, कालमणंत सुहं लहई।।१॥" यथा तत प्रधान तथाऽयमपि। धम्माणं व अहिंसा, जणवयवयणाणसाहुवयणाणि। जिणवयणं वसुईणं,सुद्धीणं दंसणं व जहा / / 7 / / यथा धर्माणां दानादीनांमध्ये अहिंसा रक्षा त्रसस्थावरजीवानामुत्तमा यतस्तां विनान्योऽप्रमाणमेव / उक्त च"न तद्दानं न त्द्ध्यान न तज्ज्ञानं न तत्तपः। नसा दीक्षा न सा भिक्षा, दया यत्र न विद्यते / / 1 / / " तथा हारिभद्राष्टके"अहिंसैका मना मुख्या, स्वर्गमोक्षप्रसाधनी। अस्याः संरक्षणार्थ च, न्याय्य सत्यादिपालनम्।।५।" (अस्य व्याख्या अहिंसा शब्द) किंच"एक चिय इत्थ वयं, निद्दिट्ट जिणवरेहि सव्वेहि। पाणइवायविरमण-मक्सेसा तस्स रक्खट्ठा / / 3 / / किं ताए पढिआए, पयकोडीए पलालभूयाए। जत्थित्तियं न नायं, परस्स पीडान कायव्वा॥४॥" इति। यथा सर्वधर्माणामहिंसा तथाऽयमिति 'जणवयवयणाण साहुवयणाणि' त्ति जनपदवचनाना मध्ये यथा साधुवचनानि असत्यसत्यामृषावचनपरित्यागेन सत्यासत्यामृषारूपाणि निर्दोषाणि। यत आह (विशेषावश्यके)“सचा हिय सवामिह, संतो मुणओ गुणा पयत्था वा। तविवरीता मोसा, मीसा जा तदुभयसहावा / / 375 / / अणहिगया जा तिसु विति, सद्दो चिय केवली असचमुसा। एया सभेयलक्खण, सोदाहरणा मुणेयव्वा / / 376 / / तत्र सत्या दशप्रकारा दर्शाते"जणव य 1 समय 2 ठवणा 3, नामे 4 रूवे 5 पडुच्च सच्चे य६ ववहार 7 भाव 8 जोगे, वसमे ओवम्म 10 सच्चे य॥१॥" (प्रज्ञा० 11 पद 165 सूत्र) तत्र जनपदसत्यं यथा उदकार्थे कोकणादिदेशरूढ्या पय इति वचनम् 1, सम्मतसत्यं यथा-समानेऽपि पड़ संभवे गोपालादीनामपि समतत्वेनारविन्दमेय पङ्कजमुच्यते न कुवलयादीनि 2, स्थापनासत्यजिनप्रतिमादिषु जिनादिव्यपदेशः३, नामसत्यं यथाकुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते ४,रूपसत्यं यथा भावतोऽश्रमणोऽपि तदूपधारी श्रमण इत्युच्य 5, प्रतीतसत्यं यथा अनामिका कनिष्ठा प्रतीत्य दीर्घत्युच्यते, सेव मध्यमा प्रतीत्य ह्रस्वेति 6, व्यवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहारादिरिदह्यत इति 7, भावसत्यं यथा सत्यपि पश्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात् शुक्ला वलाकेति योगसत्यं यथा दण्डयोगाद्दण्डी इत्यादि उपमासत्यं यथा समुद्रवत्तडाग इत्यादि 10. असत्यभाषाभेदाः 10 'कोहे १माणे 2 माया 3, लोभे 4 पिज्जे 5 तहेव दोसे य 6 / हास 7 भए 8 अक्खाइय 6, उवघाइय 6 निस्सिए 10 दसमा॥१॥' (प्रज्ञा० 11 पद 165 सूत्र) क्रोधनिश्रिताक्रोधाभिभूतोऽदासमपि दासं भणति 1, माननिश्रिता-अल्पधनोऽपि पृष्टः सन्नात्मोत्कर्षणाननुभूतमपि विभवादि अनुभूतमिति प्रकाशयति 2 मायानिश्रिता परस्य वञ्चनार्थ नात्रकाणि योजयति कूटक्रयं कथयति, स्यकीय क्रयाणक प्रशंसयति, परकीयं निन्दति, इन्द्रजालिकवेशकरो दृष्टि संबध्नाति 3 लोभनिश्रिता लुब्धनन्दस्येव सुवर्णमपि लोह भणतः अज्ञानां दायकानां रत्नमपि पाषाणं कर्पूरमपि लवर्ण पट्टसूत्रमपि सण इति भणति 4 प्रेमनिश्रिता- 'अइपमेण दोसेण हतब्वें'ति 5 दोषनिश्रितःतीर्थकरादीनामपि निन्दा करोति 6 हास्यनिश्रितःहास्येन सार्थवाहमकालगतमपि सार्थवाहिन्या अग्रतः कालगतः इति भणति 7 भयनिश्रिता स्वामिनमस्क रादि भयेन कर्मकरोऽहमिति प्राघू - र्णकोऽहमिति वा वदति,राजपुरुषगृहीतचोरो वा वदति नाहं चौरो यथा रोहिणेयः 8 आख्यायिका-कल्पितकथा धूख्यिायिका कमण्डलुमध्ये षण्मासानगतो दिगम्बरः पश्चाद्धस्ती इत्यादि उपघातनिश्रिता अचौरमपि चौर भणति एते छत्रिणो गच्छन्ति महाराजकत्वादिति ब्राह्मणो न हन्तव्यः, गौरवध्या, शेषजीवान-पत्त्या घातयति, सर्वजीवा न हन्तव्या इति वक्तव्यम्, 10 सत्यासत्यभाषाभेदाः 10 “उप्पन्न 1 विगय 2 मीसित, 3 जीव 4 मजीवे यजीअजीवे य 6 / तह मीसगा अणंता 7, परित 8 अद्धा य ह अवता 10" ||1 // (प्रज्ञा० 11 पद 165 सूत्र) उत्पन्न मिश्रा यथा व्यवहारे कस्यचित्समुत्पन्नं द्वितीयो वदतिअनेन पञ्चशता-नि विटिपितानि, एवं दश दारका जाता इत्यादि 1 विगत मिश्रे मार्ग स्तोकेऽपि व्यतीते बहुतरं गतमिति 2 उत्पन्नविगतमिश्रा-अमुकपुरे यथा दश दारका जाता दश चतुर्दा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे 3 'जीवमीसए त्ति-अजीवजीवमिश्रंयथा तस्मिन्नेव कृमिराशौच जी