________________ संति 144 - अभिधानराजेन्द्रः- भाग 7 संति गतः / अमिततेजः श्रीविजयाभ्यां ससैन्याभ्यां गत्वा तन्नगरं वेष्टितमशनिघोषान्तिके दूतः प्रेषितः तयोरागमनं श्रुत्वाऽशनिघोषो नष्टः उत्पन्न केवलस्य अचलस्य समीपे गतः / अमिततेजःश्रीविजयावपि | ततपृष्ठतस्तत्रायातौ, सर्वेऽपि गतमत्सरा धर्म शृण्वन्ति। एकेन अमिततेजोविद्याधरण सुताराऽपि तत्रानीता। लब्धावसरेणाशनिघोषेण भणित न मया दुष्टभावेन सुतारा अपहृता किं तु विद्यां साधयित्वा गच्छता मया इयं दृष्टा, पूर्वस्नेहेन इमां त्यक्तुं न शक्नोमीति वैतालिन्या विद्यया श्रीविजय मोहयित्वा सुतारा गृहीत्वा स्वनगरे गतः / नास्याः शीलभङ्गमकार्ष तथापि ममात्राथै योऽपराधः स क्षन्तव्य इत्याकर्ण्य अमिततेजसा भणितम् -भगवन् ! किं पुनः कारणमेतस्य अस्यां स्नेहोऽभूत् / ततोऽचलकेवली कथयति-मगधदेशेऽचलग्रामे धरणीजको नाम विप्रस्तस्य कपिला नाम चेटी तस्याः पुत्रः कपिलो नाम, तेन कर्णश्रवणमात्रेण विद्या शिक्षिता, गतश्च देशान्तरे "रत्नपुरं" नाम नगरम। तत्र कस्यचिदु-पाध्यायस्य मठे गतःउपाध्यायेन पृष्टःकस्त्वम् ?, कुत आगतः?, कपिलेनोक्तमचलग्रामे धरणीजढविप्रसुतः कपिलनामाऽहं विद्यार्थी अत्रायातस्तव समीपमिति / उपाध्यायेन स बहुमान स्वगृहे रक्षितः, विद्यामध्याप्य स्वपुत्री तस्य दत्ता सत्यभामा नाम्नी। अन्यदा वर्षाकाले स कपिलो रात्रौ स्ववस्त्राणि कक्षायां कृत्वा वर्षत्येव मेघे स्वगृहद्वारे समायातः। सत्यभामा च अयं स्तिमितवस्त्रो भविष्यतीति चिन्तयन्ती अपराणि वरवाणि गृहीत्वा गृहद्वारे सन्मुखमायाता / कपिलेन तस्या उक्तम. अस्ति मम प्रभावो येन वस्त्राणि न स्तिम्यन्ति. तावता विद्युत्प्रकाशे तया स नग्नो दृष्टः / ज्ञातं चायं नग्न एव समायातो वस्त्राणि कक्षायां च निहितवानित्यवश्यमयं हीनकुल इति सा कपिले मन्दस्नेहा जाता। अन्यदा धरणिजढो विप्रस्तत्र कपिलसमीपे समायातः,सत्यभामा च पितापुत्रयोर्विरूद्धमाचारं दृष्ट्वा परमार्थ पृष्टोधरणिजढविप्रः / तेन यथार्थ कथितं तच्छुत्वोद्विग्ना सत्यभामा कामभोगेभ्यो निर्विण्णा प्रव्रज्याग्रहणनिमित्तं पृष्ठः कपिलः, न मुञ्चत्येष कपिलः तदा इयं गता तन्निवासिश्रीषेणराजसमीपं बभाण च / भो राजन् ! मां कपिलसमीयान्मोचय, येनाहं दीक्षां गृह्णामि / राज्ञा कपिल-स्योक्तम्, कपिलो न मन्यते / राज्ञा पुनस्तस्या उक्तं, तावत् त्वं मम गृहे तिष्ठ यावत् कपिल बोधयामीति। अन्यदा स राजा स्वपुत्रौ गणिकानिमित्तं युध्यमानौ दृष्ट्वा वैराग्येण विष भक्षितवान् / ततः सिंहनन्दिताऽभिनन्दितानाम्न्यौ श्रीषेणनृपस्य भार्ये कपिलस्य भार्या सत्यभामा च विषप्रयोगेण कालं गताः / चत्वारोऽप्यमी जीवा देवकुरुषु युगलत्वेनोत्पन्नाः। ततः सौधर्मे कल्पे गताः। ततश्च्युत्वा श्रीषणजीवोऽमिततेजा जातः / अभिनन्दिता जीवः श्रीविजयो जातः, सत्यभामा जीवः सुतारा जाता, स कपिलजीवस्तिर्यग्भवेषु चिरकालं भ्रान्त्वा क्वचित्तथाविधमनुष्ठानं कृत्वाऽशनिघोषः समुत्पन्नः सुतारां च सत्यभामाबाह्मणीजीवं दृष्ट्वा पूर्वस्नेहेन अपहृत्य गतः। पुनरप्यमिततेजसा पृष्ट भगवन्नह किं भविको न वा? अचलकेवलिना कथितं त्वम्? भविकः, इतच नवमे भवे तीर्थकरो भविष्यसि, एषोऽपि श्रीविजयस्तव गणधरो भविष्यति / तत एतदाकामिततेजः श्रीविजयनृपी अचलकेवलिन | वन्दित्वा गतौ स्वस्वस्थानम् / अन्यदा अमिततेजःश्रीविजयाभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वा उक्तम्- यथा षड्विंशतिदिनानि भवतोयोरप्यायुः ततस्ताभ्यां मेरौ गत्वा कृतोऽष्टाहिकामहोत्सवः स्वस्वराज्ये च गत्वा स्वस्वपुत्रौ अभिषिच्य जगन्नन्दनमुनिसमीपे संयममादाय पादपोपगमनमनशनं च विहितम्। विधिना काल कृत्वा प्राणते कल्पे विंशतिसागरोपमायुर्वेदवत्वेनोत्पन्नौ ततश्च्युतौ इहैव जम्बूद्वीपे पूर्वविदेहे रमणीविजये शीताया महानद्या दक्षिणकूले सुभगायां नगर्या प्रेमसागरस्य राज्ञो वसुन्धराऽनङ्ग सुन्दर्योर्महाग क्रमेण कुमारत्वेनोत्पन्नौ अमिततेजोजीवोऽपराजितनामा, श्रीविजयजीवोऽनन्तवीर्यनामा जातः / तत्रापि प्रतिशत्रुरिदमिता व्यापाद्य क्रमेण बलदेव वासुदेवत्वमापन्नौ। तयोश्च पिता प्रव्रज्याविधानेन मृत्वाऽसुरकुमारेन्द्रत्वेनोत्पन्नः। अनन्तवीर्यस्तु कालं कृत्वा द्विचत्वारिंशत्सहरत्रवर्षायुनारक: प्रथमपृथिव्यामुत्पन्नः, चमरश्च पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार / सोऽपि संविग्नः सम्यक् सहते। अपराजितो बलदेवो भ्रातृविरहदुःखितो निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्क्रान्तः / शुद्धा प्रवज्यां परिपाल्य अच्युतेन्द्रत्वेनोत्पन्नः। अनन्तवीर्यस्तु, नरकादुदवृत्य वैताढये विद्या-धरत्वेनोत्पन्नः अच्युक्तेन्द्रेण प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पे इन्द्रः सामानिकत्वेनोत्पन्नः / अपराजितोऽच्युतेन्द्रस्ततश्च्युक्त्वा इहैव जम्बूद्वीपे शीतामहानदीदक्षिणकूले मङ्गलावतीविजये रत्नसंचयापुर्या क्षेमंकरो राजा; तस्य भार्या रत्नमाला, तयोः पुत्रो वज्रायुधाभिधानो जातः / इतश्च श्रीविजयजीवो देवापुरप्रतिष्ठितम्। अन्यदा पौषधशालायां स्थितो वज्रायुधो देवेन्द्रेण प्रशंसितः, यथाऽयं वज्रायुधो धर्माचालयितुं न शक्यते देवैर्दानवैश्च / तत एको देवस्तद्वाक्यमश्रद्दधानः पारापतरूप विक-य॑ भयभ्रान्तो वज्रायुधमाश्रितः। हे वज्रायुध ! तव शरणं ममास्तु इति मनुष्यभाषयोवाच / वज्रायुधेन तस्य शरणं दत्तम्, स्थितस्तदन्तिके पारापतः। तदनन्तरं तवैवागतो लावकः / तेनापि भणितम्-यथा महासत्त्व ! एष मया क्षुधाक्लान्तेन प्राप्तः, ततो मुञ्चैनमन्यथा नास्ति मम जीवितमिति / ततस्तद्ववनमाकर्ण्य वज्रायुधेन भणित न युक्तं शरणागतसमर्पणम्। तवापि न युक्तमेतत्, यतः"हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं / अप्पाणं दिवसराणं, क एस नासेइ अप्पाणं / / 1 / " यथा जीवितं तव प्रियं सर्वेषामपि जीवानां तथैवास्ति, एनं भयभ्रान्तं दीनं व्यापादयितुं तव न युक्तमाधर्म्म कुरु। पापं मुञ्च / लावकः प्रतिभणतिराजन्नह बुभुक्षितः न मे मनसि धर्मस्तिष्ठति / ततः पुनरपि भणितं राज्ञा-भो महासत्त्व ! यदि बुभुक्षितस्त्वं ततोऽन्यत्तव मांसं ददामि। लावकः प्रतिभणति-स्वयं व्यापादितजीयमांसाश्यस्म्यहं न च रोचते मां परव्यापादितमासम् / राज्ञा भणितम्यावन्मात्रेण पारापतस्तुलति तावन्मात्र मांसं ददामि / सोऽप्यवदत यदि त्वं स्वदेहादुत्कीर्य मांस ददासि तदाऽहं मुशामि तदाज्ञा प्रतिपन्नं ततस्तुष्टो लावकः / राज्ञा च तुला आनायिता एकस्मिन पायें पारापतः प्रक्षिप्तः, एकस्मिन्पार्श्वे स्वदेहादुत्कीर्णमांसारोपो वि 18