________________ संति 143 - अभिधानराजेन्द्रः - भाग 7 संति प्रासिकारणत्वात तस्य आचा०१ श्रु०१ अ०७ उ० / अशेषकर्मापगमेमोक्षे, आचा०१ श्रु०२ अ०४ उ० / मिथ्यात्वादिदावालनविध्मापनात सामायिके, आ०म०१ अ०। शान्तियोगात्तदात्मकत्वात कर्तृकत्वाद्वा शान्तिरिति / तथा गर्भस्थे पूर्वोत्पन्ना शिवशान्तिरभूदिति शान्तिः / ध० 2 अधि० / आ०म० / भरते वर्षे वर्तमानावसर्पिण्या जाते षोडशे तीर्थंकरे. आ०चू. 1 अ०। इदानीं शान्यात्मकत्वात् शान्तिः तत्र सर्व एव तीर्थकृत एवं रूपा अतो विशेषमाहजातो असिवोवसमो, गब्भगते तेण संति जिणो।। पूर्व महदशिवभासीत् भगवति तु गर्भगते जातः अशिवोपशमस्तेन कारणेन शान्तिजिनः। आ०म०२ अ०। अनु० / प्रव०। ति०। आ०चूल। राः / “रमरणं यस्य सत्त्वाना, तीव्रपापौघशान्तये / उत्कृष्टगुणरूपाय, तरमै श्रीशान्तय नमः / / 1 / / " श्रा०। ('तित्थयर' शब्दे चतुर्थभागे सम्पूर्णोऽधिकार उक्तः।) चइत्ता भारहं वासं,चक्कवट्टी महड्डिओ। सन्ती संतिकरेलोए, पत्तो गइमणुत्तरं॥३८|| पुनः शान्तिः शान्तिनाथः प्रस्तावात्पञ्चमश्चक्री अनुत्तरागतिं प्राप्तः मोक्ष प्राप्तः / कथम्भूतः शान्तिः? लोके शान्तिकरः शान्तिं करोतीति शान्तिकरः इति विशेषणेन तीर्थङ्करत्वं प्रतिपादितं षोडशस्तीर्थकरः शान्तिनाथो, मोक्षं जगाम इत्यर्थः / किं कृत्वा भारत वासं त्यक्त्वा भरतस्य इदं भारतं भरतक्षेत्रसंपन्धि वासम् इति-राज्यवासम्। कीदृशः शान्तिः? चक्रवर्ती महर्द्धिकः इत्यनेन शान्तेश्चक्रवर्तित्वं तीर्थकरत्वं च प्रतिपादितम् / / 3 / / अत्र शान्तिनाथदृष्टान्तःइहैव जम्बूद्वीपे भरतक्षेत्रे वैताढ्यपर्वते रयनू पुरचक्रवालं नाम नगरमस्ति / तत्र राजा अमिततेजा परिवसति / तस्य सुतारा नानी भागिनी वर्तते। सा च पोतनाऽधिपतिना श्रीविजयराजेन परिणीता / अन्यदाऽमिततेजोराजः पोतनपुरे श्रीविजयसुतारादर्शनार्थ गतः / प्रेक्षते च प्रमुदितमुच्छ्रितपताकं सर्वमपि पुरं विशेषतश्च राजकुलम्। ततो विस्मितलोचनोऽमित-तेजोराजो गगनतलादुत्तीर्ण : गतश्व राजभवनमभ्युत्थानादिसत्कृतः श्रीविजयेन कृतमुचितं करणीयमुपविष्टः सिंहारानेऽमित-तेजोराजः पप्रच्छ नगरोत्सवकारणम्। यतः श्रीविजय एव प्राह-यथा इतोऽष्टमे दिवसे मदन्तिके एको नैमित्तकः समायातः, मदनुज्ञाते सिंहासने उपविष्टः पृष्टश्च मया किमागमनप्रयोजनम्? तास्तेन भणितं महाराज ! मया निमित्तभवलोकितं यथा पोतनाधिपतेरूपरि इतो दिवसात्सप्तमे दिवसे मध्याह्नसमये विद्युत्पतिष्यति। इदं च कर्णकटुकं वचः श्रुत्वा मन्त्रिणाभणितंतदानीं तवो-परिक पतिष्यति? तेनोक्तं मा कुप्यत यथा मयोपलब्ध नितित्तं तथा भवता ततोऽहं प्राप्तयो वनः पूर्वदतकन्याया भ्रातृभिरूत्प्रवाजितः कर्मपरिणतिवशेन सा मया परिणीता / तेन मया सर्वज्ञप्रणीतनिमित्तानुसारेण प्रला कितम यथा-सप्तमं दिवसे पोतनाधिपतेरूपरि विद्युत्पातो भविष्यति / एवं तेन नैमित्तिकेनोक्ते एकेन मन्त्रिणा भणितम्-यथा महाराज ! समुद्रमध्ये वाहनान्तर्भवद्भिः सप्तदिवसात् यावत् स्थेयम्, तत्र विद्युन्नपरा भवति / अन्येन मन्त्रिणा भणित-दैवयोगोऽन्यथा कर्तुन तीर्यते,यत उक्तम-"धारिजइ इन्तो सागरो विकल्लोलभिन्नकुलसेलो। न हुअन्नजम्मनिम्मिअ-सुहासुहो कम्मपरिणामो" ||1|| अपरेण मन्त्रिणा भणितम्-पोतनाधिपतेर्वधोऽनेन समादिष्टो नपुनः श्रीविजयराजस्य ततः सप्तमदिवसात यावदपरः कोऽपि पोतनाधिपतिर्विधीयते, सरप्युक्तमयमुपायः साधुः मयोक्तं गज्जीवितरक्षाकृतेऽपरजीववधः कथं क्रियते सर्वरुक्तं तर्हि यक्षप्रतिमाया राज्याभिषेकः क्रियते, एवं मन्त्रयित्वा सरपि यक्षप्रतिमा पोतनपुरराज्येऽभिषिक्ता, सप्तदिवसान्यावत् मया पौषधागारे गत्वा पौषधा एव कृताः। सप्तमदिवसमध्याह्नसमये गगनमार्गेऽकस्मान् मेघः समुत्पन्नः, स्फुरिता विद्युल्लता, इतस्ततः परिभ्रम्य यक्षप्रतिमा विनाशिता, अष्टमे दिवसे चाहं पौषधशालातो निर्गत्य क्षेमेण स्वभवने समायातः, तं नैमित्तिक कनकरत्नादिभिः पूजितवान: पुनरह नागरिकैः पोतनराज्ये अभिषिक्तः, तदिदमस्मिन्नगरे विविधमहोत्सवकारणमिति श्रीविजयेनोक्तेऽमिततेजाः प्राह- अविसम्बादनिमित्तं शोभनो रक्षणोपाय इत्युक्त्वा अमिततेजोराजःस्वस्थानं गतवान् / अन्यदा श्रीविजयराजः सुतारया समं वने रन्तुं गतः सुतारया तत्र कनकमृगा दृष्टः श्रीविजयस्योक्तं स्वामिन् ! ममैनं मृगमानीय देहि। मम क्रीडार्थ भवष्यिति। ततः श्रीविजयराजा तद्ग्रहणार्थ स्वयमेव प्रधावितो, नष्टो मृगस्तत्पृष्टि राजा न त्यजति कियन्ती भुवं गत्वा उत्पतितो मृगः, तावता सुतारा कुर्कुटसर्पण दष्टा पूचकार। अहं कुर्कुटसर्पण दष्टा हा प्रिय ! मां त्रायस्वेति श्रुत्वा श्रीविजयस्त्वरित पश्चादायातः तावता सुतारा पञ्चत्वमुपागता। राजा च शोक-परवसस्तया समं चितायां प्रविष्टः उद्दीप्तो ज्वलनः ताक्ता स्तोकवेलायां समागतौ द्वौ विद्याधरौ / तत्र एकेन सलिलमभिमन्त्र्य चिता सिक्ता वैतालिनी विद्या नष्टा, राजा स्वस्थो जातो बभाण च-किमिदमिति?, विद्याधराभ्यां भणितमावाममिततेजसः स्वकीयो जिनवन्दन-निमित्तमाकाशमार्गे भ्रमन्ती अशनिघोषविद्याधरणापहियमाणायाः सुतारायाः आक्रन्दशब्दं श्रुतवन्तौ तन्मोचनार्थमावाभ्या युवमारब्धम्। ततः सुतारया च प्रोक्तमलं युद्धेन यथा महाराजः श्रीविजयो वैतालिनीविद्यामोहितो जीवितं न परित्यजति तथा तदुद्याने गत्वा शीघ्रं कुरुताम् / तत आवामिहायाती दृष्टस्त्वं वैतालिन्या सम चितारूढः / अभिमन्त्र्य जलेन सिक्ता चिता नष्टा सा दुष्टवैतालिनी। स्वस्थावस्थस्त्वमुत्थित इति। अपह्रता सुतारां ज्ञात्वा विषण्णः श्रीविजयो राजा भणितश्च ताभ्यां राजन् ! खेदं मा कुरू, सपापः क्यास्यति? इत्यादिवचनैः श्रीविजयराजानमाश्वास्य तौ विद्याधरौ अमिततेजःसमीपं गतौ / ततोऽमिततेजःप्रेषित विद्याधररचितविमानैः स श्रीविजयोऽपि अमिततेजः समीप हिरण्यवृष्टिः पतिष्यति। मया भणितं त्वयैतन्निमित्तं क्व पठितम् ? तेन भणितं मया त्रिपृष्ठवासुदेवभ्रात्रचलबलदेवदीक्षासमये पित्रा समं मयाऽपि प्रव्रज्या गृहीता नत्रानेकशास्त्राभ्ययनं कुर्वताऽष्टाङ्ग निमित्तमप्यधीतम्।।