________________ संतकम्म 136 - अभिधानराजेन्द्रः - भाग 7 संतकम्म प्रागिव तावन्नि प्रदेशसत्कर्म स्थानानि भावनीयानि / केवलं स्थितिद्वयभावीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छेदचरमसमये बद्धस्यापि दलिकस्य तदानी द्विसमयस्थितिकस्य प्राप्यमाणत्वात्। इदं द्वितीय स्पर्धकम् / एवं बन्धादिव्यवच्छे दद्विचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति। नवरं स्थितित्रयभावीनितानि भावनीयानि, तदानी बन्धादिव्यवच्छे-दचरमसमयबद्धसत्कस्यापि दलिकस्य त्रिसमयस्थितिकरय प्राप्यमाणत्वात्। इदं तृतीय स्पर्धकम् / एवं समयद्वयोनावलिका-द्विके यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति / तत आह-'अहिगाणि य आवलिगाए' इत्यादि। योगस्थानानि कृत्स्नानि समस्तानि समुदाय करूपतया विवक्षितानि, सकल योगस्थानसमुदाय इत्यर्थः / आवलिकागतैः समयैः समयद्वयहीनैर्गुण्यन्ते गुणिते सति यावन्तः सकलयोगस्थानसमुदायारतावन्ति प्रथमस्थितौ व्यवच्छिन्नायामधिकानि स्पर्धकानि भवन्ति / तथाहि-बन्धादिव्यवच्छे दानन्तरसमये समयदयोनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते / एतच्चानन्तरमेव भावितम् / बन्धादिव्यवच्छेदादूर्ध्वं च प्रथमस्थितिरावलिकामात्रा तिष्ठति, ततस्तस्यामावलिकामात्रायां प्रथमस्थितौ संक्रमेण व्यवच्छिद्यमानायां परत आवलिकासमयप्रमाणानि स्पर्धकानि अन्यत्र संक्रमण व्यवच्छिद्यन्ते अतएव च तानि पृथक्न गुण्यन्ते। ततस्तेषुव्यवच्छिन्नेषु प्रथमस्थिती च व्यवच्छिन्नायां शेषाणि समयद्वयोनाबलिकासमयप्रमाणान्येवाधिकानि प्राप्यन्ते,नान्यानीति। वेएसु फडुगदुर्ग, अहिगा पुरिसस्स वेड आवलिया। दुसमयहीणा गुणिया, जोगट्ठाणेहिं कसिणेहिं॥४६॥ 'वेएसुत्ति-वेदेषु स्त्रीवेदपुरुषवेदनपुंसकवेदेषु प्रत्येकंद्वेव स्पर्धक भवतः / कथमिति चेद्? उच्यते-कश्विजन्तुरभवसिद्धिकप्रायाग्यजघन्यप्रदेशसत्कर्मा बसेषु मध्ये समुत्पन्नः तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य द्वाविंशदधिकं च सागरोपमाणां शत यावत्सम्यक्त्वमनुपाल्याप्रतिपतितसम्यक्त्वो नपुंसकवेदेन क्षपक श्रेणिमारूढः, ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तमाने उपरितनस्थितिखण्डमन्यत्र संक्रमितम्, तथा सति उपरितनी स्थितिः सर्वात्मना निर्लोपीकृता।ततः प्रथमस्थितौ चरमसमये सर्वजघन्यं यत प्रदेशसत्कर्म तत प्रथम प्रदेशसत्कर्मस्थानम् / तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीय प्रदेशसत्कर्मस्थानम्। परमाणुद्वयप्रक्षेपे च तृतीयम् / एवं नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावद्गणितकर्मा शस्योत्कृष्टं प्रदेशसत्कर्मस्थानम्। इदमेक स्पर्धकम्। ततो द्वितीयस्थिती चरमखण्डे संक्रम्यमाणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यत्प्रदेशसत्कर्मस्थान तत् आदि कृत्वा नानाजीवा-पेक्षया यथासम्भवमुत्तरोत्तरवृझ्या निरन्तरे प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावरणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् / तानि द्वितीयं स्पर्धकम् / अथवा-यावत्प्रथमा स्थितिर्द्वि-तीया च स्थितिर्विद्यते तावदेक स्पर्धकम् / द्वितीयस्थितौ च क्षीणायां प्रशभस्थितौ शेषीभूतायां समयमात्रायां द्वितीयं स्पर्धकमिति। | एवं प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम्। पुरुषवेदस्य पुनः स्पर्धकद्वयमेवं भावनीयम्-उदयचरमसमये जघन्य प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षया एकै कपरमाणुवृद्ध्या निरन्तर प्रदेश - सत्कर्म स्थानानि तावद्वाच्यानि यावद्गुणितक मशिस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् / एतानि सर्वाण्यनन्तानि / एतान्येक स्पर्धकम् / उदयचरमसमये च द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे सर्वजघन्य प्रदेशरात्कर्मस्थानमादि कृत्वा प्रागिव द्वितीय स्पर्धक वाच्यम्। किंच'अहिगा पुरिसस्स' त्ति पुरुषवेदस्याधिकान्यपि स्पर्धकानि भवन्ति / कियन्ति भवन्तीति चेदुच्यते-'वउ आवलिया' इत्यादि, अत्र द्वे आवलिके इत्यत्र तृतीयार्थे प्रथमा। 'जोगट्ठाणेहिं कसिणेहिं' इति अत्र तु तृतीया प्रथमार्थ ततोऽयमर्थः-कृत्स्त्रानि योगस्थानानि सकलयोगस्थानसमुदाय इत्यर्थः / द्वभ्यामावलिकाभ्यां द्विसमयहीनाभ्याम् आवलिकाद्विकसमयैर्द्विरूपही रित्यर्थः, गुण्यन्ते गुणिते च सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनावलिकाद्विकसमयप्रमाणानि अधिकानि भवन्तीत्यर्थः / तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे सति समयद्वयोनावलिकाद्विकवद्धं पुरुषवेदस्य दलिक विद्यते। ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानापेक्षया समयदयहीनावलिकाद्विक - समयप्रमाणानि स्पर्धकानि वाच्यानि। सम्प्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकाना सामान्यरूप लक्षण-माहसव्वजहन्नाढत्तं,खंधुत्तरओ निरन्तरं उप्षि। एगं उव्वलमाणी, लोभजसा नोकसायाणं // 47 // 'सव्वजहन्न' ति-सर्वजधन्यात प्रदेशसत्कर्मस्थानादारब्धमेकैकेन कर्मस्कन्धेनोत्तरतः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरेण निरन्तरं प्रदेशसत्कर्मस्थानजाल तावन्नेयं यावत् 'उप्पि' उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्म स्थान भवति / इयमत्र भावना-सर्व जघन्यप्रदेशसत्कर्मस्थानादारभ्ययोगस्थानापेक्षया एकैकेनकर्मस्कन्धेन वद्धानि प्रदेशसत्कर्मस्थानानि निरन्तराणि तावन्नेतव्यानि याव-दुत्कृष्ट प्रदेशसत्कर्मस्थानं भवति / एकैककर्मस्कन्धेनोत्तरत इति चोक्तं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा “चरमावलि-यपविटे" त्यादौ यानि स्पर्धकान्युक्तानि तेष्वेकैकेन प्रदेशेनैवो-त्तरोत्तरा वृद्धिः प्राप्यते इति / तदेवमुक्त सामान्येन लक्षण स्पर्ध-कानाम् / सम्प्रत्युद्वल्यमानप्रकृतीना स्पर्धकप्ररूपणार्थमाह- 'एणं उव्वलमाणी' एकं स्पर्धक मुद्वल्यमानप्रकृतीनां त्रयोविंशतिस-ख्यानाम् / तत्र सम्यक्त्वस्य भावना क्रियते-अभव्यप्रायोग्यज-घन्यस्थितिसत्कर्मा बसेषु मध्ये समुत्पन्नस्तत्र सम्यक्त्व देशवि-रतिं चानेकवारान् लब्ध्वा चतुरश्च वारान मोहनीयमुपशमय्य द्वा-त्रिंशदधिकं च सागारोपमाणां शत यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्विरोद्वल नया सम्यक्त्वमुद्वलयतो यदा चरमखण्डं संक्रान्तम् एका च शेषा उदयावलिका तिष्ठति, तामपि स्तिबुकसंक्रमेण मिथ्यात्वे संक्रमयति।