________________ संतकम्म 138 - अभिधानराजेन्द्रः - भाग 7 संतकम्म भूतं कालं देशोनपूर्वकोटिरूपं यावत् केवलिपर्याय परिपाल्यायोगिकेवलिनः सतः क्षपितकर्माशस्य चरसमये वर्तमानस्य तीर्थकरनाम्नो जघन्य प्रदेशसत्कर्म / अन्ये तु ब्रुवते-तीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययोगिना प्रथमसमये या लता बद्धा सा जघन्य प्रदेशसत्कर्म। 'आहारतणु त्ति आहारकतनूप-लक्षितमाहारकसप्तकम् / 'अप्पद्धा बंधिय' ति अल्पकालं बद्धा मिथ्यात्वं गतः, ततः 'सुचिर' त्ति चिरोद्वलनया उद्वलयतः सतो यदा एका स्थितिर्द्धिसमयमात्रावस्थाना शेषीभवति तदा तस्य जघन्य प्रदेशसत्कर्म / तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वम्। सम्प्रति प्रदेशसत्कर्मस्थानप्ररूपणार्थ स्पर्धकप्ररूपणामाहचरमावलियपविठ्ठा, गुणसेढी जासिमत्थिनय उदओ। आवलिगा समयसमा, तासिं खलु फडगाइंतु।।४४|| 'चरमावलिय' ति-घरमा-सर्वान्तिमा या क्षपणकाले आवलिका ता प्रविष्टा गुणश्रेणियोंसां प्रकृतीनामस्ति न च उदयः तासां स्त्या - नर्दित्रिकमिथ्यात्वाद्यद्वादशकषायनरकद्विकतिर्यग्द्विकपोन्द्रियजातिवर्ज जातिचतुष्टयातपोदद्योतस्थावरसूक्ष्मसाधारणरूपाणामे कोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति / खलुशब्दो वाक्यालङ्कारे / तुरेवकारार्थः / आवलिकारामयसमाऽन्ये वेत्यर्थः / इयमत्र भावना-अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः / तत्र च सर्वविरतिंदेशविरति चानेकशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य भूयोऽप्ये केन्द्रियेषु मध्ये समुत्पन्नः / तत्र च पल्योपमासंख्येयभागमात्र कालं यावत् स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र च क्षपणायामभ्युतः / तस्य चरमे स्थितिखण्ड के ऽपगते सति चरमावलिकाया स्तिबुकसंक्रमेण क्षीयमाणायां सदा एका स्थितिद्विसमयमात्रावस्थाना शेषीभवति तदा सर्वमजघन्य यत् प्रदेश-रात्कर्म तत प्रथम प्रदेशसत्कर्मस्थानम् / तत एकस्मिन परमाणी प्रक्षिप्त सति अन्यत-द्वितीयं प्रदेशसत्कर्मस्थान भवति / ततो द्वयोः परमाण्या: प्रक्षिप्तयोरन्यत्तृतीयं प्रदेशसत्कर्मस्थानं त्रिषु परमाणुषु प्रक्षिप्तेषु अन्यत्। एवमेकैकपरमाणुप्रक्षेपेण प्रदेशसत्क-मस्थानानि नानाजीवापेक्षयाऽनन्तानि तावद्वाच्यानि यावत्तस्मि-न्नेव चरमे स्थितिविशेषे गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति / अत ऊर्ध्वमन्यप्रदेशसत्कर्मस्थानं न प्राप्यते तत इदमेक स्पर्धकम् / इद तु चरमस्थितिमधिकृत्य / एवं द्वयोश्चरमस्थित्यो-द्वितीय स्पर्धकं वक्तव्यम्। तिसृषु च स्थितिषु तृतीयम् / एवं तावद्वाच्यं यावत्समयानावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति / तथा चरमस्थितिधातस्य चरमं प्रक्षपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्ववतव्यानि यावदात्मीयमा मीयमुत्कृष्ट प्रदेशसत्कर्म / तत एतावदेतदपि सकलस्थितिगतं यथासम्भवमेकं स्पर्धक विवक्ष्यते। तत एतेन स्पर्धकन सहादलिकासमयप्रमाणानि स्पर्धकानि भवन्ति / संजलणतिगे चेवं, अहिगाणि य आलिगाएँ समएहिं। दुसमयहीणेहि गुणा-णि जोगठाणाणि कसिणाणि / / 45 / / 'संजलणतिगे' त्ति-संज्वलनत्रिके क्रोधमानमायारूपे, एवं पूर्वो -क्तेन प्रकारेण स्पर्धकानि वाच्यानि / इयमत्र भावना-क्रोधादीना प्रथमस्थितिर्यावदावलिकाशेषा न भवति तावत् स्थितिघात रसघातबन्धोदयोदीरणाः प्रवर्तन्ते / आवलिकाशेषायां तु प्रथम-स्थिती व्यवच्छिद्यन्ते, ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सकृदस्ति, अन्यत् सर्व क्षीणं तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकभावना यथा प्राक् कृता तथाऽत्रापि कर्त्तव्या, यच समयद्वयोनावलिकाद्विक बद्धं दलिक - मस्ति तस्यान्यथा स्पर्धकभावना क्रियते पूर्वप्रकारेणात्र स्पर्द्धक-स्वरूपस्याप्राप्यमाणत्वात्। अथो च्यते कथं स्थितिघातरसघातबन्धोदयो दीरणाव्यवच्छे - दानन्तरसमये समयद्वयो नावलिका-द्विकबद्धमेव टलिकमस्ति न शेषमिति ज्ञायते? उच्यते-इह चरमसमयक्रोधादिवेदकेन यद्वद्धं दलिक तद्वन्धावलिकातीतम् आवलिकामात्रेण कालेन निरवशेष संक्रमयति / तथा च सति आवलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी भवति / द्विचरमसम-यवेदकेन यद्वद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलि-कामात्रेण कालेन संक्रमयति; आवलिकायाश्चरमसमये अकर्मी भवति। एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति / तथा च सति बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सत्प्राप्यते, न शेषम्। तथाहि-तत्त्वतोऽसंख्यातसमयात्मिका-ऽप्यावलिका किलारात्कल्पनया चतुःसमयात्मिका कल्प्यते / तता बन्धादिव्य - वच्छेदच रमसमयादक अष्ट मे समर्थ यदद्धं तद्वन्धावलिकायां चतुःसमयात्मिकायामतीतायाम् अन्यया चतुःसमयात्निकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेद-सनयरूप सर्वथा स्वरूपेण न प्राप्यते, अन्यत्र सर्वात्मना संक्र-मितत्वात् सप्तमे समय यद्बद्धंतचतुः समयात्मिकायामावलिका-यामतिक्रान्तायानन्यया चतुः समयात्मिकया अन्यत्र संक्रम्यमाणं बन्धादिव्यवच्छेदानन्तरसमये स्वरूपेण न प्राप्यते. सर्वात्मनाऽन्यत्र संक्रमितत्वात, शेषषष्ठादिसमयबद्धं तु प्राप्यते / ततो बन्धादौ व्यवच्छिन्ने सति अनन्तरसमये समयद्वयोनावलिकाद्विक बद्धमेव सत् प्राप्यते नान्यदिति / तत्र बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्द्धं तस्य बन्धवलिकायामतीतायामन्य-या आवलिकयाऽन्यत्र संक्रम्यमाणस्य चरमसम्ये यत्संक्रमयिष्यति न तावत्संक्रमयति तत् संज्वलनक्रोधस्य जघन्यप्रदेशसत्कर्मस्थानम्। एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यद्बद्ध तस्यापि दलिकं चरमसमये द्वितीय प्रदेशसत्कर्मस्थानम्। एवं तावद्वाच्यं यावदुत्कृष्ट योगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यद्द्धं तस्य दलिकं चरमसमये सर्वोत्कृष्टमन्तिम प्रदेशसत्कर्मस्थानम् / एवं जघन्य योगस्थानमादिं कृत्वा यावन्ति योगस्थानानि भवन्ति तावन्ति प्रदेशसत्कर्मस्थानान्यपि चरमसमये प्राप्यन्ते इदमेकं स्पर्धकम् / एवं बन्धादिव्यवच्छेदद्विचरमसमये जघन्ययो गादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरम समये