________________ संतकम्म 137 - अमिधानराजेन्द्रः - भाग 7 संतकम्म संक्रमयतीति कृत्वा चतुःकृत्वो मोहोपशमग्रहणम्। ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्ट प्रदेशसत्कर्म भवति। धुवबंधीण सुभाणं, सुभथिराणं च नवरि सिग्घयरं / तित्थगराहारगतणू, तेत्तीसुदही विरचिया य॥३७|| 'धुवबंधीण' त्ति-याःशुभध्रुवबन्धिन्यः प्रकृतयस्तैजससप्तकशुभवर्णाचे कादशक गुरुलघुनिर्माणरूपा विंशतिप्रकृतयः तासा शुभस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्ट प्रदेशसत्कर्म भावनीयम्। नवर चतुःकृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं क्षपणायोद्यतस्येति वक्तव्य शेषं तथैव / तथा तीर्थकरनाम्नो गुणितकर्माशेन देशोनपूर्वकोटिद्विकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्गन्धेन पूरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म। आहारकतनोराहारकसप्तकस्य तु विरचितस्य देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धेनोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्ट प्रदेशसत्कर्म।। तुल्ला नपुंसवेए, णेगिंदियथावरायवुज्जोया। विगलसुहुमत्तिया वि य, नरतिरिय चिरऽजिया हॉति॥३८।। 'तुल्ल' त्ति-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपो-योता वेदितव्याः / यथा नपुंसकवेदस्य ईशानदेवभवचरमसमये उत्कृष्ट प्रदेशसत्कर्मोक्तं तथा एतेषामपि द्रष्टव्यमित्यर्थः / विकलत्रिक द्विविधतुरिन्द्रियजातिरूपं, सूक्ष्मत्रिक सूक्ष्मापर्याप्तसाधारणरूपं यदा पूर्वकोटिपृथक्त्वं यावत् तिर्यङ्मनुष्यभवैरर्जितं भवति, तदा स्वबन्धान्तसमय तेषां तिर्यड्मनुष्याणां तद्विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म भवति। तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वम्। सम्प्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाहखवियं सयम्मि पगयं, जहन्नगे नियगसंतकम्मंते। खणसंजोइय संजो-यणाण चिरसम्मकालंते॥३६।। 'खविय' ति-जघन्ये-जघन्यप्रदेशसत्कर्मस्वामित्वे प्रकृतमधिकारः। क्षपितकर्माशेन। सूत्रे चात्र सप्तमी तृतीयार्थेवेदितव्या। नियगसंतकम्मते' त्ति स्वस्वसत्ताचरमसमये। एवं तावत्सर्वकर्मणां सामान्येनोक्तम्। सम्प्रति पुनर्येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह- 'खणे' त्यादि इह क्षपितकर्माशेन सम्यग्दृष्टिना सता अनन्तानुबन्धिन उदलिताः / ततः पुनरपि मिथ्यात्वं गतेनान्तर्मुहूर्त कालं यावदनन्ता-नुबन्धिनो वद्धाः / ततो भूयोऽपि सम्यक्त्वं प्रतिपन्नः। तच्च सम्यक्त्वंद्वेषट्पष्टी सागरोपमाणा यावदनुपाल्य क्षपणार्थमभ्युद्यतस्तस्यानन्ता-नुबन्धिनं क्षपयतो यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना अन्यथा तु द्विसमयावस्थाना शेषीभवति तदा तेषां जघन्यं प्रदेशसत्कर्म / उव्वलमाणीणं उ-टवलणा एगट्ठिइ दुसामइगा। दिट्ठिदुगे वत्तीसे, उदहिसए पालिए पच्छा / / 4 / / 'उव्वलमाणीण' ति-उदल्यमानानां त्रयोविंशतिप्रकृतीनामुल-नकाले या एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमय मात्रावस्थाना, सा तासा जघन्यं प्रदेशसत्कर्म / एतच्च सामान्येनोक्तम, अत्रैव विशेषमाह- 'दिविदुर्ग' त्यादि द्वात्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनपाल्य पश्वान्मिथ्यात्वं गतो मन्दोदलनया च पल्योपमासंख्येयभागमाप्रमाणया सम्यक्त्वमिश्रे उद्वलयितुमारभते स्म / उदल-यश्च तद्दलिक मिथ्यात्वे संक्रमयति। सर्वसंक्रमेण चावलिकाया उपरितन सकलमपि दलिक संक्रमितम् आवलिकागतं चदलिक स्तिबुकसंक्रमेण संक्रमयति संक्रमयतश्चयदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, तदा तयोः सम्यक्त्वमिश्रयोर्जघन्य प्रदेशसत्कर्म। अंतिमलोभजसाणं, मोहं अणुवसमइत्तु खीणाणं / नेयं अहापवत्त-करणस्स चरमम्मि समयम्मि। 411 // 'अन्तिम' त्ति-अन्तिमलोभः-संज्वलनलोभः ततः संज्वलनलोभयशःकीयोश्चतुरो वारान मोहनीयमनुपशमय्यमोहस्योपशमं कृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः / शेषाभिः क्षपितकर्माशक्रियाभिः क्षीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म ज्ञेयम् / मोहनीयोपशमे हि क्रियमाणे गुणसंक्रमेण प्रभूतं दलिकमवाप्यते, न च तेन प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः। वेउव्विक्कारसगं, खणबंधगतेउनरयजिट्ठठिइं। उव्वट्टित्तु अबंधिय, एगेंदिगए चिरुवलणे॥४२॥ 'वेउविचारसग' ति-नरकद्विकदेवद्विकवैक्रियसप्तकरूपं वैक्रियैकादशकं पूर्व क्षपितकर्माशनोदलितम्, ततो भूयोऽप्यन्तर्मुहूर्त काल यावद्धम्। ततो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधाने नरके जातः। तत्र च सता तेन तत वैक्रियैकादशकं त्रयस्विशत्सागरो-पमाणि यावत् विपाकतः संक्रमतश्च यथायोगमनुभूतम् / ततो नरकादुद्वृत्य तिर्यक्पवेन्द्रियेषु मध्ये समुत्पन्नः / तत्र च वैक्रियैकादशकस्य भूयोऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् / तत एकेन्द्रियो जातः / स च तद्वै क्रियैकादशकं चिरोद्गलनया उद्बलयितुं लग्नः। चिरोद्वलनया चोदलयतः सतो यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना शेषीभवति तदा तस्य वैक्रियैकादशक स्य जघन्य प्रदेशसत्कर्म। मणुयदुगुचागोए, सुहुमखणबद्धगेसु सुहुमतसे। तित्थयराहारतणु, अप्पद्धा बंधिया सुचिरं / / 43|| 'मणुय' त्ति-मनुष्यद्विकमुचैर्गोत्रं च पूर्वं सूक्ष्मत्रसेन क्षपितकर्माशेनोदलितम्, ततः 'सुहमखणबद्धगेसु' ति सूक्ष्मेण सूक्ष्मैकेन्द्रियेण पृथिव्यादिना सता क्षणमन्तर्मुहूर्तकालं यावत् भूयोऽपि बद्धम् / ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नः। तत्र च चिरोद्वलनया उद्वलयितुं लग्नः उद्बलयतश्च यदा तेषामेका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति तदा तयोर्मनुष्यद्विकोच्चैर्गोत्रयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म। तथा तीर्थकरनाम 'अप्पद्धाबंधिय' ति अल्पं कालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वद्धा केवली जातः / ततः 'सुचिरं' ति प्र