________________ संतकम्म 136 - अभिधानराजेन्द्रः - भाग 7 संतकम्म ईसाणे पूरित्ता, नपुंसगतो असंखवासासु। पल्लासंखियभागे-ण पूरिए इथिवेयस्स||२६|| 'ईसाणे' त्ति-ईशानदेवलोके उक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्ट प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः। तत्र च तेन संक्लिष्टन भूत्वा पल्योपमासंख्येयभागमात्रेण कालेन पूरिते स्त्रीवेदे बन्धेन नपुंसकवेददलिकसंक्रमेण च प्रभूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म भवति। पुरिसस्सपुरिससंकम-पएसउक्कस्स सामिगस्सेव! इत्थीजं पुण समयं, संपक्खित्ता हवइताहे||३०|| 'पुरिसस्स' त्ति-पुरुषस्य पुरुषवेदस्योत्कृष्ट प्रदेशसत्कर्म उत्कृपुरुषवेदसंक्रमस्वामिन एव वेदितव्यम्, एतदुक्तं भवति-य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुषवेदप्रदेशसत्कर्मस्वाभ्यपि वेदितव्यः / नवरं यं समय यस्मिन् समये स्त्रीवेदं पुरूषवेदे संप्रक्षेप्ता भवति संक्रमयति 'ताहे' तदानीं पुरुषवेदस्योत्कृष्ट प्रदेशसत्कर्मस्वामी। तस्सेवउसंजलणा, पुरिसाइकमेण सव्वसंछोभे। चउरूवसमित्तु खिप्पं,रागतेसायउच्चजसा // 31 / / 'तस्सेव' ति-य एव पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिसत्कदलिकस-र्वसंक्षोभे उत्कृष्ट प्रदेशसत्कर्मणो भवन्ति / इयमत्र भावना- य एव पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमण संज्वलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्ट प्रदेशसत्कर्मस्वामी। स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण माने संक्रमयति तदा संज्वलनमानोत्कृष्ट प्रदेशसत्कर्मस्वामी / स एव संज्वलन-मान सर्वस कमेण संज्वलनमायायां संक्रमयति तदा संज्वलनमायोत्कृष्ट प्रदेशसत्कर्मस्वामी / स एव यदा संज्वलनमायां सर्वसंक्रमण संज्वलनलोभे संक्रमयति तदा संज्वलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी / तथा चतुरो वारान् मोहनीयमुपशमय्य गुणितकाशः शीघ्र क्षपणायोस्थितस्तस्य सूक्ष्मसंपरायगुणस्थानकचर-मसमये वर्तमानस्य सातवेदनीयोथैर्गोत्रयशःकीर्तीनामुत्कृष्ट प्रदे-शसत्कर्म / यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि संक्रमयति। ततः सूक्ष्मसम्परा-यचरमसमये एतासामुत्कृष्ट प्रदेशसत्कर्म प्राप्यते। उक्तं च-“चउरुवसामिय मोह, जसुच्चसायाण सुहमखवगते। जं असुभ-पगइदलिया-ण, संकमो होइ एयासु॥१॥" देवनिरियाउगाणं,जोगुक्कस्सेहिं जेट्ठगद्धाए। बद्धाणि ताव जावं, पढमे समए उदिनाणि॥३२॥ 'देवनिरियाउगाणं' ति-देवनारकायुषोरुत्कृष्टै योगैरुत्कृष्टया च बन्धाऽद्भया द्वयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते, याव-त्प्रथमे समये उदीर्णे उदयप्राप्ते भवतः / किमुक्तं भवति-बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण द्वयोरु-त्कृष्ट प्रदेशसत्कर्भ भवति। सेसाउगाणि नियगे-सु चेव आगम्म पुव्वकोडीए। सायबहुलस्स अचिरा, बंधते जाव नो वड्डे // 33 // 'सेसाउगाणि' त्ति-शेषायुषी-तिर्यङ्मनुष्यायुषी / 'पुव्वकोडीए' त्ति पूर्वकोटयोपलक्षिते पूर्वकोटिप्रमाणे उत्कृष्टया बन्धाऽट्या उत्कृष्टयोगैर्बद्धे / बद्धा च निजकेषु भवेषु निजनिजभवे समागत्य, सातबहुलः सन् ते आयुषी यथायोगमनुभवति! सुखितस्य हि न भूयांस आयुःपुरलाः परिसटन्तीति कृत्वा सातग्रहणं कृतम् / ततोऽचिरात् बन्धान्ते इति उत्पत्तिसमयादूर्ध्वमन्तर्मुहूर्त्तमात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बन्धाऽद्धया उत्कृष्टश्च-योगैरन्यत् पारभविकं समानजातीयं मनुष्यो मनुष्यायुःतिर्यड् च तिर्यगार्यबध्नाति / ततो बन्धान्तसमये यावन्नाद्याप्यपवर्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः तिरश्चः (च) सतस्तिर्यगायुष उत्कृष्ट प्रदेशसत्कर्म भवति / यतस्तस्य तदानीं स्वभवायुः किशिदूनं परभवायुश्व समानजातीयं परिपूर्णदलिक-मस्तीति कृत्वा, बन्धान्तरं चायुर्वेद्यमानं द्वितीये समयेऽपवर्तयि-ष्यति, ततः उक्तं बन्धान्ते इति। पूरितु पुव्वकोडी, पुहुत्तनारगदुगस्स बंधते। एवं पल्लतिगते, वेउव्वियसेसनवगम्मि॥३४|| 'पूरितु' ति-पूर्वकोटीपृथक्त्वं पूर्वकोटीसप्तकं यावत् संक्लिष्टाध्यवसायवशेन नरकद्विकं नरकगतिनरकानुपूर्वीलक्षणं भूयोभूय आपूर्य बन्धेन निचितं कृत्वा नरकाभिमुखो बन्धान्तसमये नरकद्विकस्योत्कृष्ट प्रदेशसत्कर्मस्वामी / तथा एवम्-अनेनैव प्रकारेण पूर्वकोटिपृथक्त्व यावत् भोगभूमिषु मध्ये पल्योपमत्रयं च यावद्विशुद्धाध्यवसायवशेन वैक्रियैकादशकात् नरकद्रिकेऽपनीते शेषं यद्वैक्रियनवकं देवद्विकं वैक्रियसप्तकं चेत्यर्थः / तत् बन्धेनापूर्य देवत्वाभिमुखस्तासा देवद्विकवैक्रियसप्तकरूपाणां नवप्रकृतीनामुत्कृष्टप्रदेशसत्कर्मस्वामी। तमतमगो सव्वलह, सम्मत्तलभियसव्वचिरमद्ध। पूरित्ता मणुयदुर्ग, सवज्जरिसहंसबंधते॥३॥ 'तमतमगो' त्ति-तमस्तमगः सप्तमपृथ्वीनारकः / सर्वलघुअति-क्षिप्रं जन्मानन्तरमन्तर्मुहूर्ते गते सतीत्यर्थः। सम्यक्त्व लब्ध्वा। 'सव्वचिरमद्ध ति अतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन् मनुष्यद्रिक वज्रर्षभनाराचसहनन च बन्धेनापूर्य यतोऽनन्तरसमये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाऽद्धाचरमभूते तयोर्मनुष्यद्विकवज्रर्षभनाराचसंहननयोरुत्कृष्ट प्रदेशसत्कर्म भवति। सम्मद्दिट्ठिधुवाणं, वत्तीसुदहीसयं चउक्खुत्तो। उवसामइत्तु मोहं, खतगे नियगबंधते॥३६।। 'सम्मद्दिट्टि' ति-याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः पशेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्रासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुस्वरसुभगादेयरूपा द्वादश तासां द्वात्रिंशदधिक सागरोपमाणां शतं यावद्वन्धेनोपचितानां चतुः कृत्वःचतुरो वारान् मोहनीयं चोपशमय्य। मोहनीयं हि उपशमयन् प्रभूतानि दलिकानि गुणसंक्रमेण