________________ संतकम्म 135 - अभिधानराजेन्द्रः - भाग 7 संतकम्म 'सत्तण्हं ति अयुर्वर्जानां सप्ताना मूलप्रकृतीनामजधन्यं प्रदेशसत्कर्म त्रिविध त्रिप्रकारम, तद्यथा- अनादि, धुवम्, अधुवं च / तत्र क्षपितक शिर य आयुर्वजनिां सप्ताना कर्मणां स्वस्वक्षयावसरे चरमस्थिती वर्तमानस्य जघन्य प्रदेशसत्कर्म / तच्च साद्यधुवं ततोऽन्यत्सर्वम जघन्यम, तच्चानादि, सदैव सद्भावात् / धुवाध्रुवताऽभव्यभव्यापेक्षया। 'सेसा दुह' त्ति शेषा विकल्या उत्कृष्टा-नुत्कृष्टजघन्यरूपा द्विधा-द्विप्रकाराः, तद्यथा-सादयोऽधुवाश्च। तत्रोत्कृष्टप्रदेशसत्वर्मगुणितकम शस्य मिथ्यादृष्टःसप्तमपृथिव्यां वर्तमानस्य प्राप्यते / शेषकालतुतस्थाप्यनुत्कृष्टं ततो द्वे अपि साद्यध्रुवे / जघन्यं तु भावितमेव। तथा आयुषः सर्वेऽपि विकल्पा उत्कृष्टा-नुत्कृष्टजघन्याजघन्यरूपाः सादयोऽधुवाश्च, अध्रुवसत्कर्मत्वात्। सम्प्रत्युत्तरप्रकृतीरधिकृत्य साऽऽद्यनादिप्ररूपण चिकीर्षुराहवायालाणुकस्सं, चउवीससया जहन्न चउतिविहं। होइह छह चउद्धा, अजहन्नमभासियंदुविहं।।२६।। 'वायाल' त्ति सातवेदनीयसंज्वलनचतुष्टयपुरुषवेदपशेन्द्रियजातितेजससप्तकप्रथम स्थानप्रथमसंहननशुभवर्णाशुभवर्णाही कादशकागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्त - प्रत्येकास्थरशुभसुभगसुखरादेययशः-कीर्तिनिर्माणरूपात्र द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट प्रदेशसत्कर्म चतुर्विधम्। तद्यथा-साधनादिध्रुवमधुवं च / तद्यथा-वर्षभनाराचवर्जाना शेषाणा-मेकचत्वारिंशत्प्रकृतीनां क्षपकश्रण्यां स्वस्वबन्धान्तसमये गुणि-तकर्माशस्योत्कृष्ट प्रदेशसत्कर्म भवति, तच्चैकसामयिकमिति कृत्वा साद्यधुवम्। ततोऽन्यत्सर्वमनुत्कृधम / तदपि च द्वितीये समये भवत्सादि / तत्स्थानमप्राप्तस्य पुनरमादि धुवाधुवे पूर्ववत् / वर्षभनाराचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दृष्टनारकस्य मिथ्यात्वगन्तुकामस्योत्कृष्ट प्रदेशसत्कर्म तच्च साद्यधुवं, ततोऽन्यदनुत्कृष्ट, तदपि च द्वितीये समये भवत्सादि / तत्स्थानमप्रामस्य पुनरनादि / धुवाधुवे पूर्ववत् / अनन्तानुबन्धियशः कीर्तिस ज्वलनलोभवर्जितानां चतुर्विशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्य प्रदेशसत्कर्म त्रिविधम्। तद्यथा-अना-दि, ध्रुवम्, अध्रुवं च / तथाहि-एतासां क्षपितकर्माशस्य स्वस्व-क्षयचरमसमये जघन्य प्रदेशसत्कर्म, तच्चैकसामयिकामिति कृत्वा साद्यधुव च / ततोऽन्यदजघन्यम्, तच्चानादि, सदैव सद्भावात् / ध्रुवाध्रुवता पूर्ववत्। 'घउतिविहं' ति यथासंख्येन याजनीयम्, द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट चतुर्विध, ध्रुवसत्कर्मणां चा-जघन्यं त्रिविधमिति। तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनलोभयशः कीर्तिरूपाणां षण्णा प्रकृतीनामजघन्य प्रदेशसत्कर्म चतुर्विधम् / तद्यथा-सादि, अनादि, ध्रुवम्, अधुवं च। तथाहि-अनन्तानुबन्धिनामुद्धलके क्षपितकर्माशे यदा शेषीभूता एका स्थितिर्भवति तदा जघन्य प्रदेशसत्कर्म / तच्चैकसामयिकामिति कृत्वा साद्यधुवं च ततोऽन्यत्सर्वमजघन्यम्। तच्चोद्वलिताना मिथ्यात्वप्रत्ययेन / भूयोऽपि बध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुननादि / धुवाध्रुवे पूर्ववत् / यश:कीर्तिसंज्वलनलोभयोः पुनः क्षपितकर्माशस्य क्षपणा- | योद्यतस्य यथाप्रवृत्तिकरणस्यान्तिमसमये जघन्य प्रदेशसत्कर्म / तकसामयिकमिति कृत्वा साद्यधुवं च। ततोऽन्यत्सर्वमजधन्यम् तदपि चानिवृत्तिकरणप्रथमसमये गुणसंक्रमेण प्रभूतस्य दलिकस्य प्राप्यमाणत्वात अजधन्य भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि / ध्रुवाध्रुवता पूर्ववत्। 'अभासिय दुविह' ति अभाषितम्-अनुक्तं सर्वासा प्रकृतीनां द्विविधं-द्विप्रकारमवगन्तव्यम्। तद्यथा-साद्यध्रुवं च। तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितंजघन्यमजघन्यमुत्कृष्ट च। तत्रोत्कृष्ट द्विप्रकारं भावितमेवा जघन्याजघन्यता च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव भावनीया / धुवसत्कर्मणां च चतुर्विशतिशतसंख्यानामभाषितमुत्कृष्टमनुत्कृष्ट जघन्य च। तत्र जघन्य भावितमेव / उत्कृष्टानुकृष्ट मिथ्यादृष्टी गुणितकर्माश प्राप्येते / ततो द्वे अपि साद्यध्रुवे / एवमनन्तानुबन्धिसंज्वलनलोभयशःकीर्तीनामपि उत्कृष्टानुत्कृष्ट भावनीये / जघन्यं तु भावितमेव शंषाणां चाधु-वसत्कर्मणां चत्वारोऽपि विकल्पाःसाधधुवा अध्रुवसत्कर्मत्वा-दवसेयाः। तदेवं कृता साद्यनादिप्ररूपणा। सम्प्रति स्वामित्वं वक्तव्यम्। तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जधन्यप्रदेशसत्कर्मस्वामित्वं च। तत्रो त्कृष्टप्रदेशसत्कर्मस्वामित्वमाहसंपुन्नगुणियकम्मो, पएसउक्कस्ससंतसामी उ। तस्सेव उ उप्पिविणि-ग्गयस्स कासिं चि वण्णेहिं / / 27 / / 'संपुन्न' ति-उत्कृष्ट प्रदेशसत्कर्मस्वामी सम्पूर्ण गुणितकमशि: सप्तमपृथिव्यां नारकश्वरमसमये वर्तमानःप्रायः सर्वासामपि प्रकृतीनामवगन्तव्यः / कासांचित्पुनः प्रकृतीना तस्यैव सम्पूर्णगुणितकर्माशस्य सतमथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति, ततस्तमहं वर्णयामि वर्णयिष्यामि / “वर्तमानसामीप्ये वर्तमानवद्वा” (पा०-३३३१३) इति (श्रीसि०-३-४-८४) भविष्यति वर्तमानः / प्रतिज्ञातमेवाऽऽहमिच्छत्ते मीसम्मि य, संपक्खित्तम्मि मीस सुद्धाणं / वरिसवरस्स उईसा-णगस्स चरमम्मि सयम्मि||२८|| 'मिच्छत्ते' त्ति-स,प्रागभिहितस्वरूपो गुणितकर्माशः सप्तमपृथिव्या उद्धृत्य तिर्यसूत्पन्नः, तत्राप्यन्तर्मुहूर्त स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय शीघ्रमभ्युद्यतः। ततो यस्मिन् समये मिथ्यात्व सम्यग्मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति, तस्मिन्समये सम्यड्मिथ्यात्वस्योत्कृष्ट प्रदेशसत्कर्म / तदपि च सम्यङ् मिथ्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति, तस्मिन् समये सम्यक्त्वस्योत्कृष्ट प्रदेशसत्कर्म। अक्षर-योजना त्वियम्-मिथ्यात्वे मिश्रे च यथासख्य मिश्रे सम्यक्त्वे च प्रक्षिप्ते सति तयोर्मिश्रशुद्धयोः मिश्रसम्यक्त्वयोरुत्कृष्ट प्रदेशसत्कर्म भवति। तथा स एव गुणितकर्माशो नारकरितर्यग्भूत्वा कश्चिदीशानदेवो जातः / सोऽपि च तत्रातिसक्लिष्टो भूत्वा भूयो भूयो नपुंसकवेदं बध्नाति। तदानीं च तस्य स्वभवान्तसमये वर्तमान-स्य वर्षवरस्य नपुंसकवेदस्योत्कृष्ट प्रदेशसत्कर्म।