________________ संतकम्म 134 - अभिधानराजेन्द्रः - भाग 7 संतकम्म सक्रमेण समयमात्रा समयमात्रा स्थितिःक्षीयते / ततः प्रतिसमयं स्थितिविशेषा लभ्यन्ते / तद्यथा-तत्स्थावरप्रायोग्यं जघन्यं स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं द्वितीय समयेऽतिक्रान्ते द्विसमयहीनम् / तृतीये समयेऽतिक्रान्ते त्रिसमयहीनमित्यादि / अन्तर्मुहूर्तेन च कालेन तत् स्थितिखण्ड खण्डयति / तत एतावती स्थितियुगपदेव त्रुटितेति कृत्वाऽन्तर्मुह दूर्व निरन्तराणि स्थितिस्थानानि लभ्यन्ते / ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमागमन्तर्मुहूर्त्तमात्रेण खण्डयति / तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि पूर्वप्रकारेण लभ्यन्ते। द्वितीये च स्थितिखण्डे खण्डिते सति पुनरपि पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति न भूयोऽप्यन्तमुहूर्तादूर्व निरन्तराणि स्थितिस्थानानि लभ्यन्ते एवं तावद्वाच्य यावदावलिकाशेषा भवति / साऽपि चावलिका उदयवतीनामनुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्षयमुपयातितावद्यावदेका स्थितिः / ततोऽमूनि आवलिकामात्रसमयप्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते। तदेवं स्थितिस्थान-भेदोपदर्शनमपि कृतम्। सम्प्रत्यनुभागसत्कर्मप्ररूपणार्थमाहसंकमसममणुभागे, नवरिजहन्नं तु देसघाईणं। छन्नोकसायवजाँण, एगट्ठाणम्मि देसहरं॥२१॥ मणनाणे दुट्ठाणं, देसहरं सामिगोयसम्मत्ते। आवरणविग्घसोलस-ग किट्टिवेएसुय सगते।।२२।। 'संकमसममि' त्यादि-अनुभागसंक्रमेण तुल्यमनुभागसत्कर्म वक्तव्यम / एतदुक्तं भवति-यथाऽनुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाद्यनादित्वस्वामित्वानि प्राक प्रतिपादितानि तथैवात्राप्यनुभागसत्कर्मणि वक्तव्यानि / नवरमयं विशेषो यदुत देशघातिनीनां हास्यादिषट् कवर्जितानां मतिश्रुतावधिज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसज्वलनचतुष्ट यवेदत्रिकान्तरायपशकरूपाणामष्टादशप्रकृतीना जघन्यानुभागसत्कर्मस्थानमधिकृत्य एकस्थानीयं, घातिसंज्ञामधिकृत्य देशहरं देशघाति वेदितव्यम् / मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुभागसत्कर्मस्थानमधिकृत्य द्विस्थान, धातिसंज्ञामधिकृत्य देशघाति / इहोत्कृष्टानुभागसत्कर्मस्वामिन उत्कृष्टानुभागसंक्रमस्वामिन एव वेदितव्याः। जघन्यानुभागसत्कर्मस्वामिनः पुनराह - 'सामिगोये' त्यादि / सम्यक्त्वज्ञानावरणपञ्चकदर्शनावरणषट् कान्तरायपञ्चकरूपप्रकृतिषोडशककिट्टिरूपरंग्ज्वलनलाभवेदत्रयाणां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनो वेदितव्याः। अत्रैव विशेषमाहमइसुयचक्खु अचक्खू-ण सुयसमत्तस्स जेट्ठलद्धिस्स। परमोहिस्सोहिदुर्ग, मणनाणं विउलनाणस्स // 23|| 'मइसुय' त्ति-मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सकलश्रुतपारगामिनश्चतुर्दश पूर्वधरस्येत्यर्थः / ज्येष्ठलब्धिकस्य उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म / इदमत्र तात्पर्यम्-मतिज्ञानावरणा-दीनां चतसृणां प्रकृतीनामुत्कृष्ट श्रुतार्थसम्पन्नश्चतुर्दशपूर्वधरो जघन्यानुभागसत्कर्मस्वामी वेदितव्यः। तथा परमावधिज्ञानेनावधिद्विकमवधिज्ञानावरणावधिदर्शनावरणरूपंजघन्यानुभागसत्कर्म भवति। एतदुक्तं भवतिअवधिज्ञानावरणावधिदर्शनावरणयोजघन्यानुभागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः। तथा मनोज्ञानं मनःपर्यायज्ञानावरण जघन्यानुभागसत्कर्म विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यम्, स्वामित्वभावना अवधिज्ञानावरणवत् / लब्धिसहितस्य हि प्रभूतोऽनुभागः प्रलयमुपयातीति 'परमोहिस्से' त्याद्युक्तम्। शेषाणां तु प्रकृतीनां य एव जघन्यानुभागसंक्रमस्वामिनस्त एव जधन्यानुभागसत्कर्मणोऽपि द्रष्टव्याः / इदानीमनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाहबंधहयहयहउप्प-त्तिगाणि कमसो असंखगुणियाणि / उदयोदीरणवजा-णि होंति अणुभागठाणाणि // 24 // 'बंध' त्ति इहानुभागस्थानानि त्रिधा, तद्यथा-बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्तिकानि च / तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि / तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि, तद्धेतूनामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात् / तथा उद्वर्तनापवर्तनाकरणवशतो वृद्धिहानिभ्यामन्यथाऽन्यथा यान्यनुभागस्थानानि वैचित्र्यभाञ्जि भवन्ति, तानि हतोत्पत्तिकान्युच्यन्ते / हतात्घातान पूर्वावस्थाविनाशरूपादुत्पत्तिर्येषां तानि हतोत्पत्तिकानि तानि च पूर्वेभ्योऽसंख्येयगुणानि, एकैकस्मिन बन्धोत्पत्तिके स्थाने नानाजीवापेक्षया उद्वर्तनापवर्तनाभ्यामसंख्येयभेदकरणात् / यानि पुनः स्थितिघातेन रसघातेन चान्यथाऽन्यथाभवनादनुभागस्थानानि जायन्ते तानि चहतहतोत्पत्तिकान्युच्यन्ते। हते उद्गर्तनापवर्तनाभ्यां घाते सति भूयोऽपि हतात् स्थितिघातेन रसघातेन वा घातादुत्पत्तिर्येषां तानि हतहतोत्पत्तिकानि। तानि चोद्वर्तनापवर्तनाजन्येभ्योऽसंख्येयगुणानि / संप्रत्यक्षरयोजना क्रियते -यानि उदयत उदीरणातश्च प्रतिसमय क्षयसम्भवात अन्यथाऽन्यथानुभागस्थानानि जायन्ते, तानि वर्जयित्वा शेषाणि बन्धोत्पत्तिकादीनि अनुभागस्थानानि क्रमशोऽसंख्ये यगुणानि वक्तव्यानि उदयोदीरणाजन्यानि कस्माद्वय॑न्त इति चेदुच्यतेयस्मादुदयो दीरणयोः प्रवर्त्तमानयोर्नियमात् बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यानामन्यतमान्यवश्यं सम्भवन्ति, तत्र उदयोदीरणाजन्यानि तत्रैवान्तः प्रविशन्तीति न पृथक् क्रियन्त्ये। तदेवमुक्तमनुभागसत्कर्म / सम्प्रति प्रदेशसत्कर्म वक्तव्यं, तत्र चैतेऽर्थाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा, स्वामित्वं चेति / तत्र भेदः प्राग्वत् / सम्प्रति साद्यनादिप्ररूपणा कर्त्तव्या, सा च द्विधामूलप्रकृतिविषया, उत्तरप्रकृतिविषया च / तत्र मूलप्रकृतिविषयां तां चिकीर्षुराहसत्तण्डं अजहण्णं, तिविहं सेसा दुहा पएसम्मि। मूलपगईसु आउसु, साई अधुवा य सव्वे वि॥२५।।