________________ संतकम्म 133 - अभिधानराजेन्द्रः - भाग 7 संतकम्म एस्थितिसमागमः उदयावलिकया सहित उत्कृष्ट स्थितिसत्कर्म | भावनीयम् / सम्यक्त्वस्य पुनरन्तर्मुहूर्तो न उत्कृष्टस्थितिसमागम उदयावलिकाया सहित उत्कृष्ट स्थितिसत्कर्म / तथाहि-मिथ्यात्वस्योत्कृष्टा स्थिति बद्ध्वा तत्रैव च मिथ्यात्वेऽन्तर्मुहूर्त स्थित्वा ततः सम्यक्त्वं प्रतिपद्यते। तस्मिश्च प्रतिपन्ने सति मिथ्यात्व-स्योत्कृष्टां स्थितिम् - आवलिकात उपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहूर्तानसप्ततिसागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यवत्वे उदयावलिकात उपरि संक्रमयति / ततोऽन्तर्मुहूर्तोन एवोत्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्स्योत्कृष्ट स्थितिसत्कर्म / यासां पुनः प्रकृतीना संक्रमत उत्कृष्टा स्थितिः प्राप्यते, न च संक्रमकाले उदयोऽस्ति, तासां संक्रकालेऽनुदयानां तावदेव पूर्वोक्त स्थितिसत्कर्म समयां नमवगन्तव्यम्, आवलिकाद्विक हीनोत्कृ पस्थितिसमागम आवलिकया सहितः समयोनस्तासामुत्कृष्ट स्थितिसत्कर्मेत्यर्थः / तथाहि-कश्चिन्मनुष्य उत्कृष्टसंक्लेशवशादुत्कृष्ट नरकगतिस्थितिं बवा परिणामपरावर्तनेन देवगति बद्धमारब्धवान, तस्यां च देवगतौ बध्यमानायामावलिकाया उपरि नरकस्थिति बन्धावलिकातीताम् उदयावलिकाया उपरितनीं सकलामपि विंशतिसागरोपमकोटीकोटीप्रमाणां संक्रमयति / प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति। ततस्तया समयमात्रया स्थित्या ऊन आवलिकयाऽभ्यधिक आवलिकाद्विकहीनोत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्ट स्थितिसत्कर्म / एव द्वित्रिचतुरिन्द्रियजात्याहारकसप्तकमनुजानुपूर्वीदेवानुपूवीसूक्ष्मापर्याप्त साधारणतीर्थकराख्यानामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्ट स्थितिसत्कर्म भावनीयम् / सम्यङ् मिथ्यात्वस्य पुनरन्तर्मुहूतान उत्कृष्टस्थितिसमागम आ वलिकयाऽभ्यधिकसमयोन उत्कृष्ट स्थितिसत्कर्म वाच्यम्, तच्च सम्यक्त्वोक्तभावनानुसारेण भावनीयम, 'उभयासिं जट्टिई तुल्ल' ति उभयीषामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाले यत्स्थितिः सर्वा स्थितिस्तुल्या / यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणाऽपि दलिकरहिता विद्यते एव। न हि कालः संक्रमयितुं शक्यते, किं तु तत्स्थं दलिकमेव / ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत एवेति कृत्वा उभयी यामपि यत्स्थितिः तुल्या / यश्च यासां प्रकृतीनामुत्कृष्टां स्थिति बध्नाति, यश्च यासूत्कृष्टां स्थितिं संक्रमयति, स तासामुत्कृष्ट स्थितिसत्कर्मस्वामी / तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वम्। सम्प्रति जघन्यस्थितिसत्कर्मस्वामित्वमाहसंजलणतिगे सत्तसु, य नोकसाएसुसंकमजहन्नो। सेसाण ठिई एगा, दुसमयकाला अणुदयाणं।।१६।। 'संजलणतिगे'त्ति- संज्वलनत्रिकस्य-क्रोधमानमायारूपस्य सप्ताना चनो कषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्य-स्थितिसत्कर्म जधन्यस्थितिसंक्रमो वेदितव्यः। एता हि प्रकृतयो बन्धे उदये च व्यवच्छिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते: तेन एतासांय एव चरमसंक्रमः स एव जघन्य स्थितिसत्कर्म / उक्तंच- "हासाइपुरिसकोहादि तिन्नि संजलण जेण बन्धुदये। वोच्छिन्ने संकमई, तेण इह संकमो चरिमो।।१।।" जघन्य स्थिति-सत्कर्मति सम्बन्धः / शेषाणां पुनरुदयक्तीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वनलोभायुश्चतुष्टयनपुंसकवेदस्त्रीवेदसातासातवेदनीयोचैर्गोत्रमनुजगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतुस्त्रिंशत्संख्यानां स्वस्वक्षयपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्य स्थितिसत्कर्म / अनुदयवतीनां पुनः प्रकृतीनां स्वस्वक्षयोपान्त्यसमये या स्वरूपापेक्षयासमय-मात्रा स्थितिरन्यथा तु द्विसमयमात्रकाला, सा जघन्य स्थिति-सत्कर्म / अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवती-षु प्रकृतिषु मध्ये प्रक्षिपति; तत्स्वरूपेण चानुभवति, तेन चरसमये तासां दलिकं स्वरूपेण न प्राप्यते, किं तु पररूपेण / अत उक्तम्-'उपान्त्यसमये स्वरूपापेक्षया समयमात्रा अन्यथा तु द्विसमयमात्रकालेति / सम्प्रति सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते-तत्रानुबन्धिनां दर्शनमोहनीय त्रिकस्य चाविरताऽऽदिरप्रमत्तपर्यन्तो यथासंभवं जघन्यस्थितिसत्कर्मस्वामी / नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये वर्त्तमानाः / कषायाष्टकस्त्यानर्द्धित्रिकनामत्रयोदशकनवनोकषायसंज्वलनत्रिकरूपाणां षट् त्रिंशत्प्रकृतीनामनिवृत्तिबादरसम्परायः। संज्वलनलोभस्य सूक्ष्मसंपरायः। ज्ञानावरणपशकदर्शनावरणषट् कान्तरायपञ्चकानां क्षीणकषायः, शेषाणां पानवतिसंख्यानामयोगिके वली जघन्यस्थितिसत्कर्मस्वामी / तदेवमुक्तं जघन्यस्थितिरसत्कर्मस्वामित्वम्। सम्प्रति स्थितिभेदप्ररूपणार्थमाहठिइसंतवाणाइं, नियगुक्कस्सा हि थावरजहन्न। नेरंतरेण हेट्ठा, खवणाइसु संतराइं पि / / 20 / / 'ठिइसंतवाणाई' ति सर्वेषां कर्मणां स्वकीयात्स्वकीयादुत्कृष्टात् स्थितिस्थानात् समयमात्रादारभ्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्यम् एकेन्द्रियप्रायोग्य जघन्यं स्थितिसत्कर्म / एतावता स्थितिकण्डके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया निरन्तरणनैरन्तर्येण लभ्यन्ते। तद्यथा-उत्कृष्टा स्थितिरेकं स्थिति स्थानम्। समयोना उत्कृष्टा स्थितिद्धितीयं स्थितिस्थानम् / द्विसमयोना उत्कृष्टा स्थितिस्तृतीय स्थितिस्थानम् / एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्य जघन्यं स्थितिसत्कर्म। एकेन्द्रियप्रायोग्याच जघन्यस्थितिसत्कर्मणोऽधस्तात् क्षपणादिषु क्षपणे उद्बलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते। अपिशब्दान्निरन्तराणि च। कथमिति-चेदुच्यते-एकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्र स्थितिखण्डखण्डयितुमारभते।खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽस्तादुदयवतीनामनुभावेनानुदयवतीनां स्तिबुक