________________ संतकम्म 132 - अभिधानराजेन्द्रः - भाग 7 संतकम्म तीर्थकराऽतीर्थकरौ प्रतीत्य द्वे अन्तिम प्रकृतिसत्कर्मस्थाने। तदेवमुक्तं प्रकृतिसत्कर्म। सम्प्रति स्थितिसत्कर्म वक्तव्यम्। तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः साद्यनादिप्ररूपणा स्वामित्वं चेति / तत्र भेदः प्रागिव / साधनादिप्ररूपणा च द्विधा-मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च। तत्र प्रथमतो मूलप्रकृतिविषया साधनादिप्ररूपणां चिकीर्षुराहमूलठिई अजहन्नं, तिहा चउद्धाय पढमगकसाया। तित्थयरुव्वलणायुग-वजाणि तिहा दुहाणुत्तं // 16|| 'मूलठिइ' त्ति मूलप्रकृतिस्थितिसत्कर्म अजघन्यं त्रिधात्रिप्रकारम् / तद्यथा-अनादि ध्रुवमधुवं च / तथाहि-मूलप्रकृतीनां जघन्य स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने समयमात्रैकस्थित्यवशेषे भवति, तच्च सादि, अध्रुवं च। ततोऽन्यत्सर्वमजघन्य, तच्चानादि, सदैव भावात्। ध्रुवाध्रुवता पूर्ववत्। उत्कृष्टमनुत्कृष्ट च साद्यधुवं द्वयोरपि पर्यायेणानेकशो भवनात्। कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां क्रियते'चउद्धा य' इत्यादि अत्र षष्ठ्यर्थे प्रथमा, ततोऽयमर्थः-प्रथमकषायाणामनन्तानुबन्धिनामजघन्य स्थितिसत्कर्म चतुर्धा चतुःप्रकार, तद्यथासादि अनादि ध्रुवमध्रुवं च / तथाहि-एषां जघन्य स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्रैकस्थितिरूपम्, अन्यथा तु द्विसमयमानं, तच्च साद्यधुवं ततोऽन्यत्सर्वमजघन्य, तदपि चोदलिताना भूयो बन्धे साऽऽदि, तत्स्थानमप्राप्तानां पुनरनादि, धुवाधुवता पूर्ववत् / तथा-तीर्थकरनामोद्वलनयोग्यत्रयोविशत्या - युश्चतुष्टयवर्जितानां शेषाणां षद्विशत्यधिकशतसंख्याना प्रकृतीनामजघन्य स्थितिसत्कर्म त्रिधा, तद्यथा-अनादिध्रुवमधुवं च। तथाहिएतेषां जघन्य स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपम्, अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकम् / अन्यथा तु द्विसम-यमात्रम्, तच्च साद्यध्रुवम् / ततोऽन्यत्सर्वमजघन्यं तच्चानादि, सदैव भावात् / ध्रुवाऽध्रुवता पूर्ववत् / 'दुहाणुत्त' ति। अनुक्तम्- उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं तीर्थकरनामोगलनयोग्यदेवद्विकनरकद्विकमनुजद्विकवैक्रियसप्तकाहारकसप्तकोथैर्गोत्र-सम्यक्त्वसम्यमिथ्यात्वरूपत्रयोविंशत्यायुश्चतुष्टयानां जघन्या-जघन्योत्कृष्टानुत्कृष्टरूपं विकल्पचतुष्टयं द्विधाद्विप्रकार, तद्यथा- सादि, अध्रुवं च / तथाहि-उक्तप्रकृतीनामुत्कृष्टमनुत्कृष्ट च स्थितिसत्कर्म पर्यायणानेकशो भवति / ततो द्वितयमपीदं साद्यध्रुवम्। जघन्यं च प्रागेव भावितम् / तीर्थकरनामादीनां चाध्रुवसत्कर्मत्वाच्चत्वारोऽपि विकल्पाः साद्यधुवा अवसेयाः / मूलप्रकृतीनां चानुक्तं जघन्यमुत्कृष्टमनुत्कृष्ट च द्विप्रकार प्रागेव चोक्तम्। तदेवं कृता साद्यनादिप्ररूपणा / सम्प्रति स्वामित्वं वक्तव्यम् / तच्च द्विधा उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्यस्थितिसत्कर्मस्वामित्वं च / तत्र प्रथम उत्कृष्टस्थितिसत्कर्मस्वामित्वमाहजेट्ठठिई बंधसमं, जेट्ठ बंधोदया उजासिसह। अणुदयबंधपराणं, समऊणा जट्ठिई जे8।।१७।। 'जेट्ठठिइ' त्ति-यासां प्रकृतीनां सह युगपत् बन्धोदयौ भवतः कासा | युगपद्वन्धोदयौ भवतः इति चेदुच्यते -ज्ञानावरणपशकदर्शनावरणचतुष्टयासातवेदनीयमिथ्यात्वषोडशकषायपोन्द्रियजातित - जससप्तक हुण्डसंस्थानवर्णादिविंशत्यगुरुलधुपराघातोच्छ्रासाप्रशस्तविहायोगत्युदयोतत्रसबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भ. गदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गात्रपञ्चविधान्तरायाणां तिर्य मनुष्यानधिकृत्य वैक्रियसप्तकस्य सर्वसंख्यया षडशीति-प्रकृतीनाम् तासां ज्येष्ठमुत्कृण्टस्थितिसत्कर्म ज्येष्ठस्थितिबन्धसमम् उत्कृष्टस्थितिबन्धप्रमाणं भवति / तासां हि उत्कृष्टस्थितिबन्धारम्भेऽबाधाकालेऽपि प्राग्बद्ध दलिकं प्राप्यते। न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् / ततस्तासाममुत्कृष्टस्थितिबन्धप्रमाणमुत्कृष्ट स्थितिसत्कर्म प्राप्यते / अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्येष्ठमुत्कृष्ट स्थितिसत्कर्म। तत्रानुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयबन्धपराः निद्रापञ्चकनरकद्विकतिर्यग्द्विकौदारिकसप्तकै केन्द्रियजातिसेवार्तसंहननातपस्थावररूपा विंशतिसंख्या स्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्ट स्थितिसत्कर्म / तथाहि-एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालेऽपि प्रारबद्ध दलिकमस्ति तथापि प्रथमस्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति / तेन तया प्रथमस्थित्या समयमात्रया ऊना उत्कृष्टा स्थितिरुत्कृष्ट स्थितिसत्कर्म। अथोच्येत-कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते? उच्यते-उत्कृष्टो हि स्थितिबन्ध उत्कृष्ट संक्लेशे भवति / न चोत्कृष्ट सक्लेशे वर्तमानस्य निद्रापञ्चकोदयसम्भवः नरकद्विकस्य तिर्यचो मनुष्या वा उत्कृष्टिस्थितिबन्धकाः। न च तेषां नरकद्विकोदयः सम्भवतीति शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्टस्थितिबन्धकाः। न च तेषु तेषामुदयो घटते। संकमओ दीहाणं,सहालिगाए उ आगमोसंतो। समऊणमणुदयाणं, उभयासिंजट्टिई तुला।।१८|| 'संकमओ' त्ति यासा प्रकृतीनां संक्रमत उत्कृष्ट स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो दीर्धाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमेण आवलिकाद्विकहीनोत्कृष्टस्थितिसमागमः स आवलिकया उदयावलिकया सह उत्कृष्ट स्थितिसत्कर्म। एतदुक्तं भवति-सात वेदयमानः कश्चिदसातमुत्कृष्टस्थितिक बध्नाति। तच्च बद्धा सातं बद्धं लग्नः। असातवेदनीय च बन्धावलिकातीतं सत आवलिकात् उपरितनं सकलमपि आवलिकाद्विकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने च उदया-वलिकाया उपरिष्टात संक्रमयति / ततस्तया उदयावलिकया सहितः संक्रमणावलिकाद्रिकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्ट स्थितिसत्कर्म / एवं नवनोकषायमनुजगतिप्रथमसंहननपञ्चकप्रथमसंस्थानपश्चकप्रशस्तविहायोगसिस्थिरशुभसुभगसुस्वरादेय यशाकीयुचैर्गोत्रा, मष्टाविंशतिप्रकृतीनामावलिकाद्विकहीनः स्वस्वसजातीयोत्कृ.