SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ संतकम्म 131 - अभिधानराजेन्द्रः - भाग 7 संतकम्म शतिः द्वाविंशतिःएकविंशतिश्च / तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टः क्षायोपशमिकसम्यग्दृष्टा / अष्टाविंशतिसत्कर्मणोऽनन्तानुबन्धिक्षये वेदकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्ट या चतुर्विशतिः / वेदकसम्यग्दृष्टर्मिथ्यात्वे क्षपिते त्रयोविंशतिः / तस्यैव सम्यगमिथ्यात्वे क्षपिते द्वाविंशतिः। क्षायिकसम्यग्दृष्टरेकविंशतिः। तथा देशविरतिगुणस्थानके पञ्चप्रकृतिसत्कर्मस्थानानि, तानि च पूर्वोक्तान्येव प्रमत्तसंयतगुणस्थानके। तान्येव चाप्रमत्तसंयतगु-णस्थानके। 'अह दोन्नि' त्ति अथअनन्तरम् अपूर्वकरणगुणस्थानकेद्वे प्रकृतिस्थाने, तद्यथा-चतुर्विशतिरेकविंशतिश्च / तत्रोपशमश्रेणिं प्रतिपन्नस्य चतुर्विशतिः, क्षायिकसम्यग्दृष्टिमधिकृत्यद्वयोरपि श्रेण्योरेकविंशतिः। तथा अनिवृत्तिबादरसम्परायगुणस्थानके दशप्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विशतिः एक-विंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रःतिसाढे एका च। तत्र चतुर्विशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः, क्षायिक सम्यग्दृष्टयोरपि श्रेण्योःशेषाणि पुनः क्षपक श्रेण्या, तानि च प्रागेव भावितानि सूक्ष्मसम्परायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विशतिः एकविंशतिः एका च। तत्र चतुर्विशति-रौपशमिकसम्यग्दृष्टः, एकविंशतिश्च क्षायिकसम्यग्दृष्टः, एतेच द्वे अपि प्रकृतिसत्कमस्थाने उपशमश्रेण्याम्, एका च क्षपकश्रेण्यामा तथा-द्वे प्रकृतिसत्कर्मस्थाने उपशान्तमोगुणस्थानके, तद्यथा-चतुर्विश-तिरेकविंशतिश्च / एते च द्वे अपि प्रागिव भावनीये। सम्प्रति मतान्तरमाहसंखीणदिट्ठिमोहे, केई पणवीसई पि इच्छंति। संजोयणाण पच्छा, नासंतेसिं उवसमं च / / 13 / / 'संखीण' ति केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति / ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रितये संक्षीणे क्षयमुपगते सति पश्चादननन्तानुबन्धिनां नाशमिच्छन्ति / ततस्तन्मतेन दर्शनमोहनीयत्रितयक्षये सति पञ्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते। यद्येवं तर्हि तन्मतमिह कस्मान्नाभ्यु-पगम्यते? उच्यते-आर्षण विरोधात् / यदाह चूर्णिकृत् - "तं आरिसे न मिलइ तेण न इच्छिलई" त्ति / तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशम चेच्छन्ति,नान्ये परमार्थवेदिनः / अत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्माभिनौपदर्शिता सम्प्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रति पिपापदयिषुराहतिदुगसयं छप्पंचग, तिग नउई नउई गुणनउई य। चउ तिग दुगाहिगासि, नव अट्ठ य नाम ठाणाइं॥१४॥ 'तिद्गसय' ति-नामकर्मणो द्वादश प्रकृतिसत्कर्मस्थानानि, तद्यथात्र्युत्तरशतं व्युत्तरशतं षण्णवतिः पञ्चनवतिः त्रिनवतिः नवतिः एकोननवतिः चतुरशीतिः त्र्यशीतिः व्यशीतिः नव अष्टौ चेति / तत्र सर्वनामकर्मप्रकृतिसमुदायस्त्र्युत्तरशतम् / तदेव तीर्थकररहित व्युत्तरशतम, व्युत्तरशतमेवाहारक सप्तकरहितं षण्णवतिः / सैव तीर्थकररहिता पश्चनवतिः। पञ्चनवतिरेषदेवद्विकरहिता नरकद्विकरहिता वा त्रिनवतिः / तथा-त्र्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः / सैव तीर्थकररहिता एकोननवतिः। तथा त्रिनवतिर्नरकद्विकवैक्रियसप्तकरहिता देवद्विकवैक्रियसप्तकरहिता वा चतुरशीतिः / षण्णवतिस्त्रयोदशरहिता त्र्यशीतिः पञ्चनवतिस्त्रयोदशरहिता व्यशीतः, अथवा-चतुरशीतिमनुजद्विकरहिता द्वयशीतिः / मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपानव ता एव तीर्थकररहिता अष्टौ / __ एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयन्नाह - एगे छद्दोसु दुगं, पंचसु चत्तारि अट्ठगं दोसु। कमसो तीसु चउकं, छत्तु अजोगम्मि ठाणाणि / / 15 / / 'एगे' त्ति-एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थानके षट् प्रकृतिसत्कर्मस्थानानि, तद्यथा-दव्युत्तरशतं षण्णवतिः पश्शनवतिः त्रिनवतिःचतुरशीतिः व्यशीतिः / ननुषण्णवतिस्तीर्थकरनामसहिता भवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते? उच्यते-इह कश्चित् नरकेषु बद्धायुष्कः पश्चात्सम्यक्त्वं प्राप्य, तन्निमित्तं तीर्थकरनामकर्म बद्धा नरकाभिमुखः सन् सम्यक्त्व त्यक्त्वा मिथ्यादृष्टिजतिः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं प्रतिपद्यते, ततोऽन्तर्मुहूर्त कालं यावत् षण्णवतिमिथ्यादृष्टी प्राप्यते, आहारक सप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते। उक्तं च- 'उभए संतिन मिच्छो' इति ततस्त्रयुत्तरशतं मिथ्यादृष्टौ न प्राप्यते / तथा-द्वयोः सासादनसम्यग्मिथ्यादृष्टिगुणस्थानकयो· द्वे प्रकृतिसत्कर्मस्थाने, तद्यथा व्युत्तरशतं पञ्चनवतिश्च / तथा-पञ्चसु अविरतसम्यग्दृष्टिगुणस्थानकप्रभृतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि। तद्यथा-त्र्युत्तरशतं द्व्युत्तरशतं षण्णवतिः पञ्चनवतिः / शेषाणि क्षपक श्रेण्यामेकेन्द्रियादौ च संभवन्तीति कृत्वा इह न प्राप्यन्ते। तथा द्वयोरनिवृत्तिबादरसूक्ष्मसम्परायलक्षणयोर्गुणस्थानकयोरष्टकम्, अष्टो प्रकृतिसत्कर्मस्थानानि। तद्यथा-व्युत्तरशतं द्व्युत्तरशतं षण्णवतिः पञ्चनवतिः नवतिः एकोननवतिः त्र्यशीतिः ट्यशीतिश्च / तत्रानिवृत्तिबादरस्यामिानि चत्वारि उपशमश्रेण्यां क्षपक श्रेण्या वा यावन त्रयोदशकं क्षीयते, शेषाणि पुनः क्षपकश्रेण्यामेव। सूक्ष्मसम्परायस्यादिमानि चत्वारि उपशमश्रेण्यां, शेषाणि तु क्षपक श्रेण्याम्। तथा-त्रिषु उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति / तत्रोपशान्तमोहे इमानि चत्वारि, तद्यथा व्युत्तरशतं द्व्युत्तरशतं षण्णवतिः पञ्चनवतिः / क्षीणमोह सयोगिकेवलिंनोः पुनरमूनि, तद्यथा-नवतिः एकोननवतिः त्र्यशीतिः ट्यशीतिश्च / 'छत्तु अजोगम्मिठाणाणि त्ति अयोगिकवलिनिषट्प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिः एकोननवतिः त्र्यशीतिः व्यशीतिः नव अष्टौ चेति। एतेषामादिमानिचत्वारि अयोगिकेवलिद्विचरमसमयं यावत्, चरमसमये तु
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy