________________ संतकम्म 130 - अभिधानराजेन्द्रः - भाग 7 संतकम्म षु संख्येयेषु गतेषु सत्सु स्त्रीवेदः क्षीयते, सोऽपि यावत्क्षयं न याति तावत्सन, एवं स्त्रीवेदेन पुरुषवेदेन या क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम्। नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदी युगपत्क्षयमुपगच्छतः, यावच्च न क्षयमुपगच्छतस्तावत्सन्तौ / उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानक यावत्सन्तौ / ततः स्त्रीवेदक्षयानन्तरं संख्येयेषु स्थितिखण्डेषु गतेषु सत्सु हास्यादिषट्वं युगपत्क्षयमुपयाति, ततः समयोनावलिकाद्विकातिक्रमे पुरुषवेदः / एवं पुरुषवेदेन क्षपक श्रेणि प्रतिपन्नस्य द्रष्टव्यम्। स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं प्रतिपन्नस्य पुनः पुरुषवेदो हास्यादिषट्कं च युगपत्क्षीयते / ततः पुरुषवेदक्षयानन्तरं संख्येयेषु स्थितिखण्डेषु गतेषु सत्सु संज्वलनक्रोधः क्षयमुपयाति। ततः पुनरपि संख्येयेषु स्थितिखण्डेषु गतेषु सत्सु संज्वलनमानः / ततोऽपि संख्येयेषु स्थितिखण्डेषु गतेषु संज्वलनमाया। यावच्च हास्यादिप्रकृतयः क्षय नोपयान्ति तावत्-सत्यः / 'तणुरागतो त्ति लोभो य' लोभः संज्वलनलोभो यावत्तनुरागान्तः सूक्ष्मसंपरायगुणस्थानकान्तः तावत् सन् वेदितव्यः, परतोऽसन् / उपशमश्रेणिमधिकृत्य पुनर्हास्यादिप्रकृतयः सर्वा अपि उपशान्तमोहगुस्थानकं यावत् सत्योऽवसेयाः। मणुयगइजाइतसबा-यरं च पज्जत्तसुभग आएजं / जसकित्ती तित्थयरं, वेयणिउच्चं च मणुयाणं |8|| भवचरिमस्समयम्मि उ, तम्मग्गिल्लसमयम्मिसेसा उ। आहारगतित्थयरा, भजादुसुनऽऽस्थि तित्थयरं111 'मणुयगई' त्यादि मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभ - गादेययशःकीर्तितीर्थकरान्यतरवेदनीयोचैर्गोत्रमनुष्यायूरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति अयोगिकेवलिचरमसमय यावत् विद्यन्ते परताऽसत्य इत्यर्थः / शेषाः पुनरुक्तव्यतिरक्तिाः सर्वा अपि त्र्यशीतिसंख्याः / 'तम्मग्गिल्लसमयम्मि,' ति भवचरमसमयपाश्चात्यसभयेऽयोगिकेवलिद्विचरमसमये इत्यर्थः सत्यो भवन्ति, वरमसमये त्वसत्यः / आहारकतीर्थकरनामनी सर्वेष्वपि गुणस्थानकेषु भाज्ये / द्वयोःपुनर्गुणस्थानकयोः सासादनसम्यड् मिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तरूपे गुणस्थानकद्विके गमनासम्भवात्। तदेवमुक्तमेकैकप्रभृतिसत्कर्म / सम्प्रति प्रकृतिस्थानसत्कर्म प्ररूपणार्थमाहपढमचरिमाणमेगं, छन्नव चत्तारि वीयगे तिन्नि। वेयणियाउयगोए-सु दोन्नि एगो त्ति दो होति / / 10 / / 'पढम'त्ति-प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मक स्थानम् / तच क्षीणकषायचरमसमयं यावत्सत्, परतोऽसत् / तथाद्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा-षट् नव चतरत्रः। तत्र सकलदर्शनावरणीयप्रकृतिसमुदायो नव / ताश्च नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावत् रात्यः / क्षपक श्रेणिमधिकृत्य पुनरनिवृत्तिबादरसम्परायाद्धाया यावत संख्येयभागस्तावत्सत्यः, परतः स्त्यानद्धित्रिकज्ञये षट् भवन्ति। ताश्च तावत्सत्यो यावत् क्षीणकषायस्य द्विचरमसमयः। तस्मिन् द्विचरमसमये। निद्राप्रचले व्यवच्छिद्येते। ततश्चरमसमये चतस्र एव सत्यः / ता अपि तत्र व्यवच्छिद्यन्ते। तथा वेदनीयायुर्गोत्राणां द्वे प्रकृतिस्थाने तद्यथा द्वे एका च / तत्र वेदनीयस्य यावदेकं न क्षीणं तावत् द्वे सत्यौ / एकस्मिस्तु क्षीणे एका / गोत्रस्य यावदेकं न क्षीणम् उदलितं तावत् द्वे सत्यौ। नीचैर्गोत्रे क्षपिते उच्चैर्गोत्र वा उद्भलिते पुनरेका सती। आयुषस्तु यावद्राद्धमायुनोंदति तावत् द्वे प्रकृती सत्यौ उदिते तु तस्मिन् प्राक्तनं क्षीणमिति एका प्रकृतिः। सम्प्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाहएगाइजाव पंचग-मिक्कारसवार तेरसिगवीसा। विय तिय चउरो छ स-त्त अट्ठवीसाय मोहस्स।११।। 'एगाई' ति-मोहनीयस्य पञ्चदशप्रकृतिसत्कर्मस्थानानानि / तद्यथा एका द्वे तिस्रः चतस्रः पञ्च एकादश द्वादश त्रयोदश एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विशतिः षड्विंशतिःसप्तविंशतितिरष्टाविंशतिश्चेति / एतानि सुखावबोधार्थे गाथाक्रमवैपरीत्येन भाव्यन्ते, तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। सम्यक्त्वे उद्वलिते सप्तविंशतिः / ततोऽपि सम्यड् मिथ्यात्वे उद्घलितेषदिशतिः / अथवा अनादिमिथ्यादृष्ट षड्रिंशतिः / अष्टविंशतिरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः / ततो मिथ्यात्वे क्षीणे त्रयोविंशतिः। ततः सम्यगमिथ्यात्वे क्षीणे द्वाविंशतिः / ततः सम्यक्त्वे क्षीणे एकविंशति। ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश। ततो नपुसकवेदे क्षीणे द्वादश / ततः स्त्रीवेदे क्षीणे एकादश / ततः षट्सु नोकषायेषु क्षीणेषु पञ्च। ततः पुरुषवेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः / ततः संज्वलनमाने क्षीणे द्वे / संज्वलनमायायां च क्षीणायामेका। सम्प्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्नाहतिन्नेग तिगं पणगं, पणगं पणगंच पणगमह दोन्नि। दस तिन्नि दोन्नि मिच्छा-इगेसु जावोवसंतो त्ति // 12 // 'तिन्नेग' त्ति-यावदुपशान्तमोहगुणस्थानकं तावन्मिथ्यादृष्ट्या-दिषु गुणस्थानकेषु यथासंख्य व्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति / तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि / तद्यथाअष्टाविंशतिः, सप्तविंशतिः, षड्विशतिश्च / एतानि प्रागेव भादितानि / सासादनसम्यग्दृष्टिगुणस्थानके एकं प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् / सम्यगमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशतिश्चतुर्विशतिश्च / इह योऽष्टाविंशतिसत्कर्मा सन् सम्यगमिध्यात्वं गतस्तमाश्रित्याष्टाविंशतिः / येन पुनर्मिथ्यादृष्टिना सता पूर्व सम्यक्त्वमुदलितं ततः सप्तविंशतिसत्कर्मणा सता सम्यमिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः / चतुर्विशतिसत्कर्मणा सम्यग मिथ्यादृष्टिं प्रतीत्य पुनश्चतुर्विशतिः प्राप्यते / तथाऽविरत-सम्यग दृष्टि गुणस्थानके पशप्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विशतिः त्रयोविं