________________ संतकम्म 126 - अमिधानराजेन्द्रः - भाग 7 संतकम्म संतकम्म न० (सत्कर्मन्) उदयप्राप्तस्य कर्मणस्सत्तायाम्, क०प्र०। सम्प्रति सत्ताभिधानावसरः, तत्र चेमेऽर्थाधिकाराः। तद्यथा-भेदः, साद्यनादिप्ररूपणा, स्वामित्वं चेति। तत्र भेदनिरूपणार्थमाहमूलुत्तरपगइगय, चउव्विहं संतकम्ममवि नेयं धुवमद्भवणाईयं, अट्ठण्हं मूलपगईणं / / 1 / / 'मूलत्तर' त्ति-सत्कर्म द्विधा-मूलप्रकृतिगतम्, उत्तरप्रकृतिग तं च / तत्र मूलप्रकृतिगतमष्टप्रकारं, तद्यथा-ज्ञानावरणीयम्, दर्शनावरणीयमित्यादि / उत्तरप्रकृतिगतमष्टपञ्चाशदधिकशतप्रकारम्, तद्यथा-मतिज्ञानावरणीयमित्यादि / पुनरेकैकं चतुर्विधम्, तद्यथाप्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म च / तदेवमुक्तो भेदः। सम्प्रति साद्यनादिप्ररूपणार्थमाह- 'धुवे' त्यादि अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा, तद्यथा-ध्रुवमधुवमनादि च / तत्रानादित्वं सदैव भावात्। ध्रुवाध्रुवताऽभव्यभव्यापेक्षया / सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाहदिट्ठिदुगाउगछग्गति, तणुचोद्दसगं च तित्थगरमुच्चं। दुविहं पढमकसाया, होति चउद्धा तिहासेसा / / 2 / / 'दिट्टिदुग' त्ति-दृष्टिद्विकं सम्यक्त्वसम्यड्मिथ्यात्वरूपं, आयूंषि चत्वारि, 'छग्गइ'त्ति मनुष्यद्विकं देवद्विकं नरकद्विकंच, तनुचतुर्दशक वैक्रियसप्तकाहारकसप्तकरूपम्, तथा-तीर्थकरनामोचैर्गोत्रं च, एतासामष्टाविंशतिप्रकृतीनां सत्कर्म द्विविध-द्विप्रकारं, तद्यथा-सादि, अध्रुवं च / साद्यध्रुवता चाध्रुवसत्कर्मत्वादवसेया। तथा-प्रथमकषाया अनन्तानुबन्धिनः सत्कर्मापेक्षया चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा, अधुवाश्च / तथाहि-ते सम्यग्दृष्टिना प्रथममुदलिताः, ततो मिथ्यात्वं गतेन यदा भूयोऽपि मिथ्यात्वप्रत्ययेनबध्यन्ते, तदा सादय / तत्स्थानमप्राप्तस्य पुनरनादयः / ध्रुवाध्रुवता पूर्ववत् / तथा शेषाः षड्विंशतिशतस ख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा-त्रिप्रकाराः, तद्यथा-अनादयो ध्रुवा अध्रुवाश्च / तत्रानादित्वं ध्रुवसत्कर्मत्वात्। ध्रुवाध्रुवता पूर्ववत्। तदेवं कृता साद्यनादिप्ररूपणा। सम्प्रति स्वामित्वं वक्तव्यम्। तच द्विधा-एकैकप्रकृतिगतं,प्रकृतिस्थानगतं च। तत्रैकैकप्रकृतिगतं स्वामित्वमभिधित्सुराहछउमत्थंता चउदस, दुचरमसमयम्मि अत्थिदो निदा। बद्धाणि ताव आउ-णि वेझ्याइंतिजा कसिणं // 3 // 'छउमत्थंत' ति-ज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्ट्यरूपाश्चतुर्दश प्राकृतयः छद्मस्थान्ताः क्षीणकषायवीतराग-- छदास्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः / परतस्तासामभावः / एवमुत्तरत्राप्युक्तगुणस्थानकात्परतोऽभावो वेदितव्यः। तथा द्वे निद्रे क्षीणकषायवीतरागछद्मस्थगुणस्थानकद्विचरमसमयं यावत्सत्यौ स्तः। आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत्कृत्संनिरवशेष वेदितानि न भवन्ति। तिसु मिच्छत्तं नियमा, अट्ठसुठाणेसु होइ मइयव्वं / आसाणे सम्मत्तं, नियमासम्मंदससु भजं // 4|| 'तिसु' त्ति त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यग्मिथ्यादृष्टिलक्षणेषु नियमादवश्यतया मिथ्यात्वं सत्-विद्यमानम् / शेषेषु पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् / तथाहि-अविरतसम्यग्दृष्ट्यादिना क्षपिते न भवति, उपशान्ते तु भवति / क्षीणमोहादिषु पुनस्तस्यावश्यमभावः / तथाआसादने सासादने सम्यक्त्वं नियमांदस्ति / दशसु पुनगुणस्थानकेषु मिथ्यादृष्ट्याद्युपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यं कदाचिद्भवति कदाचिन्न भवतीत्यर्थः / तथाहि-मिथ्यादटावमव्ये न भवति, भव्येऽपि कदाचिद्भवति कदाचिन्न / तथासम्यगमिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे उद्वलितेऽपि भवति, ततस्तत्रापि तद्भाज्यम् / अविरतादिषु पुनः क्षपकेषु न भवति, उपशमकेषु तु भवति, अतस्तत्रापि तद्भाज्यम्।। बिइय-तइएसु मिस्सं, नियमा ठाणनवगम्मि भयणिज्जं / संजोयणाउ नियमा, दुसु पंचसुहोइ भइयव्वं / / 5 / / 'बिइय' त्ति-द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यगमिथ्यात्वं नियमादस्ति / यतः सासादनो नियमादष्टाविंशतिसत्कर्मव भवति, सम्यड् मिथ्यादृष्टिश्च सम्यगमिथ्यात्वं विना न भवति, ततः सासादने सम्यगमिथ्यादृष्टौ च सम्यमिथ्यात्वमवश्यमस्ति / स्थाननवकेगुणस्थानकनवके मिथ्यादृष्ट्यविरतसम्यग्दृष्ट्यादौ उपशान्तगुणस्थानकान्ते भजनीयं,कदाचिद् भवति कदाचिन्न भवति / भावना च प्रागुक्तप्रकारेण स्वयमेव कर्त्तव्या, सुगमत्वात्। तथा संयोजना अनन्तानुबन्धिनोईयोमिथ्यादृष्टिसासादनयोर्नियमाद्भवन्ति / यत एताववश्यमनन्तानुबन्धिनो बध्नाति पञ्चसुपुनर्गुणस्थानकेषु सम्यङ् मिथ्यादृष्ट्यादिष्वप्रमत्तसंयतपर्यन्तेषु भजनीयाः। यदि उद्वलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः। खवगानियहि अद्धा, संखिज्जा होति अट्ठवि कसाया। निरयतिरियतेरसगं, निदा निहातिगेणुवरि // 6 // 'खवग' त्ति-क्षपकस्य अनिवृत्तिबादरसम्परायाद्धाया यावत् संख्येया भागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्यानसंज्ञाः कषायाः सन्ति / परतो न विद्यन्ते, क्षीणत्वात् / उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सन्तो वेदितव्याः। निरयतिर्यगेकान्तप्रायोग्यं यन्नामत्रयोदशकं नरकतिकतिर्यगद्विकैकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपं निद्रानिद्रात्रिकेण सह संयुक्तं कषायाष्टकक्षयादुपरिस्थितिखण्डेषु सहस्रेषु गतेषु सत्सु युगपत्क्षयमेति। ततो यावन्न क्षयं याति तावत् सत्, क्षये च सति असत्। उपशमश्रेण्यां पुनरेताः षोडशापि प्रकृतय उपशान्तमोहगुणस्थानकं यावत् सत्यो वेदितव्याः। अपुमित्थी' समंवा, हासच्छक्कं च पुरिससंजलणा। पत्तेगं तस्स कमा, तणुरागतो तिलोभो य|७|| 'अपुमित्थीए' त्ति-पूर्वोक्तप्रकृतिषोडशक क्षयादनन्तरं संख्ये येषु स्थितिखण्डे षु गतेषु सत्सु नपुंसक वेदः क्षीयते, यावच नक्षीयते तावत् सन् / ततः पुनरपि स्थितिखण्डे -