________________ संजोयणा 121 - अभिधानराजेन्द्रः - भाग 7 संजोयणा सम्प्रत्यस्या एव द्रव्यसंयोजनाया अपवादमाहपत्तेय पउरलम्भे, भुत्तुव्वरिए य सेसगमणऽट्ठा। दिह्रो संजोगो खलु,अह कमो तस्सिमो होइ // 640 / / प्रत्येकम्-एकैकं साधुसंघाटकम् प्रति प्रचुरलाभेविपुलघृतादि-प्राप्ती सत्यां यदि कथमपि भुक्त सति चः-समुच्चये शेषम्-उदरितं भवति, ततस्तस्य शेषस्य निर्गमनार्थ दृष्टः-अनुज्ञात-स्तीर्थकरादिभिः खलु संयोगः, उद्वरितं हि घृतादि न खण्डादिक-मन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते प्रायस्तृप्तत्वात्, न च परिष्ठापनं युक्तं, घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि की-टिकादिसत्त्वव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात्तत उद्वरितघृतादिनिर्गमनार्थ खण्डादिभिरपि तस्य संयोजनं न दोषाय, एष तावदयमपवादः संयोजनायाः। अथान्योऽपि तस्य संयोगस्यायं वक्ष्यमाणः क्रमो -भवनपरिपाटीरूपो भवति। तमेवाहरसहेउं पडिसिद्धो, संयोगो कप्पए गिलाणऽट्ठा। जस्स व अभत्तछंदो, सुहोचिओऽभाविओ जो य॥६४१।।। रसहेतोः- गृङ्ख्या रसविशेषोत्पादनाय संयोगःप्रतिषिद्धस्तीर्थकरादिभिः, यावता पुनः स एव संयोगो ग्लानार्थ-ग्लानसञ्जीक-रणार्थ कल्पते,यद्वा-यस्य अभक्तच्छन्दः-भक्तारोचकः, यश्च सुखोचितो राजपुत्रादिः यश्चाद्याप्यभावितः-असञ्जातसम्य-क्परिणामः शैक्षकस्तस्य निमित्त कल्पते / उक्तं संयोजनाद्वारम्। पिं० / व्य० / पं०चू० / महा० / ग० / आचा० / अनन्तानुबन्धिक-षायेषु, पं०सं०३ द्वार। संयोज्यते-सम्बध्यतेऽनेकसंख्यैर्भव-जन्तवो यैस्ते संयोजनाः। संयोजयत्यात्मनोऽनन्तमपि कालमिति "रस्यादिभ्यः कर्तरि" इत्यनटि प्रत्यये संयोजना / कर्म० 5 कर्म०। “संजोयणाए कसाया भवादिसंजोयणातो य।" आ०म०१ अ० / एकजातीयातिचारमीलते, तथा-शय्यातरपिण्डो गृहीतः सौ ह्यु-दकाहस्तादिना सौम्याद्भुतः सोऽप्याधाकर्मिकः तत्र यत्प्रायश्चित्तं तत्संयोजनाप्रायश्चित्तम् संयोजनोच्यते / स्था० 4 ठा० 1 उ० / कथं संयोजना पृथक् प्रायश्चित्तमुच्यते / अधुना संयोजनाप्रायश्चित्त वक्तव्यम् / अस्मिश्व व्याख्याते यतः प्ररूपणापृथक्वमित्येतदपि द्वारं व्याख्यातं द्रष्टव्यम्। तत्र चोदकःसंयोजनाऽऽदीनां भेदानां प्ररूपणापृथक्त्व माक्षिपन्नाहपडिसेवणं विणा खलु, संजोगाऽऽरोवणा न दिजंति। माया विय पडिसेवा, अइप्पसंगो य इति एक्कं // 137 / / इह प्रायाश्वतं सर्वमुत्पद्यते, प्रतिसेवनातो, खलु मूलगुणगुणप्रतिसेवनाम, उत्तरगुणप्रतिसेवनां वा विना क्वापि प्रायश्चित्तस्य संभवः "पडिसेवियम्मि दिइ पच्छित्तं इहरहाउपडिसेहो" इति वचनात्, ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तं च प्रतिसेवनामन्तरेण न भवतीति तयोः सम्प्रति प्रतिसेवनायामेवान्तर्भावः / प्रतिकुश्च-नाप्रायश्चित्तमपिन प्रतिसेवनातः पृथगुपपन्न यतः प्रतिकुञ्चना-नाम-माया। तथा चोक्तम् "पलिउंचण ति य माय त्ति य नियडि ति य एगट्ठा इति।" माया च प्रतिसेवना ततः एकमेव प्रतिसेवन-प्रायश्चित्तमुपपत्तिमत् न शेषाणि त्रीणि संयोजनादीनि पृथक प्राय-श्चित्तानि, अन्यथैवमतिप्रसङ्ग आपद्यते / तथाहि-संयोजनादीनि त्रीणि प्रायश्चित्तानि प्रतिसेवना रूपाणि भवन्त्यपि प्रतिसेवना भ-वन्ति / ततः प्रतिसेवनाऽपि न प्रतिसेवना स्यात् विशेषाभावात् / अनिष्ट चैतत्तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना न शेषाणीति। एवं चोदकेनाऽऽक्षिप्ते प्ररूपणापृथक्त्वे सूरिरुत्तरमाहएगाहिगारिगाण वि, नाणत्तं केत्तिया व दिजंति। आलोयणाविही वि य, इय नाणत्तं चउण्हं पि॥१३८|| ऐकाधिकारिकाणि नाम एकस्मिन् शय्यातरपिण्डादायधिकृतदोषेऽनालोचिते एवं यानि शेषदोषसमुत्थितानि प्रायश्चितानि तान्य काधिकारिकाणि- एकाधिकारे भवान्यै काधिकारिकाणि अध्यात्मादित्वादिकणिति व्युत्पत्तः, तेषामप्यैकाधिकारिकाणां नानात्वं, न पुनरैकाधिकारिकतया एकत्वमिति प्रज्ञानाय तदर्थ संयोजनाप्रायश्चित्तं पृथगुच्यते। नानात्वमेव गाथाद्येन दर्शयतिसेज्जातरपिण्डे य, उदउल्ले खलु तहा अमिहडे य। आहाकम्मे य तहा, सत्त उसागारिए मासा॥१३६।। केनापि साधुना प्रथमतः शय्यातरपिण्ड उपभुक्तः तस्मिन्ननालोचित एव तदनन्तरमुदकामासेवितं, ततोऽभ्याहतं, तदनन्तरमाधाकमिकम्, एतानि चत्वार्यप्यकाधिकारिकाणि अधिकृत एव शय्यातरपिण्डदोघे अनालोचिते शेषदोषप्रायश्चित्तानां संभ-वात् / एतेषां चैकाधिकारिकाणामपि नानात्वं नतु शय्यातरपिण्डे एव शेषाण्यन्तभवन्ति। ततः सर्वाण्यपि पृथगालोचनीयानि न केवल एवैकः शय्यातरपिण्ड इति परिज्ञानाय संयोजना दर्शाते तत्र शय्यातरपिण्डे मासलघु, उदकाईऽपि मासलघु / स्वग्रामा-दाहृतेऽपि मासलघु। आधाकर्मिमके चत्वारो गुरुमासाः। “गुरुगा आय” इति वचनात्। एवं शय्यातरपिण्डे अधिकृते संयोजनाप्रायश्चित्तं सप्त मासास्तथाचाह- "सत्त उ सागारिए मासा" सागारिको नाम-शय्यातरस्तस्मिन्सागारिके-सागारिकपिण्डे अधिकृते एकाधि-कारिकाणामपि नानात्वात् संयोजनाप्रायश्चित्तं सप्त मासाः। रण्णो आहाकम्मे, उदउल्ले खलु तहा अभिहडे य। दसमास रायपिंडे, उग्गमदोसादिणो चेव।।१४०।। केनापि प्रथमतो राजपिण्ड उपभुक्तस्ततस्तैनैव राजपिण्डे उपभुक्ते अनालांचित एव आधाकर्मिकमुपभुक्तं तदनन्तरमुदका ततोऽभ्याहृतमेवमेतान्यपि चत्वार्यकाधिकारिक ाणि, अधिकृत एवं-राजपिण्डदोषे शेषदोषाणां सम्भवात् / एतेषां च नानात्व-मिति पृथगालोचनायां संयोजना दर्श्यन्ते-राजपिण्डे चत्वारो गुरुमासाः, आधाकर्मिक ऽपि चत्वारो गुरुमासौः / उदकार्दै लघु-मासः / अभ्याहृतेऽपि लघुमासः इत्यधिकृते राजपिण्डे उद्गमदो-षादिना उद्गमदोषेण आदिशब्दादुत्पादनादोषेणैषणादोषेण चशब्दादन्येन च १-पुस्तकान्तर- 'आलोवणाविहीं विय, इय णाणत्तं चउण्इं पि'