________________ संजोग 120 - अभिधानराजेन्द्रः - भाग 7 संजोयणा ति।ताहे सो वि संवेगमावन्नो ममं पिएमेव विप्पजहिस्संति त्ति पव्वइतो। तत्थ एगेण वि विप्पओगेण लद्धं एगेण संजोगेण सामाइयं लद्धं ति।' आ०म० 1 अ० / “अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्। अधुना पृथिवी नास्ति, संयोगाः खलु दुर्लभाः" ||1|| गा० / संजोगगम त्रि०(संयोगगम) संयोगगम संयोगतो गमः प्रकारो यस्य तत्तथा / व्य० 1 उ० / संयोगतोऽनेकप्रकारे, व्य० 1 उ० / संजोगट्टि(ण) त्रि० (संयोगार्थिन्) संयुज्यते संयोजन वा प्रयो-जनं सोऽस्यास्तीति संयोगार्थी। तत्र धनधान्य हिरण्यद्विपदचतुष्पदराजभार्या दिसंयोगस्तेनार्थी तत्प्रयोजनः / अथवा-शब्दादिविषयःसयोगो मातापित्रादिभिर्वा तेनार्थी / संयोगप्रयोजिनि, व्य० 5 उ०। संजोगदिट्ठपाढि पुं० (संयोगदृष्टपाठिन्) संयोग औषधद्रव्यमीलनप्रयोगस्तद्विषयो दृष्टः पाठश्चिकित्साशास्त्रावयवविशेषो येन सः आर्षत्वाद् इन्प्रत्यः / बृ०१ उ०२ प्रक०ा क्रियाशास्त्रयोर्निपुणे यो ह्यनेकान् संयोगान् व्यापार्यमाणान् दृष्टवान्यश्च तत्पाठं पठितवान् तादृशे, व्य०५ उ०। संजोगमूला स्त्री० (संयोगमूला) संयोगो नानाभवेषु पुत्रकलत्रमि शरीरादिसम्बन्धरूपः स एव मूलं यासा ताः संयोगमूलाः / संयोगकारणीभूतायां स्त्रियाम्, आतु०। संजोगरय त्रि० (संयोगरत) पुत्रकलत्रमित्रादिजनितसम्बन्धरते, आचा० १श्रु० 4 अ० 1 उ०। संजोगसंबंध पुं० (संयोगसम्बन्ध) संयोगस्य संबन्धोऽभिलाषः। नानाभवेषु पुत्रकलत्रमित्रशरीरादिसम्बन्धेच्छायाम्. आतु० / संजोणिय त्रि० (संयोनिक) सह योन्युत्पत्तिस्थानेन वर्तते इति संयोनिकः / संसारिणि, स्था० 2 ठा० 1 उ०। संजोत्ता पुं० (संयोजयिता) संयोग कारयितरि, स्था० 6 ठा० ३उ०। संजोयणा स्त्री० (संयोजना) लोभाद् द्रव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना वसतेर्बहिरन्तर्वा योजन संयोजना / ध०३ अधि० / संयोजनं संयोजना। उत्कर्षतोत्पादनार्थं द्रव्यस्य द्रव्यान्तरेण मीलने, प्रव०६३ द्वार / पं० प० / पिं० / भक्तादेर्गुणान्तरोत्पादनीयद्रव्यान्तरमीलने, पञ्चा० 13 विव० / ग्रासैषणायाः प्रथमे दोषे, यथाक्षीरदधिघृतादि द्रव्यं सम्मील्य रसलौल्येन भुक्ते / उत्त० 24 अ० / जीत० / नि०चू० 1 पिं०। संप्रति संयोजनामेव व्याचिख्यासुःप्रथमतस्तस्या निक्षे पमाहदव्वे भावे संजो-अणा उदध्वे दुहा उ बहि अंतो। भिक्खं चिय हिंडतो, संजोयं तम्मि वाहिरिया / / 636|| संयोजना द्विधा, तद्यथा-द्रव्ये-द्रव्यविषया, भावभावविषया। तत्र द्रव्येद्रव्यविषया संयाजना द्विविधा, तद्यथा-बहिरन्तश्च। तत्र यदा भिक्षार्थमेव हिण्डमानः सन् क्षीरादिकं खण्डादिभिः सह रसगृझ्या रसविशेषोत्पादनाय संयोजयति एषा बाह्याबहिर्भया संयोजना। एनामेव स्पष्ट भावयतिखीरदहिसूवकट्टर-लंभे गुडसप्पिवडगवालुंके। अंतो उ तिहा पाए, लंबणवयणे विभासा उ॥६३७।। क्षीरदधिसूपानां प्रतीतानां कट्टरस्य तीमनोन्मिश्रघृतवटिकारूपस्य देशविशेषप्रसिद्धस्य लाभे सति तथा गुडसर्पिर्यटकवालुङ्कनां च प्राप्ती सत्यां रसगृङ्ख्या रसविशेषोत्पादनायानुकूलद्रव्यैः सह संयोजना यत्करोति वहिरेव भिक्षामटन् एषा बाह्या द्रव्यसंयोजना। अभ्यन्तरा, पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति, तथा चाह-अन्तस्तु अभ्यन्तरा, पुनः संयोजना त्रिधा-त्रिप्रकारा, तद्यथा-पात्रे लम्बने वदने च, नवरं लम्बन-कवलः, ततोऽस्या-स्त्रिविधाया अपि विभाषाव्याख्या कर्त्तव्या। सा चैवं यद्रव्यं यस्य द्रव्यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृङ्ख्या संयोजयति, यथा-सुकुमारिकादिकं खण्डादिना सह, एषा पात्रेऽभ्यन्तरासंयोजना, यदातुहस्तगतमेव कवलतयोत्पाटितचूर्णं सुकुमारिकादि खण्डादिना सह संयोजयति तदा कवलेऽभ्यन्तरा संयोजना। यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा-मण्डकादिकं पूर्व प्रक्षिप्य पश्चाद् गुडादिकं प्रक्षिपति एषा वदनेऽभ्यन्तरा संयोजना। एषा च द्रव्यसंयोजना समस्ताऽप्यप्रशस्ता यतोऽनयाऽऽत्मानं रागद्वेषाभ्यां संयोज्यति। तथा चामुमेव दोषं वक्तुकाम आहसंजोयणाए दोसो, जो संजोएइ भत्तपाणं तु। दव्वाईरसहेउं, वाधाओतस्सिमो होइ।।६३८|| संयोजनायां प्रागुक्तस्वरूपायामयं दोषः- 'दव्वाइरसहेउ' ति, अत्रार्षत्वादादिशब्दस्य व्यत्यासेन योजना। ततोऽयमर्थः-द्रव्यस्य सुकु मारिकादेः रसहेतोः-रसविशेषोत्पादनाय, आदिशब्दाच्छुभगन्धादिनिमित्तं च, यो भक्तं पानं चानुकूलद्रव्येण खण्डादिना सह संयोजयति तस्य साधोरयं वक्ष्यमाणः व्याघातः-दीर्घदुःखोपनिपातरूपो भवति। तमेव भावयन् भावसंयोजनामप्याहसंजोयणा उभावे, संजोएऊण ताणिदव्वाई। संजोयइ कम्मेणं, कम्मेण भवंतओ दुक्खं॥६३६।। तानि हि सुकुमारिकाखण्डादीनि द्रव्याणि रसगृङ्ख्या संयोजयन्नात्मानमप्रशस्तेन गृद्ध्यात्मकेन भावेन संयोजयति, एषा भावे भावविषया संयोजना, ततस्तानि द्रव्याणि तथा संयोज्यात्मनि कर्म ज्ञानावरणीयादिकं संयोजयति सम्बध्नाति कर्मणा च संयोजयति भवं दीर्घतरं संसारं तस्माच्च भवाद्दीर्घतरसंसाररूपात् दुःखम् -अज्ञात संयोजयति, ततो यो द्रव्यसंयोजनां करोति तस्येत्थमनन्तकालसंवेद्यो दुःखनिपात इति।