________________ संजोग 118 - अभिधानराजेन्द्रः - भाग 7 संजोग नामादिसंयोगानामजीवविषयत्वेऽपि च शीतोष्णादिविरोधिसंयोगाना सम्बन्धनसंयोगत्वं न विरुध्यते। आह-एवमभिप्रेतानभिप्रेतसंयोगयोरपि तत्त्वतः सकषायजीवविषयत्वात् सम्बन्धनसंयोगत्वप्राप्तिः, सत्य, तथापीन्द्रियमनसोः साक्षात्तावुक्तौ, अयं तु जीवस्येति न दोषः / अन्यस्त्वाह-संयुक्तकसंयोगोऽपि द्विष्ठत्वेनेतरेतरस्यैव तथेतरेतरसंयोगोऽपि स्वपरधर्मःसंयुक्तत्वात् सर्ववस्तुनः संयुक्तस्यैवेति नानयोः प्रतिविशेषः, एवमेतत्, तथाऽप्येकस्कन्धताऽऽपन्नद्रव्यविषयैः संयुक्तकसंयोगः, इतरेतरसंयोगस्तु तथाऽन्यथा च, तत्र परमाणुसंयोगस्तथा, प्रदेशादिसंयोगस्तुप्रायोऽन्यथेति युक्तएव तयोर्भेदः। एवं तर्हि परमाणुसंयोगस्य संयुक्तकसयोगादभेदोऽस्तूभयोरपि एकस्कन्धताsऽपन्नद्रव्यविषयत्वात्, अयमपि न दोषः, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि) निष्पाद्यमानत्वात्, संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्य-स्त्यनयोर्विशेष इति गाथार्थः / इत्थं सम्बन्धनसंयोगः स्वरूपत उक्तः,सम्प्रतितस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यच तेषा फलं तदाहसंबंधणसंजोगो, संसाराओ अणुत्तरणवासो। तं छित्तु विप्पमुक्का, माइपिइसुआइय हवंति।।६।। सम्बन्धनसंयोगः उक्तरूपः संसरन्त्यस्मिन् कर्मवशवर्दिजन्तव इति संसारस्तस्मात्, न विद्यते उत्तरणं-पारगमनमस्मिन सतीत्यनुत्तरणः, स चासौ वासश्च-अवस्थानमनुत्तरणवासः, अनुत्तरणवासहेतुत्वादायुघृतमित्यादिवदनुत्तरणवासः, अथवा- 'अनुत्तरणवासो' त्ति आत्मनः पारतन्त्र्यहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्चासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्ष-त्वेऽपिगमकत्वात् समासः, अनेन संसारावस्थितिः पारवश्यं वा सम्बन्धनसंयोगस्यार्थतः फलमुक्तम्।तम्-एवंविधं सम्बन्धन-संयोगम, अर्थाद् औदयिकभावविषयं मात्रादिविषयं च छित्त्वा द्विधा विधाय निर्णाश्येति यावत्, किमित्याह-विप्रमुक्ताः, श्रुतत्वादनन्तरोक्तसम्बन्धनसंयोगादेव, केते, ?साधवः-अन-गाराः, येनैवं तेन किमित्याह-मुक्ताः ततः संसारात्, तद्धेतुक-त्वात्तस्य, तेन हेतुना, अनेन च गाथापश्चार्धन सम्बन्धच्छेदनल-क्षणेन प्रकारेण विप्रमुक्ता भवन्ति, तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति / यच्च विप्रमुक्तस्येत्येकत्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्वख्यापनार्थमिति गाथार्थः। एवं 'संजोगे निक्खेवो' इत्यादि मूलगाथोपक्षिप्तसंयुक्तकसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोग निरूप्य तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम्, इतरेतरसंयोग तुपरमाणुप्रदेश-भिप्रेतानभिप्रेताभिलापसम्बन्धनविधानतः षड्विधमभिधाय सम्बन्धनसंयोग एव च साक्षात् कर्मसम्बन्धनिबन्धनतया संसारहेतुरिति तत् त्याज्यतां च / / सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादि निक्षेपमविशिष्टमतिदेष्टुमाह संबंधणसंजोगे, खित्ताईणं विभासों जा भणिया। खित्ताइसु संजोगो, सो चेव विभासियव्वो अ॥६३।। सम्बन्धनसंयोगे क्षेत्रादीनाम्, आदिशब्दात्-कालभावपरिग्रहः, वितिधा-आदेशानादेशादिभेदादनेकभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, भणिता-अभिहिता, क्षेत्रादिषु क्षेत्रादिविषयः संयोगः प्रथमद्वारगाथासूचितः। स चैवं विभाषितव्यः। तुः पूरणे। संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चिद्वाच्यादभेदख्यापनार्थमुक्तम् / ततोऽयमर्थः-सम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगस्वरूपमुक्तम्, इहापि तदेव वक्तव्यं, चकारस्यानुक्तसमुच्चयार्थत्वात् / संयुक्तकसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः / तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्यूद्वीपः स्वप्रदेशसंयुक्तक एव लवणसमु-द्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्पर धर्मास्ति-कायादिप्रदेशैर्वा संयोगः / एवं कालभावयोरपि नेयमिति गाथार्थः। इह चोक्तनीत्या सम्बन्धनसंयोग एव साक्षादुपयोगी, इतरेषा तु तदुपकारितया तेषामपि कथञ्चित्त्याज्यतया च शिष्यमतिव्युत्पादनाय चोपन्यास इति भावनीयम् / उक्तःसंयोगः, तदभिधाना-च्च व्याख्यातं प्रथमसूत्रम् / / 1 / / उत्त० 1 अ० / कथं संयोगासिद्ध-त्वम्' येनोक्तदोषदुष्टः प्रकृतो हेतुः स्यात् 1 उच्यते-तद्ग्राहक-प्रमाणाभावात, बाधकप्रमाणोपपत्तेश्च / ' तथाहि- "संख्यापरि-माणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपि (द्रव्य) समवायाचाक्षुपाणि (वैशेषिकद. 4 / 1 / 11 / )" इति वचनात् दृश्यवस्तुसमवेतस्य परेण प्रत्यक्षग्राह्यत्वमभ्युपगतम् / न च निरन्तरोत्पन्नवस्तुद्वयप्रतिभासकालेऽध्यक्षप्रतिपत्तौ तद्व्यतिरेकेणापरः संयोगो बहिर्गाह्यरूपतां बिभ्राणः प्रतिभाति, नापि कल्पनाबुद्धौ वस्तुद्वयं यथोक्तं विहाय, शब्दोल्लेख चान्तरमपरं वर्णाकृत्यक्षराकाररहितं संयोगस्वरूपमुद्भाति / तदेवमुपलब्धिलक्षणप्राप्तस्य संयोगस्यानुपलब्धेरभावः, शशविषाणवत्। तेन यदाहोद्द्योतकराः- “यदि संयोगो नार्थान्तरं भवेत्तदा क्षेत्रबीजोदकादयो निर्विशिष्टत्वात्सर्वदैवाड्कुरादि-कार्यकुर्युः, न चैवम्-तस्मात्सर्वदा कार्यानारम्भात् क्षेत्रादीन्यड् कुरोत्पत्तौ कारणान्तरसापेक्षाणि, यथा मृत्पिण्डादिसामग्री घटादिकरणे कुलालादिसापेक्षा; योऽसौ क्षेत्रादिभिरपेक्ष्यः स संयोग इति सिद्धम् / किञ्च-असौ संयोगो द्रव्ययोर्विशेषणभावेन प्रतीयमानत्वात् ततोऽर्थान्तरत्वेन प्रत्यक्षसिद्ध एव / तथाहिकश्चित्केनचित्संयुक्त द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते ते एवाहरति न द्रव्यमात्रम्। किञ्च-दूरतरवर्तिनः पुंसः सान्तरेऽपि वने निरन्तररूपाऽवसायिनी बुद्धिरुदयमासादयति; शेष मिथ्याबुद्धि, मुख्यपदार्थानुभवमन्तरेण न क्वचिदुपजायते।नह्यननुभूतगोद-र्शनस्य गवये 'गौः' इति विभ्रमो भवति / तस्मादवश्यं संयोगोमुख्योऽभ्युपगन्तव्यः। तथा'न चैत्रः कुण्डली' इत्यनेन प्रतिषेधवाक्येन न कुण्डलं प्रतिषिध्यते, नापि चैत्रः, तयोरन्यत्र देशादो सत्त्वात्।तस्माचैत्रस्यकुण्डलसंयोगः प्रतिषिध्यते।